Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 338
________________ ज्ञानसारे तपोऽष्टकम् ३२१ ननु तपो दुःसहं न भवतु । न च तावता तत्र सुखं भवतीति सिद्धयति । एवं च तपः सुखमित्युक्ति ने सङ्गच्छत एवेति शिष्यतक विघटय नाह सदुपायप्रवृत्तानामुपेयमधुरत्वतः ज्ञानिनां नित्य मानन्दवृद्धिरेव तपस्विनाम् ॥ ४ ॥ सदुपायेत्यादि । सदुपायप्रवृत्तानाम्-सन् इष्टसाधको बलवदनिष्टाननुबन्धी कृतिसाध्यश्च य उपाय उपेयसाधनं तपःसंयमा. दिदश विधमुनिधर्मस्तत्र प्रवृत्तानां तत्पराणाम् , ज्ञानिनाम्-अनेनोपायेनेष्टोपेयसिद्धिरित्येवं सम्यग्ज्ञानवताम् , शुभफलकशुभानुष्ठान. परायणानामिदमत्र नान्तरीयकं दुःखमित्येवं ज्ञानसम्पन्नानामित्याशयः । अतएव, तपस्विनाम्-तपःप्रायश्चितादिकमाभ्यन्तरमनश. नादिकं ब ह्यं च कष्टात्मकमम्त्येषामिति तेषां तपसा फलसिद्धिरिति ज्ञात्वा तपःपरायणानां मुनीनाम् , उपेयमधुरत्वतः- उपेयस्य प्राप्यस्य मोक्षस्य मधुरत्वतः सुखातिशयात्मकत्वाद्धेतोः, नित्यम्सर्वदा सर्वत्र च तपसि, आनन्दवृद्धिः-आनन्दस्याऽऽत्मसुखानुभवस्य वृद्धिरुत्कर्ष एव, एषकारेण न तु कदापि दुःखानुभव इति लभ्यते। उपेयस्वेष्टतमत्वादुपायोऽपीष्टतम एव नान्तरीयकत्वा. दुत्कृष्टलाभोत्साहाचेत्युपायस्थ दुःखात्मकत्वेऽपि तत्र सुखमेव । नहीष्टं दुःख निमित्तमिति कष्टात्मकस्याऽपि सुखहेतुत्वं प्रयोजनव. शाकामिनां मानिनीपादपहारवदिति भावः ॥ ४ ॥ २१

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376