Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
३२०
भद्रङ्करोदयाख्यव्याख्याविभूषिते
धनार्थिनां यथा नास्ति शीताऽऽतपादि दुःसहम् । तथा भवविरक्तानां तत्वज्ञानार्थिनामपि ॥ ३ ॥
धनार्थिनामित्यादि । यथा-येन प्रकारेण, धनार्थिनाम्बनेन स्वर्णरत्नाद्यात्मकेन वित्तेन, धनाभिन्न इत्यर्थः, अभेदे तृतीया। मर्थः प्रयोजनं धनार्थः, सोऽस्त्येषामिति ते तादृशास्तेषां धनार्जनप्रवृत्तिमताम् , शीतातपादि-शीतं शैत्याधिक्यजनकहिमवातादिकम्, भातपो धर्मतापाद्याधिक्यजनको रविकरादिः, आदिना क्षुत्तष्णादयः, तदेतत्सर्वम् , यदन्येषां दुःसहं तदपीत्यर्थः । दुःसहम्दुःखेन सबते मृष्यते इति तादृशम् , कष्टाधिक्य करमित्यर्थः । नास्ति-न भवति, यथाधनार्थिनो धनार्जने नान्तरीयकतया शीतातपादिकमन्येषां दुःसहमपि सुखं सहन्ते, लाभाधिक्यात् शीतातपादिकष्टं कष्टं न गणयन्तीत्यर्थः । तथा-तेन प्रकारेण, भवविरक्तानाम्-भवात्संसाराद् दुःसहदुःखनिमित्तत्वेनाऽसारत्वबुद्धया। विरकानां विप्रीतोद्विग्ननिर्विण्ण चित्तानाम् , अत एव तदुच्छेदा
म्, तत्वज्ञानार्थिनाम्-तत्त्वं पारमार्थिकमात्मस्वरूपं तस्य ज्ञानं साक्षत्कारस्तेनाऽर्थः प्रयोजनमस्त्येषां तेषां तत्त्वज्ञानात्यै कृतप्रयासानाम्, अपिना धनादिलौकिकलाभे यदि शीतातपादि न दुःसहं तर्हि तत्त्वज्ञानात्मकसुदुर्लभाऽलौकिकलामे तन्न दुःसह मिति किमु बक्तव्यमिति सूच्यते । शीतातपक्षुत्तृडनशनादिसहनात्मकं तपो दुःसहं नास्तीति सम्बन्धनीयम् । फले द्वेषाद्धयुपाये द्वेषः । तुल्ययुक्त्म फलेऽनुरागात्तदुपाये उत्सर्गतोऽनभिमतेऽपि न द्वेष इति दुःखबुद्ध्यभाव एव मुखं तपसीत्याशयः ॥ ३ ॥

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376