Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
गद्यबद्ध -
श्री मलय
सुन्दरी
कथा ||
।। ५० ।।
www.kobatirth.org
भाषिता, परं सर्वथा न मन्यते, राज्ञः सम्मुखं प्रबोधं दत्ते, स च न बुध्यते । अथ राजा तस्याश्चित्तप्रसत्यर्थ स्वस्यार्थे यद् यद् रम्यं तत् तत् तस्यै प्रेषयति स्म ।
Acharya Shri Kailassagarsuri Gyanmandir
अन्यदा स्नानस्थितस्य नृपस्याङ्के पक्वम् आम्रफलं पतितम् । तद् दृष्ट्वा नृपोऽचिन्तयत् - 'साम्प्रतं फाल्गुनमासि कुतः फलमिदम् ?, ज्ञातं वा, पुरप्रत्यासन्ने छिन्नटङ्कगिरौ सदाफलः सहकारोऽस्ति, तत्फलं सुकेन गृहीतं भारात् पतितं घटते' । राज्ञा रम्यमिति तत्फलं मलयसुन्दर्यै प्रहितम् । भृत्यानां च कथितम् —' फलमर्पयित्वाऽन्तःपुरे समानीय स्थाप्या' । मलयसुन्दरी तत्फलं दृष्ट्वा 'अहो ! पूर्वपुण्यैः ढौकितमिदम्' इत्यचिन्तयत् तैश्व नरैः सा अन्तःपुरे मुक्ता, राज्ञे ज्ञापितं च । 'नूनं राजा बलादपि मे शीलरत्नं हरिष्यति' इति ध्यात्वा शीर्षाद् गुटिकामाकृष्य आम्ररसेन घृष्ट्वा भाले तिलकं चकार तदा सा दिव्यरूपः पुरुषो जातः । तं दृष्ट्वा ऽन्तःपुरं सर्वं विस्मितम् —– 'देवो विद्याधरो वाऽयम् !' प्राहरिका अपि तं दृष्ट्वा राज्ञोऽग्रे प्रोचुः । राजापि तत्रागतस्तं दृष्ट्वाऽपृच्छत्— 'कस्वं कीदृकू ? । तेनोक्तम् - स्वयमेव पश्यन्नसि यादृशोऽस्मि । राज्ञोक्तम् — 'भो ! या स्त्री मुक्तासीत् सा क्वास्ति ? ' रक्षकैरुक्तम्- 'देव ! सा बहिर्न क्वाऽपि गताऽस्ति !' राज्ञा चिन्तितम् - सैवेयं पुरुषरूपं कृत्वा स्थिता घटते' । तत उक्तम्- 'भो ! ज्ञातमस्य स्वरूपम् । बाह्यावासे स्थापयित्वा बाढ रक्षणीयः ततः स तत्रानीय घृतः । राज्ञा नित्यं तत्रागत्य स पृच्छयते - ' मोः ! त्वया कि स्त्रीरूपं हित्वा पुंरूपं कृतम् ?, कथं च स्त्रीरूपं भविष्यति ?' । परं स किञ्चिद् नोवाच धर्मध्यानपर एव तिष्ठति । ततो
For Private And Personal Use Only
।। ५० ।।
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66