Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 351
________________ ३३४ भद्रकरोदयाख्यव्याख्याविभूषिते पीडा, कारणे कार्योपचारादिति । वा-अथवा, अतिविग्रहःस्वविरोषिभिः सहाऽत्यन्तं विग्रहः कलहः, विवाद इत्यर्थः । मम पक्ष एब सम्यगिति स्मयाऽऽविष्टतया स्वपक्षस्थापनाय परपक्षपराभवाय चाऽत्यन्तं विवादः, स्यादिति सम्बध्यते । स्वमतामही कलहायत एवेति प्रतीतमिति भावः । एवञ्च सर्वनयाश्रितेनैव भाव्यं यथा स्मयाति ; विवादो वा न भवेदिति हृदयम् ॥ ४॥ अथ शिष्यमबोधार्थं सर्वनयज्ञपृथङ्नयज्ञयोः फले वैषम्यमाहश्रेयासर्वनयज्ञानां विपूलं धर्मवादतः । शुष्कवादाद्विवादाच्च परेषां तु विपर्ययः ॥ ५ ॥ श्रेय इत्यादि । सर्वन यज्ञानाम्-सर्वान् सप्तापि नयान् जानन्तीति ते तादृशास्तेषाम् , सर्वनयाश्रयणेन साक्षात्कृतवस्तुपारमार्थिकतत्त्वानां स्याद्वादिनाम्, धर्मवादत:-धर्मेण धर्माय च वादो धर्मवादः, तत्त्वबुभुत्सुकथेत्यर्थः । यत्र बादे धर्मपूर्वकं विजिगीषया छलादिकमनाश्रित्यैव वस्तुतत्त्वनिर्णयमात्रमुद्दिश्य परस्परं पूर्वपक्षोत्तरपक्षाश्रयणं सः, येन वादेन लोको धर्मे प्रवर्त्यते, तादृशाद्वादतः, तादृशवादसद्भावादित्यर्थो बोध्यः । सर्वनयाभिमतो हि परसम्मतमप्यर्थं वस्तुनि पश्यन्नैकार्थाग्रही न भवति, ततः समवृत्त्या स पदार्थयथार्थतत्त्वं वदति सद्धर्म लोकानुपदिशति चेति सर्वनयज्ञानां धर्मवाद एवेत्याशयः । अत एव हेतोः, विपुलम्-प्रचुरम् , इहलोकपरलोकव्यापीत्यर्थः, इहामुत्र चेतियावत् । श्रेय:-पुण्यम् , लक्षणया शुभं फलम् , इह लोके यशःपूजादिः परत्र चाऽलौकिक

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376