Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 348
________________ ज्ञानसारे सर्वनयाश्रयणाऽष्टकम् ३३१ भिमतधर्मात्मकं वस्तु प्रतिपद्यमानः सन्नित्यर्थः । अत्र च ज्ञान्येव सर्वनयाश्रितः स एव च स इत्युभयथाऽप्यर्थो ध्वन्यते । द्रव्यात्मना हि वस्तु नित्यं सामन्यमभिन्नं सत् , गुणप्रधानभावेन सदसत्त्व. विवक्षायां वाच्यं च । पर्यायात्मना त्वनित्यं विशेषात्मकं भिन्नम. सद् मुख्यभावेन सदसत्त्वोभयविवक्षायामवाच्यं चेति नित्यानित्यसामान्यविशेष भेदाभेद सदसद्वाच्यत्वाऽवाच्यत्वाद्यनन्तधर्मात्मकमेव वस्तुतत्त्वम् , सतोऽपलापाऽयोगादित्याशयः। समवृत्तिः-समा मध्यस्थतया सर्वनयाभिमतवस्तुधर्मेषु तुल्या समाना वृत्तिः परिणतियस्य सः । पक्षप्रतिपक्षवर्जनाद्रागद्वेषशून्य इत्यर्थः । अत एव, सुखास्वादी-सुखस्य कदर्थनाऽभावात्सम्यग्ज्ञानजनितात्मानन्दस्याऽस्वादोऽनुभवोऽस्त्यस्येति स ताहश, । भवतीति शेषः । योहि न पक्षप्रतिपक्षबाधितः किन्तु समतामतिः स एवानुद्विग्नत्वातत्त्व. दृष्टित्वाच्च सुखमनुभवतीति सर्वनयाश्रितेनैव भाव्यमित्याशयः । यदुक्तम्-अन्योन्यपक्षप्रतिपक्ष भावाद्यथा परे मत्सरिणःप्रवादाः । नयानशेषानविशेषमिच्छन्न पक्षपाती समयस्तथा ते " इति ॥२॥ अथ शिष्यप्रबोधाय जिज्ञासानिवृत्तये च सर्वन याश्रितत्वं निर्वक्ति नाऽप्रमाणं प्रमाणं वा सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ॥ ३ ॥ नाऽपमाणमित्यादि । सर्वम्-अशेषम् , प्रत्येकं तत्तन्नयवाक्य. मित्यर्थः । अपिना नत्वेकं द्वे एव वेति न्यूनव्यवच्छेदो द्योत्यते ।

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376