Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
प्रादर्भतां कन्यां परिणेष्यति । ततः सर्वेऽपि नृपा नृपपुत्राश्च उस्थिताः, परं केनापि धनुगरोपयितुं न शक्तं, केनापि च बाण: क्षिप्त इतस्ततोऽगात् । न केनापि स्तम्भाग्रं भिन्नम् । ततो राजा विषण्णः । नैमित्तिकमपि अदृष्ट्वा परं खेदं प्राप । ततो मन्त्रिवचसा पटही दत्तः-'यः कोऽपि स्वादेशिको वैदेशिको वा धनुरारोप्य स्तम्भाग्रं भिनत्ति स कन्यां परिणयतु' । ततो वैणिकरूपेण कुमारः स्तम्भसमीपमागत्य वीणां वादयित्वा प्राह'हे राज्ञः कुलदेवताः । प्रसन्ना भवन्तु ' इत्युक्त्वा धनुरारोप्य वाणं चिक्षेप । तत्क्षणं स्तम्माग्रे विदारिते सति फालीद्वयमुद्घटित पपात । मध्ये वरमालाधारिणी लक्ष्मीपुत्रहारभूषितां दिव्यदुकूलशालिनी मलयसुन्दरीं दृष्ट्वा राजा लोकोऽपि च महाश्चर्यपूरितोऽभूत् । तया च वैणिककण्ठे वरमाला न्यस्ता । सर्वेऽपि भूपास्तं दृष्ट्वा कोपाविध यद्धं कमस्थिताः । राज्ञा प्रोक्तम-'किमहो । युद्धं क्रियते ? । पटहोघोषणे कृते यदि चैणिकेन बलं दर्शयित्वा कन्या वृता तदा क: कोप: १ ततो विशेषतो रोषारुणाः सैन्यानि सज्जयामासुः । राज्ञोक्तम्'नैमित्तिकवचः सर्वमपि मिलितम् । परं मुरपालनृपसुतो वरो नाऽभूत् , यः पुनर्महावलो बलवानेव कोऽपि कथितः ' । इति श्रुत्वा वैणिको मनसि हसन् वज्रसारमेव धनुर्गृहीत्वा शरान् वर्षयन् नृपाणां सम्मुखोऽभूत् । राजापि तस्य परितः ससैन्यो योद्धं डुढौके तत: कुमारेण सर्वे भूभुजो भग्ना: पलायितुं लग्नाः । तदा केनापि भट्टेन कुमारमुपलक्ष्य प्रोक्तम्
१. वीणा शिल्पमस्य स धैणिकस्तद्रूपेण-वीणावादकस्वरूपेण । २ महाबलः ।
गद्यबद्धश्री मलयसुन्दरीकथा ॥
For Private And Personal use only
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66