Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
साम्राज्यमप्रतिद्वन्द्वमन्तरेव वितन्त्रतः । — ध्यानिनो नोपमा लोके सदेवमनुजेऽपि हि ॥ ८॥ इति महामहोपाध्याय श्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे
. ध्यानाऽष्टकं नाम त्रिंशत्तममष्टकम् ॥ ३० ॥
जितेन्द्रियस्येत्यादि । जितेन्द्रियस्य-जितानि वशीकृतानि मनिष्टप्रवृत्तिनिरोधपूर्वकेष्टप्रवृत्तिमन्ति कृतानि न तु सर्वथा निरुद्धानि इन्द्रियाणि चक्षुरादीनीन्द्रियपदवाच्यानि येन स तादृशस्तस्य, बान्तस्येत्यर्थः। अवशेन्द्रियस्य हि न ध्यानलाभः । यदुक्तम्" इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन" इति, " इन्द्रियाणां हि चस्तां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु विमि. वाऽम्भसी "ति च । तथा, धीरस्य-धैर्यशालिनः, उपसर्गादो भवानविघ्ने सत्यप्यप्रचलितस्येत्यर्थः । जितेन्द्रियस्याऽप्युपसर्गाद्यमहिष्णुत्वे ध्यानालामादिति भावः। तथा, प्रशान्तस्य-निरुद्धतृष्णस्य, तृष्णायां हि सत्यां धीरस्याऽपि मनश्वाञ्चल्य द् ध्यान मनापतेरिति तृष्णानिरोध एव विशुद्धध्यानलाभः । यदुक्तम्" सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वान शेषतः । मनसैवेन्द्रियग्राम विनियम्य समन्ततः ॥ शनैः शनैरुपपरमेद् बुद्धयः धृतिगृहीतया । आत्मसंस्थं मनःकृत्वा न किञ्चिदपि चिन्तयेत् ॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्तनो नियम्यैतदात्मन्येव वशं नयेत् ।। प्रशान्तमनसं ह्येनं योगिनं मुख मुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषमि "ति । धीरप्रशान्तस्य नवमरसविभावलक्षणलक्षिः

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376