Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे ॥३॥ 'श्रीवीरनाथेन पुरा प्रणीतं यस्य मन्त्रं महानन्दसुखाय समना अमी सूरिवराः ध्यायन्ति, स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः । श्रीवीरनाथेन-यः कर्म विदारयति तपसा च विराजते स वीरः, यद्वा वीरतायुक्तः वीरः, वीरता च तपःसम्बन्धिनी रागद्वेषाद्यान्तररिपुविजेत्री च ज्ञेया । यदुक्कम् --परमार्हतश्रीकुमारपालभूपालप्रतिबोधककलिकालसर्वज्ञेन श्रीहेमचन्द्रसूरिभगवता योगशास्त्रे " विदारयति यत् कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः ॥१॥" 'योगक्षेमकृन्नाथः' इति वचनाद् अलब्धस्य ज्ञानादेलाभो योगः, लब्धस्य च परिरक्षणं क्षेमः, तत्कारी नाथः। वीरश्चासौ नाथश्च-धीरनाथः, श्रियायुक्तः वीरनाथ:-श्रीवीरनाथः, तेन श्रीवीरनाथेन । पुरा-पूर्वस्मिन् काले । प्रणीतं-रचितम् । यस्य-श्रीगौतमस्वामिनः । मन्त्र-शक्तिविशेषशालिदेवाद्यधिष्ठितशब्दसन्दर्भविशेषम् । महानन्दसुखाय-महान् आनन्दो यत्र स महानन्दः, मोक्ष इत्यर्थः, तस्मै सुखाय महानन्दसुखाय । समग्रा:सर्वेऽपि । अमी सूरिवरा:-सूरिषु वराः सुरिवराः, उत्तमा भावाचार्या इत्यर्थः । ध्यायन्ति-निरुक्तमन्त्रस्य ध्यानं कुर्वन्ति । शेषं तु पूर्ववत् ।। શ્રી મહાવીર પરમાત્માએ પૂર્વે જેને મંત્ર રચ્યો હતો તે મંત્ર મહાનન્દ-સુખને માટે થાય છે તેથી સમગ્ર મુરિવરે એનું ધ્યાન કરે છે. એવા તે મંત્રરૂપ ગૌતમ (ગૌતમસ્વામી) મને ઈચ્છિત ફળને मापना। थाit. () यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58