Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
ज्ञानसारे पूजाऽष्टकम्
३०३
मूतानि या भिदाः प्रकारा जातिकुलबलश्रुततपोवाल्लभ्य लाभास्तेषां त्यागाः परिहाराः, जात्यादिमदत्यागा इति यावत् । तैः कृत्वा, अग्रे-आत्मानमभिलक्ष्य, अष्टमङ्गलम् - अष्टानामष्टसख्याकानां मङ्गलानां स्थापनामङ्गलानां स्वस्तिकादीनां समाहारोऽष्टमङ्गलम्, अष्टमङ्गलेति प्रसिद्धमा लेपनमित्यर्थः । पात्रादेराकृतिगणत्वात्पश्ञ्चपात्रादिवत्स्त्रीत्वाऽभावः । अष्टमङ्गली मितिपाठस्त्वपपाठः । तत्र तत्र क्लीनस्यैव तस्य शिष्टानां व्यवहारविषयत्वात् । तीरभुक्यादिदेशविशेषे विवाहपद्धत्यादौ अष्टमङ्गलपदस्यैव प्रयोगदर्शनाच्चेति बोध्यम् । लिख-रचय, अष्टमदत्यागो ह्यष्टमङ्गलरचना, तेनाऽऽत्मनो मङ्गलगुणाविर्भावादित्याशयः । ज्ञानाग्नौ - ज्ञानयेव सङ्कल्पदाहकत्वादग्निस्तस्मिन्, शुभसङ्कल्पकाकतुण्डम् - शुभः शुभगुणविषयत्वात्प्रशस्यो यः सङ्कल्पो मनोरथः स एव शुभात्मक सौरभाऽनुगतत्वात्काकतुण्डं कालागुरुस्तत्, घूग्य-दह, निर्विकल्पक समाधिलाभो यथास्यादितिभावः । मदं त्यक्त्वा ज्ञानेन सङ्कल्पमात्रं निरुणद्धि, ततश्चाऽऽत्मदेवस्य साक्षात्काररूपः प्रसादः प्राप्तो भवेदिति मदत्यागः सङ्कल्पनिरोधश्च नियाग इति हृदयम् ॥ ४ ॥ अथ शिष्यजिज्ञासा निवृत्तये नीराजनाद्युपचारमप्याहप्राग्धर्मलचणोत्तारं धर्मसंन्यासवह्निना । कुर्वन् पूरय सामर्थ्य राजन्नीराजनाविंधिम् ॥ ५ ॥
प्रागित्यादि । प्राक् - आदौ, नीराजनाविधेः पूर्वमित्यर्थः । द्रव्यपूजायां तथैवाऽऽचारादिति बोध्यम् । धर्मसंन्यासबह्निना-धर्माणां

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376