Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 59
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गयबद्धमी मलयसुन्दरी कथा ॥ ॥५८॥ स्वकीयस्तेन प्रेषितः । अस्मिन्नवसरे वीरधवलः सरपालश्च पृथक पृथग लोकमुखशुद्धया रौद्राटन्यां दुर्गतिलके गिरी भीमपल्लीपतेः पार्श्वे मलयसुन्दरीं श्रुत्वा तत्र प्राप्तौ । भीमं जित्वा मलयसुन्दरीशुद्धिमपि अप्राप्य विषण्णौ यावत् स्वस्थानं गच्छतस्तावता सोमस्तत्रैव गतः सर्व बलसारोक्तं स्वरूपं बभाषे । तौ द्वावपि अर्धमधं प्रपद्य सोमप्रेरितो सागरतिलकतटपूरं प्रति चलितौ । सन्धौ गत्वा ताभ्यां दतः प्रहितो गत्वा सिद्धराज प्रति जगौ-'भोः पृथ्वीस्थानाधिपः चन्द्रावतीपुरीस्वामी च द्वौ नरेश्वरौ वक्तः-सोऽयम् अस्मत्परिचितो बलसारोऽस्ति । ततोऽस्मद्वचसाऽपराध एकः सह्यता, मुच्यतामेषः । इत्यादिदतवाक्यानि श्रुत्वा पित-श्वशुस्योरागमनं ज्ञात्वा हृदि मुदितोऽपि बाह्याकारेणाटोपं बिभ्राणो बभाषे-'भो दत! यद्यपि तौ नौ मान्यौ, तथापि अन्यायिनः पक्षपातं कुर्वाणी अन्यायिनावेव, ततः शिक्षाही वर्तेते, रणे शिक्षा दास्ये' । इति निर्भय दूतं प्रेष्य रणभेरी ताडयित्वा ससैन्योऽसौ चचाल । द्वयोरपि सैन्ययोयुद्धं जातम् । सिद्धराजबले भने सति स स्वयमेव युद्धं कर्तुं बुढौके । व्यन्तरः स्मृतः । कुमारेण शत्रूणां शस्त्राणि अर्धपथे छिन्नानि, स्वशस्त्राणि च शत्रूशरीरे लगन्ति । भटेषु व्याकुलीभूय नश्यत्सु सर-वीरधवलौ स्वयमस्थितौ । अथ सिद्धराजेन तावपि अत्याकुलौ कृती, खिन्नौ, तदा सिद्धराजेन लेखो | बाणमुखे न्यस्य प्रेषितः । स च चाण: सरस्य प्रदक्षिणां दत्त्वा अग्रे स्थित्वा प्रण नाम । राज्ञा लेखो गृहीत्वा वाचित:-'त्वत्पुत्रो महाबलः प्रणमति' | राजा दृष्टो दधावे । सिद्धराजोऽपि पादचारी पितुः पादौ प्रणनाम । सर्वः कोऽपि दृष्टः । सर्वेऽपि नृपा महोत्सवेन सागरतिलकं पुरं प्रापुः । मलयसुन्दरी पितरं नमति स्म । For Private And Personal use only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66