Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
wwww.kobatirth.org
Acharya Shinkalassagarsuti Gyanmand
॥ १३ ॥
अथ तस्या मलयसुन्दर्या गर्भसम्भवोऽभूत् । कुमारेण दोहदेषु पूर्यमाणेषु दिनेषु गच्छत्सु राज्ञा कुमार आदिष्टः-' हे वत्स ! करनामा भिल्लः स्वदेशं क्लेशयति । त्वं सैन्येन गत्वा तं जित्वा समागच्छ' । स राजादेशं मान्यं कृत्वा आगत्य प्रियां प्रति प्राह । साऽवादीत्-' नाथ ! अहमपि सहागमिष्यामि'। तेनोक्तम्-'साम्प्रतं ते स्थानचालको न युक्तः, अतोऽत्रैव तिष्ठ । वस्नेहप्रेरितः शीघ्रमागमिष्यामि' । इति कथञ्चिदनुज्ञाप्य भालतिलकगुटिकां तस्यै दवा ससैन्यश्चलितः । सा दिशां पश्यन्ती गृहे स्थिता । कनकवती समेत्य तो वार्ता विनोदैदिनं गमयामास । तयोक्तम्-'मातः ! त्वं रात्रावपि अत्रैव तिष्ठ, येन रात्रि वार्ताभिः सुखेन मेऽतिक्रामति' । तस्या वाञ्छितमेव जातम् । सा प्रपद्य रात्रौ तत्पार्श्वे सुष्वाप । अन्येद्युः प्राह-" हे वत्से ! रात्रौ कापि राक्षसी समेति, यदि त्वं कथयेस्तदाऽहमपि तादृग् भूत्वा तां तर्जयामि यथा पुन याति । इत्यपि किं न श्रूयते-रक्खसाण वि भेस ?" । ततस्तया मुग्धया प्रोक्तम्-' मातः ! यथा रम्यं तथा कुर्याः' । तत्रावसरे पुरमध्ये मायुपद्रवं ज्ञात्वा सा दुष्टा प्रतीहारनिवेदिता राज्ञः पार्श्व प्राप्तापाह-'प्रभो ! यद्यवसगे वतते तदा किमपि हितं वच्मि' । राज्ञा विजने पृष्टा-'किं हितम् ? । तयोक्तम्- 'देव ! मलयसुन्दरी युष्मद्वधर्मारिर्जाता लोकान् हन्ति, न चेत् प्रत्ययस्तदा रात्रौ भवद्भिर्वीक्ष्यम् । यदि सा राक्षसीरूपेण स्वगृहाङ्गणे विवस्त्रा फेत्कारान् मुञ्चन्ती दृश्यते तदा सत्यं, नो चेन्न । तच्छुद्ध्या सा
गद्यश्वद्ध|श्री मलयसुन्दरी
कथा ॥ | ॥४३॥
१. राक्षसानामपि भेषजम् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66