Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'सुरेभ्यः तीर्थातिशयं निशम्य जिनानां पदबन्दनाय अष्टापदाद्रौ गगने स्वशक्तया [यः-] ययौ, स गौतमो मे वाञ्छितं यच्छतु ' इत्यन्वयः । सुरेभ्यः-देवेभ्यः । तीर्थातिशयं-तीर्यते भवसमुद्रोऽनेन इति तीर्थम् , भवसिन्धुतरणसाधनमित्यर्थः । तीर्थस्य प्रस्तुतस्याष्टापदाभिधानस्य अतिशयः-महिमा तीर्थातिशयः, तं तथा । यः स्वशकथा अष्टापदतीर्थे गत्वा जिनान् वन्देत स तस्मिन्नेव भवे मुक्तिमवाप्नुयाद् इत्यादि तीर्थमहिमानम् । निशम्य-श्रुत्वा । जिनानां चतुर्विशतेः जिनानां तीर्थ राणाम् । आद्यचक्रिभरतभूपनिर्मितस्वस्ववर्णप्रमाणानां मणीरत्नमयानां जिनबिम्बानारित्यर्थः । पदवन्दनाय-पदानि चरणानि तेषां वन्दनाय स्तवनाय अभिवादनाय च । 'वदुङ स्तुत्यभिवादनयोः' इति वचनात् स्तुतिः प्रशस्तशब्दैः श्लाघा, अभिवादनं कायेन प्रणिपातः। तथा च प्रशस्तपद्यादिना स्तवनाय कायेन च प्रणिपाताय । पदे वन्दिते सति सर्वाङ्गवन्दनस्य सर्वजनप्रसिदत्वात् पदशब्दोपादानम् । अष्टापदाद्रौ-तन्नाम्नि [सि. हे० ३. २. ७५] इति सूत्रेण अष्टौ पदानि सोपानानि यस्य स अष्टापदः । अष्टा. पदश्चासौ अद्रिश्च पर्वतश्च अष्टापदादिः, तस्मिन् अष्टापदादौ । भरतभूमिभूषणभूते तीर्थस्वरूपे अष्टापदनाम्नि गिरिवरे इत्यर्थः । गगने-आकाशे, आकाशगमन इत्यर्थः । स्वशक्त्या -तपोविशेषसमुद्भुतनिजशक्तया गगनगामिन्या लब्ध्या इत्यर्थः, इति समुदितार्थः । भगवान् गौतमस्वामी रविकिरणानवलम्ब्य अष्टापदगिरौ गतवानिति जिनागमप्रसिद्धिः । [य:-] 'यद्तदोनित्यसम्बन्धात्' यतशब्दाक्षेपेण फलितम्-यः इति । ययौ-जगाम । शेषं तु पूर्ववत् ॥ દેવેથી તીર્થને મહિમા સાંભળીને અષ્ટાપદ પર્વત પર પિતાની ગગનગામિની શક્તિ વડે જિનેશ્વરેના પાદવંદન કરવાને જેઓ ગયા, તે ગૌતમસ્વામી મને ઈચ્છિત ફળ આપનારા થાઓ. त्रिपञ्च-सख्याशत-तापसानां, तपः-कृशानामपुनर्भवाय । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58