Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1300
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७३५॥ 60 www.kobatirth.org न विजई ॥ १० ॥ व्याख्या - ततस्तदनंतरं श्रेणिको मगधाधिपो राजा प्रहसितः. हे महाभाग्यवन्! ते तव ऋद्धिमत ऋद्धियुक्तस्य कथं नाथो न विद्यते ? ॥ १० ॥ ॥ मूलम् ॥ — होमि नाहो भयंताणं । भोगे भुंजाहि संजया || मित्तनाईहिं परिवुडो । माणुस्सं खलु दुलहं ॥ ११ ॥ व्याख्या - हे पूज्याः ! अहं 'भयंताणं' इति भदंतानां पूज्यानां युष्माकं नाथो भवामि यदा भवतां कोऽपि स्वामी नास्ति, तदाहं भवतां स्वामी भवामि यदाऽनाथत्वायुष्माभिदीक्षा गृहीता, तदाहं नाथोऽस्मीति भावः. हे संयत ! हे साधो ! भोगान् भुंक्ष्व ? कोदृशः सन् ? मिज्ञातिभिः परिवृतः सन्. हे साधो ! खलु निश्चयेन मानुष्यं दुर्लभं वर्तते तस्मान्मनुष्यत्वं दुर्लभं प्राप्य भोगान् भुक्त्वा सफलीकुरु ? ॥ ११ ॥ अथ मुनिर्वदति ॥ मूलम् ॥ - अपणा हि अणाहोसि । सेणिया मगहाहिव ॥ अप्पणा अणाहो संतो । कह नाहो भविस्ससि ॥ १२ ॥ व्याख्या - हे राजन् श्रेणिक ! मगधाधिप । त्वमात्मनाप्यनाथोऽसि, आत्मनाऽनाथस्य सतस्तवाप्यनाथत्वं तदा त्वमपरस्य कथं नाथो भविष्यसि ? ॥ १२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७३५॥

Loading...

Page Navigation
1 ... 1298 1299 1300 1301 1302 1303 1304 1305 1306