Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३
यन्नाम चोक्तं विदधाति सिद्धि, स गौतमो यच्छतु वाञ्छितं मे ॥९॥
(
त्रैलोक्यबीजं परमेष्टिबीजं सज्ज्ञानबीजं जिनराजवीजं च यत्राम उक्तं सिद्धिं विदधाति स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः ।
त्रैलोक्यबीजं त्रयाणां लोकानां समाहारस्त्रिलोकी, त्रिलोकी एव त्रैलोक्यं, त्रैलोकस्य बीजं त्रैलोक्यवीजम् । परमेष्ठिबीजं - पर मे तिष्ठतीति परमेष्ठी, तस्य बीजं परमेष्ठिबीजम् । सज्ज्ञानबीजं - सच्च तद् ज्ञानं च सज्ज्ञानं, तस्य बीजं सज्ज्ञानबीजम् [ अथवा - सच्च तद् ध्यानं च सध्यानं, तस्य बीजं सद्ध्यानवीजम् ] जिनराजबीजम् - जिनस्य राजा जिनराजः, तस्य बीजं जिनराजबीजम् । यन्नाम-यस्य नाम यन्नाम । उक्तं - कथितम् । सिद्धि - निर्वृतिम् । विदधाति करोति । शेषं तु पूर्ववत् ॥
ત્રૈલાયબીજ, પરમેષ્ઠિબીજ, સજ્ઞાનબીજ (સધ્યાનબીજ) અને જિનરાજબીજના સમાન, સિદ્ધિને (પરમ પદને) આપનાર એવું જેમનું નામ ગણાયું છે, તે ગૌતમસ્વામી મને ઇચ્છિત ફળ આપો. (૯)
श्रीगौतमस्याष्टकमादरेण,
प्रबोध-काले मुनिपुङ्गवा ये ।
पठन्ति ते सूरिपदं सदैवा
ssनन्दं लभन्ते सुतरां क्रमेण ॥ १०॥
'ये मुनिपुङ्गवाः प्रबोधकाले आदरेण श्रीगौतमस्य अष्टकं पठन्ति ते क्रमेण सुतरां सदा एव आनन्द सूरिपदं लभन्ते' इत्यन्वयः ।
ये कृतधियः । मुनिपुङ्गवाः - मुनिषु पुङ्गवाः श्रेष्ठा मुनिपुङ्गवाः, उत्तमा मुनय इति यावत् । प्रबोधकाले - प्रभातकाले । आदरेण - बहुमानेन । श्रीगौतमस्य - श्री गौतमस्वामिनः । अष्टकम् - अष्टौ श्लोका प्रमाणमस्य इति, अर्थात् अष्टठोकप्रमाणं प्रकरणमिति यावत् | पठन्ति -
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58