Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 343
________________ ३२६ भद्रङ्करोदयाख्यव्याख्याविभूषिते ॥ सर्वनयाश्रयणाष्टकम् ॥ ननु पूर्णाष्टकादितपोऽष्टकान्तेनैतावता ग्रन्थेन सम्यग्ज्ञा निनं मुमुक्षुमुद्दिश्य साध्यं साधनं च प्रतिपादितम् । तत्राऽऽत्मस्वरूपेऽन्यपदार्थस्वरूपे च विभिन्ना नयाः, ततश्च विप्रतिपत्तिः । न च विप्रतिपन्नमतीनामात्मा साधनेन केनाऽपि साध्यः, आत्मस्वरूपस्यैवाऽनिर्णयात् । नह्यनिर्णीतं साध्यते इति शिष्यं व्यामोहमापन्नं बोधयितुं सर्वनयाश्रयणाष्टकं विवक्षुः सर्वनयाश्रयणमेत्र श्रेय इत्याह - · धावन्तोऽपि नयाः सर्वे स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाऽऽश्रित ॥ १ ॥ घावन्त इत्यादि । सर्वे सकलाः, सर्वप्रकारा एवेत्यर्थः । अर्थवशादेवकारार्थी लभ्यते । न त्वेको द्वौ बहव एव वाऽपि तु सर्वे इत्याशयः । नया:- नीयते परिच्छिद्यते प्रतिपाद्यते वा प्रमाणपरिच्छिन्नस्याऽनन्तांशस्य वस्तुन इतरांश | ऽनपला पपूर्वक मंशविशेषो येनाध्यवसायविशेषेण स नयो मतवादविशेषः । स चाsनेक प्रकार इति नया नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूताख्याः सप्त । धावन्तः - स्वास्वाऽभिमतार्थे सत्वरं साडम्बरं दृढतरयुक्त्युपन्यासश्रमार्त्ता अपि, अपिना स्थिरस्य भावविश्रामोऽस्त्येवेति सूच्यते, धावनं तु स्वमतकदाग्रहादिति बोध्यम् । भावेवस्तुस्वभावे, वस्तुधर्मे इत्यर्थः । वस्त्वंश इति यावत् । कृतविश्रमाः - कृतो विहितो विश्रामो धावनविरामो यैस्ते तादृशा एव, •

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376