Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गयबद्धश्री मलयसुन्दरीकथा ॥
अहं किश्चन ते दास्यामि' स क्षणं संवाह्य गन्तुं प्रवृत्तो मां बभाषे–' मम किश्चन देहि' । अहं बखें द्रम्मशतादिकं च दातुं प्रवृत्ता, परम् एष 'किञ्चन' याचते । किश्चनशब्देन कि दीयते १. अतोऽनेन अत्र देवकुले रुद्ध्वा स्थापिताऽस्मि' । इति वेश्योक्तं श्रुत्वा मया स धृतोऽपि प्रोक्त:-'भो ! मध्याहने तु भवतोविवादो भयते' इत्युक्त्वा द्वावपि मया प्रेषितौ । मया तत: सर्पग्राहिणां पार्थात् सर्प गृहीत्वा घटान्तः क्षिप्त्वा स घटस्तत्रैच देवकूलमध्ये मुक्तः । वेश्या धृतों लोकाश्च कौतुकेनायाता: । मयोक्तम्-'भो ! घटमध्ये तव दातव्यं वर्तते. त्वं गृहाण' । तेन घटमध्ये हस्तः क्षिप्तः, सर्पेण च झाटकारितः । प्राह च-'भो ! मध्ये किश्चन विद्यते' । वेश्यया मया चोक्तम्-'तहि त्वया ग्राह्यम् !' । इत्युक्त्वा हसित्वाऽई मगधया सह चलिता । लोका अपि हसन्तो गताः । स च वराकः सर्पदष्टस्तोतलागृहं प्रति चलितः । अहं तया सह चलिता तद्गृहद्वारं प्राप्ता तां प्रत्यूचे-'हे मगधे ! तव गृहे किमपि राजविरुद्धं मानुषं वर्तते ?' । इति श्रुत्वा मगधा मत्पादयोर्लग्ना-' हे सत्पुरुप ! त्वं ज्ञानी वर्तसे । मद्गृहे कनकवती राजपनी राजद्विषा पूर्वपरिचयेन प्राप्ताऽस्ति । सा ज्वलन्ती गडरिकेव मया दाक्षिण्येन स्थापिताऽस्ति । तां कथञ्चित् त्वमेव निष्काशय, त्वया न कस्याग्रे वाच्यम्' । मयोक्तम-' न वक्ष्ये, सा मम मेलनीया' । ततोऽहं तया मध्ये नीत्वा स्नान-भोजनादिकं कारिता । रात्रौ कनकवती तया मम समीपमानीता । सा मां दृष्ट्वा हास्यादिकं कुर्वती स्वकीयभावं प्रकाशयामास । पप्रच्छ च-'कस्त्वम? | मयोक्तम-'क्षत्रियोऽहम । मम मित्रं रूपनिर्जितमदनं
॥ ३०॥
For Private And Personal use only
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66