Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shankalassagarsuti Gyanmandir ॥ अथ द्वितीय उल्लासः ॥ ___ अथ सा मलयसुन्दरी यौवनं वनं संश्रिता कल्पलतेव कामपि अवक्तव्या लीलां बभार। इतश्च, अत्रैव भरतेऽङ्गदेशे पृथ्वीस्थानं नाम नगरम् । तत्र यशःपूरबन्धुरः सूरपालः पृथ्वीपतिः । तस्य पद्मावती प्रिया। तत्कुक्षिसमुद्भूतः प्रभूतगुणो महाबलो नाम कुमारः । स सर्वकलाकुशलस्तारुण्यं प्राप । अन्यदा कोऽपि सिद्धपुरुषस्तस्य सङ्गतः । कुमारेणावर्जितः । तेन रूपपरावर्तकारकाः पुनः स्वरूपकारकाश्च औषधयोगा उपदिष्टाः । कुमारेण तान् योगान् मेलयित्वा गुटिकाः कृत्वा मुक्ताः । सिद्धो नो विसृष्टः । अन्यदा मरपालेन राज्ञा स्वप्रधानपुरुषाः कस्मैचित् कार्याय चन्द्रावतीं पुरीं प्रति गमनायादिष्टाः । तदा महाबलकुमारेण देशवीक्षणाय राजा विज्ञप्तः । आग्रहेण च पितरं मातरं च परिज्ञाप्य तैः सह चलितश्चन्द्रावती ययौ । गुप्तवृत्त्यैव तिष्ठन् तैः सह वीरधवलनृपसभा गतः । राज्ञा ते सम्मानिताः । पृष्टं च-'कोऽयं सदाकारः कुमारः ? । एकेन केनचित् प्रोक्तम्-'ममायं भ्राता । ततः सर्वेऽप्युस्थिताः । उत्तारकस्थान प्राप्ताः । अथ कुमारः स्वल्पपरिकरः पुरं विलोकयन् मलयसुन्दरीगृहसत्कगवाक्षस्याध: प्राप्तः । तदा कुमारी गवाक्षान्तिकस्थितं रूपनिर्जितमकरध्वज वीक्ष्य मनसि चिन्तयामास १ नरः । २ सुन्दराकारः । ३ सुरूपविजितकामदेवम् । | गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥१५॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66