Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
Catalog link: https://jainqq.org/explore/020468/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 --------------------------------------------------------------------------  Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SIS युगप्रधान दादाश्री आर्य-जय-कल्याण प्रकाशन क्रमांक (९) अचलगच्छेश-मंत्रप्रभावक-श्री-मेरुतुंगसूरीश्वरांतेवासिना श्री-माणिक्यसुन्दरसूरिणा संदृब्धा गद्यबद्ध-श्री मलयसुन्दरी-कथा॥ प्रकाशक : युगप्रधान दादाश्री आर्य-जय-कल्याण प्रकाशन-मुंबइ - संयोजक :अचलगच्छाधिपति प. पू. आचार्यदेवश्री गुणसागरसूरीश्वरस्य शिष्य-मुनिश्री-कलाप्रभसागरजी. NRNATIRSSIRIDEO time For Private And Personal use only Page #3 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २ ॥ -प्राप्तिस्थान :लखमशी गेलामाइ कु. ३, चीचबंदर रोड मुंबइ नं. ९ प्रथमावृत्ति. नकल १००० ॥२॥ वीर निर्वाण २५०४. वि.सं. २०३४ मुद्रक : कांतिलाल डी. शाह भरतप्रिन्टरी दाणापीठ पाछळ, तळाव पालीताणा For Private And Personal use only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ॐ अहं नमः श्री-माणिक्यसुन्दरसूरि-संदृब्धा गद्यबद्ध-श्री मलयसुन्दरी-कथा ॥ अथ प्रथम उल्लासः । जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः, प्रेसद्भोगफलाक्लीवरदल: प्रोन्मीलिनीलच्छविः । सत्कीर्त्या सुरभिर्ददातु सुमनोराजीवराजी विभुः, स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेय:फलं नः सदा ॥१॥ तं प्रणम्य प्रभु पाव सर्वकल्याणकारकम् । कथा मलयसुन्दर्याः सौन्दर्यसहितोच्यते ॥ २ ॥ ज्ञाने शीले क्षमायां च जिनाशातनवर्जिते । कथा मलयसुन्दर्या ज्ञेया च व्रतपालने ॥ ३ ॥ श्रीपार्श्वनाथदेवस्य कैशिना गणधारिणा । पूर्व शङ्खनरेन्द्राग्रे कथितेयं कथा प्रजा ॥ ४ ॥ प्राकृतैः संस्कृतैः पद्यैः कृता पूर्वे सविस्तरा । कथाऽसौ गद्यबन्धेन संक्षिप्य किल कथ्यते ॥ ५ ॥ गद्यबद्ध|श्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirih.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरीकथा || तथाहि-इह जम्बूद्वीपे भरतक्षेत्रे चन्द्रावती नगरी । तत्र वीरधवलो नाम राजा । तस्य चम्पकमालानाम्नी राज्ञी, द्वितीया कनकवती च । ताभ्यां द्वाभ्यां राज्ञीम्यां सह सुखेन राजा कालम् अनिचक्राम । अन्यदा राजसभायां प्रविष्टः प्रतिहारेण विज्ञप्त:-'प्रभो ! गुणधर्मश्रेष्ठी तव द्वारे तिष्ठति' । राजादेशे जाते सति म श्रेष्ठी प्राभृतं पूरो मुक्त्वा नृपं नत्वाऽतिष्ठत् । राज्ञोक्तम्-'कस्त्वम् ?, केन हेतुना प्राप्तोऽसि ? । स पाह" श्रूयताम् , हे प्रभो । अत्रैव तव नगरे लोभनन्दी