Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 344
________________ ज्ञानसारे सर्वनयाश्रयणाऽष्टकम् ३२७ स्यु:-सन्ति, न तु भावमतिकाम्यन्ति, भावनिरूपणार्थमेव व्यापृ. तत्वात् । यो यो नयो यं यमर्थ प्रतिपादयति स वस्तुधर्मो भवत्येव, वस्तूनामनन्तधर्मात्मकत्वादित्याशयः : इति-नयप्रतिपादितानामर्थानां वस्तुस्वभावत्वाद मावे नयानां कृतविश्रमत्वा. द्धेतोः, चारित्रगुणलीन:-चारित्रस्य संयमस्य सर्वविरत्यात्मकस्य ये गुणाः क्रमशो गुणश्रेण्यारोहस्तत्र लीनः परायणः, संयमेनाss. त्मगुणपर्यायमर्जयितुं विहितोद्यमः साधुः, सर्वनयाश्रितः-सर्वानयानुक्तपकारानाश्रितः स्वीकृततदभिमतार्थः, अन्यथा वस्तुनः सर्वात्मना परिच्छेदासम्भवादिति भावः । स्यात्-भवेत् । नोकं नयमाश्रित्याऽपरस्य नयस्य निराकरणं युज्यते. सर्वेषां नयानां भाव एव विश्रामाद्वस्तुधर्मस्यैव निषेधाऽऽपल्या वस्तुयथार्थस्वरूपाऽनवगंमादुद्देश्याऽसिद्ध्या पत्तेः, वस्तुतत्त्वज्ञानमेव ह्युद्देश्यम् । तस्मात्सर्वन याश्रयणात्मकोऽनेकान्तवाद एव युक्तो नत्वेकान्तवादः, तेन वस्तुस्वरूपस्य सम्यगपरिच्छेदादित्याशयः। सर्वनयाऽभिमत धर्मपुरस्कारेण वस्तुपरिच्छेद एव सम्यग्ज्ञानमन्यन्मिथ्यात्वमिति निष्कर्षः । तत्रजिज्ञासानिवृत्तये सङ्केपतो नयस्वरूपमुच्यते । तथाहिनयो मूलतो द्विविधो द्रव्यास्तिकः पर्यायास्तिकश्च । द्रव्यं प्रधानं मत्वा प्रवर्त्तमानो द्रव्यास्तिकः, पर्यायं प्रधानं मत्वा प्रवर्तमानः पर्यायास्तिकः । पर्यायः क्रममाव्ययावद्रव्यभावी सहभावी याव. द्रव्यभावी च धर्मो बोध्यः । तत्र द्रव्यार्थिकस्त्रिविधो नैगमसमहः व्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्रशब्दसमभिरूद्वैवम्भू. तभेदात् । द्रव्यास्तिको द्रव्यार्थिकश्वानर्थान्तरम् । पर्यायास्तिकः

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376