________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
उत्तरा- नामकर्मप्रकृतीराह॥११३६॥
॥ मूलम् ॥-नामकम्मं तु दुविहं । सुहं असुहं च आहियं ॥ सुहस्स उ बहुभेया । एमेव असुहस्सवि ॥१३॥ व्याख्या-नामकर्म द्विविधं व्याख्यातं, शुभं १ च पुनरशुभं २, शुभनामकर्म १ अशुभनामकर्म २, एवं द्विविधं. तत्र शुभस्य शुभनामकर्मणो बहुभेदाः संति, एवमेवाऽशुभस्याऽ-, |शुभनामकर्मणोऽपि बहुभेदा भवंति. तत्र शुभस्योत्तरोत्तरभेदतोऽनंतभेदत्वेऽपि मध्यमापेक्षया सप्तत्रिंशद्भेदा भवंति, ते चामी-मनुष्यगतिः १ देवगतिः २ पंचेंद्रियगतिः ३ औदारिक ४ वैक्रिय ५
आहारक ६ तैजस ७ कार्मण ८ शरीराणि, समचतुरस्रसंस्थानं ९ वज्रर्षभनाराचसंहननं १० औदा. रिकांगोपांगं ११ वैक्रियांगोपांगं १२ आहारकांगोपांगं १३ प्रशस्तवर्णः १४ प्रशस्तगंधः १५ प्रशस्तरसः
१६ प्रशस्तस्पर्शः १७ मनुष्यानुपूर्वी १८ देवानुपूर्वी १९ अगुरुलघु २० पराघातं २१ उच्छ्वासं २२ द आतपं २३ उद्योतं २४ प्रशस्तविहायोगतिः २५ त्रसं २६ बादरं २७ पर्याप्तं २८ प्रत्येकं २९ स्थिरं ३०
शुभं ३१ सुभगं ३२ सुस्वरं ३३ आदेयं ३४ यशःकीर्तिः ३५ निर्माणं ३६ तीर्थकरनामकर्म ३७. एताः
Actore%ACC4%%
॥११३६॥
For Private And Personal Use Only