Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 19
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir र गद्यबद्धश्री मलयसुन्दरीकथा ॥ । दृष्टा उपलक्षिता च । कुमारेणोक्तम्-'कोऽयं किं करोति ?' तया भीतया प्रोक्तम्-' हा ! प्रमादो जातः । एषा मेऽपरमाता वार्ता श्रृण्वती न ज्ञाता ! । ज्ञायते किमपि भावि !' । अथ कनकवत्या तत्स्वरूपं समधिकं राज्ञोऽग्रे कथितम् । राजा रक्षकैः सह द्वारे समेतः । तदा कुमारी कम्पमानाङ्गी कुमारं प्रति प्राह- 'देवेन किं कृतम् ? । मुधा स्वादशस्य नररत्नस्य महाकष्टमुपस्थितम् । किं क्रियते ?, क गम्यते ?, द्वारमेव रुद्धम्' । कुमारेणोक्तम्-'मा भैषीः, भव्यमेव भावि' । इत्युक्त्वा 'एतन्मातुः सदृशं रूपं मे भवतु' इति ध्यात्वा मिलितयोगगुटिका शीर्षाल्लात्वा मुखे क्षिप्ता । तत्क्षणं स चम्पकमालादेवीसदृशरूपो जात: । राजा तालकं भक्त्वा मध्ये प्रविष्टः । तत्र च अभ्युत्थानं सहसा कुर्वती मावसहिता कुमारी दृष्टा । राजा विस्मितः । कनकवतीं वीक्ष्य शिरो धृनितम् । साऽसत्यवादिनी लज्जयाऽधोमुखी बभूव ! । आरक्षकादिकैरपि सा हसिता गता । राजापि स्वस्थान प्राप । सर्वेषु गतेषु सत्सु कुमार: स्वस्वरूपं पुनः कृत्वा तां प्रति प्राह-' अथाहं गच्छामि। तदा तया लक्ष्मीपुनहारो गलादुत्तार्य तत्कण्ठे क्षिप्तः, 'एषा मे वरमाला ज्ञेया' इत्युक्तं च । 'सुखिनः सन्तु ते पन्थानः' इति तया विसृष्टः । ततो निर्गत्य स्खसार्थे मिलितः स्वनगरं ययौ । अथ कनकवती 'कूटवादिनी' इति स वैरपि निन्दिताऽचिन्तयत्-'किमयं कोऽपि मे भ्रमोऽभूत् ?, कुमायैव वा किमपि कपटं कृतम् !' । इति चिन्तयती सा कुमारी प्रति द्वेषवती बभूव । अथ कुमारः स्वपुरं प्राप्तस्तं हारं पितुरढोकयन् । - केनायं दत्तः ?" इति पित्रोक्ते 'वीरधवलपुत्रेण दत्तः' इत्युक्तम् । तेनापि पद्मावतीदेव्यै दत्तः । अन्यदा ॥ १८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66