Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 329
________________ ३१२ भद्रकरोदयाख्यव्याख्याविभूषिते समापत्तिरित्याख्येति हृदयम् । ईदृशाऽलौकिकदुर्लभाऽसाधारणफललाभाय समापत्तिः सर्वप्रयासेन साधनीयेति दूगनुधावि तात्पर्यम् । ध्यानात्समापत्तिस्ततस्तीर्थकृन्नामकर्मोपार्जनम् , अनन्तरं च जन्मान्तरे तदुदये तीर्थकृत्त्वमित्यभिव्यक्तः सारांशः ॥ ४ ॥ ननु विंशतिस्थानकफलं तीर्थकरनामकर्मेत्यागमप्रसिद्धम् । भवता च समापत्तिफलं तदुच्यते इति विपतिपत्तिरिति विप्रतिपन्न शिष्यं प्रबोधयमाह इत्थं ध्यानफलाद् युक्तं विंशतिस्थानकाद्यपि । कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवे ॥ ५॥ इत्थमित्यादि । इत्थम्-उक्तप्रकारेण, ध्यानफलात्-ध्यानस्योक्तलक्षणस्यैकाग्र्यसंवित्तेर्यत्फलं समापत्त्यापत्तिसंपत्तिरूपं तत्सद्भा. वाद्धेतोरित्यर्थः । यतो ध्यानस्योक्तं फलमत इति यावत् । विंशतिस्थानकाद्यपि-विंशतिभिः सङ्ख्याभिः सङ्ख्येयानि अर्हत्पूजा. दिपदरूपाणि, आदिना तादृशतपोऽन्तरपरिग्रहः तानि यत्र ताहशतपोऽपि, अपिना विंशतिस्थानकानां तीर्थकृन्नामकर्महेतुत्वेन प्रख्यातत्वं सूच्यते । युक्तम्-तीर्थकुन्नामकर्महेतुत्वेन घटमानकम् । नाऽन्यथा, विंशतिस्थानकै हि सेवित निं विशुध्यति, ततश्चोक्तं फलम् । एवं च यदि ध्यानस्योक्तं फलं न स्यात्तदा विंशतिस्थानकानि न तादृशफलवन्ति स्युः, ध्यानस्यैव वन्वे साक्षाद् हेतुत्वात् । तादृशध्यानफलाभावे हि तानि सेवितानि कष्टमात्रम् , तदाहकष्टमात्रमिति । तु विशेषे। कष्टमात्रम्-कष्टमेव कष्टमात्रम् ।

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376