Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(ર) જન્મ લે ન પડે તે માટે અક્ષીણમહાનસ લબ્ધિ વડે ક્ષીર આપનારા એવા તે ગૌતમ (ગૌતમસ્વામી) અને ઈચ્છિત ફળ આપ. (૬) सदक्षिणं भोजनमेव देयं,
___ सार्मिक सङ्घ-सपर्ययेति । कैवल्य-वस्त्रं प्रददौ मुनीनां,
स गौतमो यच्छतु वाञ्छितं मे ॥७॥ 'सदक्षिणमेव भोजनं देयं, साधर्मिक सङ्घसपर्यया इति, मुनीना कैवल्यवस्त्रं यः-] प्रददौ, स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः ।
सदक्षिणं-भोजनाद्यनन्तरं द्विजादिभ्यो दीयमान वस्त्रादि दक्षिणा, दक्षिणया सहित सदक्षिणम् । एव-एतादृशमेव। भोजन-भोज्यमोदनादि । देयं-दातव्यम्, भोजनोपरि दक्षिणा दातव्या इति भावः | साधर्मिकंसमानो धमों येषां ते सधर्माणः, तेभ्यो हितं साधर्मिकम् , समानधर्मचारिणां भोजनादिदानम् । तदेतद् सङ्घसपर्यया-संघस्य पूज्यस्य भगवतः भ्रमणप्रधानसंघस्य सपर्या सेवा तया संघसम्या, साधर्मिकवात्सल्ये कृते सति संघस्य सेवा भवतीत्यर्थः, संघसेवा च महतामप्यादरणीया, यतः-भगवान् तीर्थङ्करोऽपि ' नमो तित्थस्स' इति वचनेन संघस्य नमस्कार वितनुते । इति-एतस्मात कारणात, अर्थात् भोजनानन्तरं दक्षिणाऽपि देया इत्यस्माद् हेतोः-मुनीनां-तापसमुनीनाम् । कैवल्यवस्त्रे-केवलं केवलज्ञानम् , तदेव कैवल्यं, केवल्यमेव वस्त्रं कैवल्यवस्त्रं, तद् तथा, कैवल्यज्ञानरूपं वस्त्रमित्यर्थः । अत्र कैवल्यस्य वस्त्रत्वेनाभिधानम् -यथा वस्त्रं शीतातपादिजन्यं दुःखं निवारयति आत्मानं च भूषयति । यः-प्रददौ-प्रकर्षण ददाति स्म । स्वसान्निध्यात् पञ्चदश शतान्यपि तापसानां केवलज्ञान प्रापयति स्म इत्यर्थः । तत्र पञ्चानां शतानां तापसमुनीनां तत्रैव, अन्येषां तावतां विहारभूभौ, शेषाणां तु भगवत्समवसरणनिरीक्षणावसरे केवलज्ञानं जज्ञे इति विवेकः । शेषं तु पूर्ववत् ॥
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58