Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
ज्ञानसारे पूजाऽष्टकम्
३०५
स्फुरदित्यादि । पुर:- अग्रे, आत्मदेवस्येति प्रस्तावाल्लभ्यते । अनुभवम् - अनुभवाऽष्टकोक्तप्रकारेण वस्तुयथार्थ स्वरूपावगमपरमावविरमण तदास्वादनैकत्वात्मकोऽनुभवः, केवलज्ञानद्वारा निश्वयेनाऽऽत्मप्रकाशकत्वाचद्रूपमित्यर्थः । स्फुरन्मङ्गलदीपम् - स्फुरन् प्रकाशमानो मङ्गलार्थो दीपो मङ्गलदीपस्तम्, स्थापय - निधेहि, चः समुच्चये । देवस्य पुरतो हि मङ्गलदीपः स्थाप्यते इति बोध्यम् । तथा - योगनृत्य परः - योगः संयमयोगः स एवाऽऽनन्दमयात्म साक्षात्कारप्रयोजकत्वाद् विविधदैहिकाऽत्मिक क्रियात्मकत्वाच्च नृत्यं तत्परः सन्, तौर्यत्रि कसंयमवान् - गीतं नृत्यं वाद्यं चेतित्रयं तौर्यत्रिकम्, "तौर्यत्रिकं नृत्यगीतवाद्यमि "त्यमरः । एकत्र धारणाध्यानसमाधिश्व संयमः । " त्रयमेकत्र संयम " इत्युक्तेः । तोर्यत्रिकमेव सङ्ख्यासाम्यात्संयमस्तद्वान्, आत्मविषय कधारणाध्यानसमाधिमा नित्यर्थः । मत्र - एघि | भावपूजायामनुभवो मङ्गलदीपो योगो नृत्यं संयमश्व तौर्यत्रिकमिति भावः । रूपकालङ्कारः ॥ ६ ॥
सम्प्रति घण्टावादनेन पूजां समापयन् शिष्यहृदयावर्जनाय
फलमाह
उल्लसन्मनसः सत्यघण्टां वादयतस्तत्र । भावपूजारतस्येत्थं करक्रोडे महोदयः ॥ ७ ॥
उल्लसदित्यादि । वरसेति सम्बोधनमर्थाल्लभ्यम् । इत्थम् - उक्तप्रकारेण, भावपूजारतस्य भाव आत्मस्वभावस्तद्रूपया सामग्र्या दगादिरूपया कृत्वा या पूजाऽऽत्मदेवसपर्या तत्र रतस्य तत्परस्य,
२०

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376