Book Title: Gautamswamyashtakam
Author(s): Sushilvijay
Publisher: Vijaylavanyasurishiwar Gyanmandir

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अक्षीण लब्ध्या परमान्न-दाता, स गौतमो यच्छतु वाव्छतं मे ||६|| २० ' तपः कृशानां त्रिपश्च सङ्ख्या शततापसानामपुनर्भवाय अक्षीणलब्ध्या [ यः - ] परमान्नदाता, स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः । > , तपःकृशानाम् - तपोभिः नानाविधैराहारत्याग नियमविशेषैः कृशाः प्रतनुदेहाः, शोषितशरीरा इत्यर्थः तेषां तथा । त्रिपञ्चसङ्ख्याशततापसानां पञ्च चासौ सङ्ख्या च पञ्चसङ्ख्या, त्रिभिर्गुणिता पञ्च सङ्ख्या त्रिपञ्चसख्या, पञ्चदश इत्यर्थः, त्रिपञ्चसख्या ( पञ्चदश ) शतानि येषां ते त्रिपञ्चसख्याशताः, त्रिपञ्चसङ्याशताश्च ते तापसाश्च त्रिपञ्चसङ्ख्याशततापसाः, त्रिपञ्चसख्यया गुणितानि शतानि त्रिपञ्चसख्याशतानि त्रिपथसङ्ख्याशतानि च ते तापसाच त्रिपञ्चसख्याशततापसाः तेषां तथा । तपोनिरतानां त्यागिविशेषाणामष्टापदस्गेपानस्थितानां पञ्चदशशतता पञ्चानामित्यर्थः । अपुनर्भवायपुनर्भवः - पुनर्जन्म, न पुनर्भवः - अपुनर्भवः, जन्मान्तराभाव इत्यर्थः, तस्मै तथा, मोक्षायेति फलितोऽर्थः यतो मोक्षे सत्येव जन्मान्तराभावो भवतीति । अक्षीणलब्ध्या-क्षयति स्मेति क्षीणा, न क्षीणा अक्षीणा, अक्षीणा चासौ लब्धिश्च अक्षीणलब्धिः तथा तथा, अक्षीणमहानसलब्ध्येत्यर्थः । अनाशंसादिगुणगणान्वितेन तपसा अक्षीणमहानसनाम्नी लब्धिरुपजायते यथा लब्ध्या भोजनभाजने करानुष्ठे प्रक्षिप्ते दीयमानमप्यन्नादि न क्षीयते, निस्सारिते चाङ्गुष्ठे मूलमात्रमवतिष्ठेत, तच्च दीयमानं क्षयमवाप्नुयात् । [यः - ] परमान्नदाता - परमं च तद् अन्नं च परमान्नं क्षीरानमित्यर्थः । भगवता महावीरेण प्रथमपारण के क्षीरानस्य गृहीतत्वात् परमानता क्षीरान्नस्य, वस्य दाता दायक इति परमान्नदाता । अष्टापदादवतरन् पञ्चदश शतानि तापसान् प्रतिबोध्य शिष्यांश्च कृत्वा पारणके पात्रे क्षीरान्नमानीय अङ्गुष्ठमन्तःक्षिप्त्वाऽक्षीण महान सलब्धिबलेन सर्वेषामपि पारणकं कारितवान् भगवान् गौतम इति जिनराद्धान्तप्रसिद्धिः । शेषं तु पूर्ववत् ॥ : તપથી કૃશ થયેલા ( રોષાયેલા ) એવા ૧૫૦૦ તાપસાને પુનઃ - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58