Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[य] वसुभूतिपुत्रं पृथ्वीभवं गौतमगोत्ररत्न श्रीइन्द्रभूति देवासुरमानवेन्द्राः स्तुवन्ति, स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः ।
__'यत्तदोर्नित्यसम्बन्धात् ' चतुर्थपादोपात्ततच्छब्दबलाद् यच्छन्दाक्षेपः, तत् फलितं 'यम्' इति । वसुभूतिपुत्र-वसुन:-विद्यारूपधनस्य, भूतिःविभूतिर्यस्य सः, यद्वा वसूनां वासगदिदेवानां, भूतिः-ऐश्वर्यं यस्मिन् यस्य वा स वसुभूतिः, तन्नामा विप्रविशेष इत्यर्थः, तस्य पुत्रः-वसुभूतिपुत्रः, तं तथा । पृथ्वीभवं-पृथ्वी-पृथ्वीवत् स्थिरतादिगुणशालित्वात् तन्नाम्नी वसुभूतिविप्रभार्या, तस्याः सकाशात् भवतीति भवः-जातः पृथ्वीभवः, तं तथा । पृथिव्यभिधानजननीलब्धजन्मानमित्यर्थः । गौतमगोत्ररत्नं-गौतमाभिधानं गोत्रं गौतमगोत्रम्, गौतमगोत्रे रत्नम्-अनल्पनैमल्यादिगुणकलितत्वात् रत्नमिव इति गौतमगोत्ररत्नम् , तत् तथा, गौतमगोत्रीयजनेषु सर्वोत्तम इत्यर्थः । श्रीइन्द्रभूतिम्-इन्द्रः देवानामधिपतिः, तस्य भूतिरिव भूतिः-विबुधजनाचनादिरूपा विभूतिर्यस्य स इन्दभूतिः । यद्वा इन्द्रः-आत्मा, तस्य भूतिःज्ञानादिलक्ष्मीर्यस्य स इन्द्रभूतिः । इन्द्रस्य भूतिः-ऐश्वर्यरूपोंऽशः यस्मिन् यस्य वा । श्रिया-जनबहुमानादिशोभया युक्त इन्द्रभूतिः श्रीइन्द्रभूतिः, तं तथा। गुणनिष्पन्न 'इन्द्रभूति' इति नामानमित्यर्थः । देवासुरमानवेन्द्रा:देवाश्च असुराश्च मानवाश्च देवासुरमानवाः, तेषां इन्द्रा:-अधिपतयो देवासुरमानवेन्द्राः, “ द्वन्द्वान्ते द्वन्द्वादौ वा भ्रूयमाणं पदं प्रत्येकमभिसम्बध्यते” इति इन्द्रशब्दस्य प्रत्येकमन्वयाद् देवेन्द्राः-शकेन्द्रादयः, असुरेन्द्राः-चमरेन्द्रादयः, मानवेन्द्राः-चकवादयश्च । स्तुवन्ति-स्तुतिकुसुमैः अर्चयन्तीत्यर्थः । सयच्छब्देन निर्दिष्टस्वरूपः । गौतमः-गौतमगोत्रसमुद्भुतः । प्रशस्ततरगौतमगोत्रसमुत्पन्नत्वाद् तस्य विशेष्यत्वेन विवक्षणम् , अत एव सत्यपि 'इन्भूति' इति नाम्नि भगवत्या भ्रमणेन भगवता महावीरेण 'हन्ता गोयमा! [हे गौतम ! ] ' इति गोत्रोक्तिपूर्वकं प्रतिवचनं प्रदत्तम् । मे-स्तुतिकर्तुम । वान्छितं-लौकिकलोकोत्तरेष्टफलसिद्धिम् । यच्छतु-समर्पयतु ।'
'उपेन्द्रवज्रा यदि तो जगौ गः। 'स्यादिन्द्रवज्रा प्रथमे गुरौ सा' इति मिश्रस्वात् 'उपजातिवृत्तम् ', एवमप्रेऽपि ॥
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58