Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २४ ॥
गृहीत्वा सा गुणमयी पुत्री विनाशिता' । तदा कनकवती तत्सकलस्वरूपं ज्ञात्वा भयाद् मया सह गवाक्षमार्गेण झम्पां दत्वा नष्टा । तत आवाभ्यां देवकुलस्थिताम्यां लोकमुखादिति श्रुतम् - "राजा कपाटं भिच्या मध्ये प्रविष्टः । ताम् अदृष्ट्वा 'पापिनी नष्टा' इति वदन् हस्तौ ममर्द । तत्कालं च अन्धकूपके गत्वा मध्ये पुरुषान् प्रक्षिप्य कुमारी शोधयामास । परं सा कन्या क्वापि न लब्धा । 'नूनं केनापि जीवेन भक्षिता' इति प्रलपन् प्राह-भो भटा : धावत धावत, सा कनकवती कुतोऽपि गृहीत्वा अत्रानीयताम् । यथा ता विडम्बनेन फलं दर्शयामि" । इति लोकमुखाच्छत्वा कनकवती मां प्रति प्राह-'अहं लक्ष्मीपुञ्जहारं गृहीत्वा मगधाया गृहे यामि, तया सह मम प्रीतिवतते । त्वं तु क्वाप्यन्यत्र तिष्ठ' इत्युक्त्वा सा तद्गृहं गता । अहं च अत्रागच्छन्ती युवयोमिलिताऽस्मि । अथ कोऽपि राजपुरुषः समेष्यति, ततो यामि" । ____ तस्यां गतायां कुमारेण कुमारी वभाषे-'ज्ञातं सर्व स्वरूपम् । त्वं कूपे पतिताऽजगरेण गिलिता । अस्मिन्नपि मया विदारिते च मे मिलिता । कूपोऽप्यत्रैव क्वापि घटते । अद्याप्यावयोः पुण्यं जागति' । अथ राव्यतिक्रमे जाते सति स कुमारी प्रति प्राह-'श्रणु तावद् , आत्मीयानि बहूनि कार्याणि कर्तव्यानि सन्ति, अत उत्थीयते' । इति वदन भट्टारिकाभवने कुमार्या सह गतः । तत्र चम्पकमालायाः काष्ठफालीद्वयं दृष्टम् । तच्च दृष्ट्वा किमपि मनसि विचिन्त्य तेन तां प्रत्युक्तम्-त्वं पुरुषधारिणी मगधागृहं गत्वा कयाचिद् बुद्धया कनकवतीपादिद् हारं गृहीत्वा द्वितीयदिनप्रदोषसमये अत्रैवागच्छ । अहमपि आगमिष्यामि । तेन तस्या
For Private And Personal use only
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66