Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
३३८
भद्रङ्करोदयाख्यव्याख्याविभूषिते
अप्रमादं निरतीचारं च स्त्रेष्टसाधनप्रवृत्ताः भवन्तीति शेषः । अत एव, परमानन्दमयाः - परमोऽकृत्रिमोऽखण्डितश्च य आनन्दः सुखानुभवस्तन्मयाः, आत्मसुखमग्ना इत्यर्थः । जयन्ति - सर्वोत्क र्षेण वर्त्तन्ते । ये आत्मसुखमग्ना स्त एव सर्वोत्कृष्टाः, लौकिकसुखस्याऽपकृष्टत्वात्तन्मग्नस्याऽप्यपकृष्टत्वादित्याशयः । अयं भावःयः सम्यग्ज्ञान्येकान्ताग्रहं त्यक्त्वा पारमार्थिकं सर्वनयाभिमतवस्तुतत्त्वमवधार्य देशकालादिकमनपेक्ष्यैव स्वेष्टसाधने प्रवर्त्तमानो भवति तस्य निवृत्तकषायादेरात्मसुखानुभवो लोकातिशायीति स सर्वश्रेष्ठः । इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्र विजयजी गणिवर शिष्य पन्या सश्री शुभङ्कर विजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां सर्वनयाश्रयणाष्टकं नाम द्वात्रिंशत्तममष्टकम् ॥ ३२ ॥
॥ उपसंहारः ॥
अथोपसंहरन् मुनेर्विशेषणव्याजेनोक्तानामष्टकानां क्रमशो नामानि सूचयन्नुक्ताऽष्टकतत्त्वज्ञस्यैव ज्ञानसारलाभ इति पञ्चभिः लोकैराह -
पूर्णो मनः स्थिरोऽमोहो ज्ञानी शान्तो जितेन्द्रियः । त्यागी क्रियापरस्तृप्तो निर्लेपो निःस्पृहो मुनिः ॥ १ ॥ विद्याविवेकसम्पन्नो मध्यस्थो भयवर्जितः । अनात्मशंसकस्तत्त्वदृष्टिः सर्वसमृद्धिमान्
॥ २ ॥

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376