Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
भानसारे आशीर्वचनम्
मनसारादिलब्धसम्यग्ज्ञानस्य, उत्कर्ष-विशुद्धावेव, एवकारेणाऽपकर्षव्यवच्छेदः । सम्भवतीति शेषः । अज्ञस्याऽल्पज्ञस्य च ज्ञानाs. भावादेव सर्वतो निवृत्त्यसम्भवात् , शुद्धनिवृत्त्यसम्भवाच्चेति भावः । हि-तदेतत्स्फुटम् । सर्वजनप्रतीतमित्यर्थः । तत्-तस्मात् , योगा सिद्धये-योगस्य सम्यक्चारित्रात्मकस्य सिद्धये लाभाय, तेन चारित्रेण योगस्सम्पर्कस्तादृशचारित्राप्तिस्तस्य सिद्धये इति वाऽर्थः । बानाद्वैतनये-ज्ञानस्य सम्यग्ज्ञानस्य यदद्वैतं तदेवैकं नाऽन्य. सदित्येधमभेदस्तद्रूपो यो नयो निश्चयो बोधो वा तत्र, ज्ञानं जारित्रं चैकमेव, ज्ञाने सत्येव चारित्रलाभादित्येवं ज्ञानचारित्रमोरभेदबोधे इति वाऽर्थः। दृष्टि:-स्वोपयोगः, देया-विधेया, न तु क्रियाद्वैतनये इति भावः । तादृशं च ज्ञानं ज्ञानसारेण लभ्यमिति ज्ञानसारः सर्वथा परिशीलनीयएवेति हृदयम् ॥ १२ ॥
॥ आशीर्वचनम् ॥ अथ ग्रन्थकारः प्रस्तुतस्य ज्ञानसारग्रन्थस्यसमाप्त्यादिकं कथयन् वाचकस्य शुभाशंसामाहसिद्धिं सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवान् चिदीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनश्चश्नच्चमत्कारिणां तैस्तै र्दीपशतैः सुनिश्चयमते नित्योऽस्तु दीपोत्सवः ॥१३॥
सिद्धिमित्यादि । अयम्-प्रस्तुतः, चिंदीप:-चितां सम्य

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376