लोभाकरश्च द्वौ भ्रातरौ वर्तते । लोभनन्दी पुत्ररहितो, लोभाकरस्य तु गुणवर्मा पुत्रः । ___"अन्यदा तो द्वावपि श्रेष्ठिनौ हट्टनिविष्टौ भद्राकारं कश्चिन्नरं दृष्ट्वा सन्मार्गदानेन प्रतिपत्तिं कृत्वा विश्वासवन्तं चक्रतुः । तेन पुरुषेण रक्षणार्थं रसतुम्बकम् एकमर्पितम् । ताभ्यां हट्टान्तरुद्वध्य मुक्तम् । पुरुषस्तु क्वापि गतः । अथ रसतुम्बकाद् गलित्वा रसबिन्दवः पतिताः, तैश्च अधःस्थितं कुशीप्रमुखं लोहं स्वर्णरूपं दृष्ट्वा वणिजौ विस्मितौ । लोमान्धाभ्यां ताभ्यां तत् तुम्बकं क्वापि गोपितम् । कियत्सु दिवसेषु गतेषु तुम्बकमोक्ता पुरुषः समेत्य तुम्बकं ययाचे । श्रेष्ठिम्यां कथितम्-'भोस्तत् तुम्बकं भग्न, यदि प्रत्ययस्तस्य तदा खण्डानि पश्य। इत्युक्त्वा अन्यस्य कस्यचित्तुम्बकस्य खण्डानि दर्शितानि । तेन तानि दृष्ट्वा चिन्तितम्-'नूनम् एतानि मम तुम्बकस्य न भवन्ति, किन्तु लोभान्धौ वणिजौ ममाग्रे कूटम् उत्तरं कुरुतः ' तेन बह्वपि प्रोक्तं, परं तुम्बकं न दत्तम् । ततस्तेन पुरुषेण क्रुद्धेन 'सता लोभनन्दि-लोभाकरौ गृहतोडकस्थाने स्तम्भनी विद्यया कीलितौ व्यथाऽऽकुलो For Private And Personal use only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuti Gyanmandir www.kobatirth.org क्रन्दन्तौ तिष्ठतः । स पुरुष एवं कृत्वा गतः । लोभाकरपुत्रो गुणवर्मा ग्रामान्तरादागतः । तत्स्वरूपं लोकमुखाद् ज्ञात्वा दुःखितो मत्र-तन्त्रादिकं कारयामास, परं तयोद्वयोरपि विशेषतो व्यथाऽभूत् । ततश्चिन्तितम्-'येन कीलितो तेनैव मोक्षः, नान्येन ' । इति विमृश्य कुटुम्बस्य गृहशिक्षां दवा तं पुरुष द्रष्टुं चलितः । पृथ्वीतले भ्रमन् क्वापि धन-धान्यसमृद्धमपि निर्मानुषं नगरं दृष्ट्वा विस्मितो मध्येऽविशत् । तेन गच्छता एकः पुरुषो दृष्टः । तेनोक्तम्-' हे वीर ! कस्त्वम् ?, किमिदं नगरं शून्यम् ? । तेनाप्युक्तम्-त्वं कः ?' । सोऽवादीत- अहं पथिकः, परं स्वरूपं कथय । इत्युक्ते स वीरपुरुषोऽवादीत-"भृणु, इदं कुशवर्द्धनं नाम नगरम् । अत्र सूरो नाम राजा । तस्य जयचन्द्र-विजयचन्द्रौ पुत्रौ । पित्रा जयचन्द्राय राज्यं दत्तम् । पितरि विपन्नेऽहं विजयचन्द्रोऽहकारं धृत्वा अस्मात् पुरान्निर्गत्य भ्रमन् चन्द्रावतीनगरी यातः । तद्वने मया कोऽपि सिद्धपुरुषोऽतीसाररोगी दृष्टः । मया कृपया स उपचरितः, पटुर्जातः । तेन तुष्टेन स्तम्भनी वशीकरणी च द्वे विद्ये दत्ते, सुवर्णनिष्पादकरसतुम्बकं च दत्तम् । इति दचा सिद्धनरः श्रीपर्वते गतः । अहं च चन्द्रावतीमध्ये लोभनन्दि-लोभाकरहट्ट गतः । ताभ्यामावर्जितः । तयोर्हस्ते रक्षणाय रसतुम्बकमर्पितम् । मया तत्रैव पुरे कौतुकानि पश्यता कियन्ति दिनानि स्थित्वा मातुर्मिलनाय उत्कण्ठितेन सता श्रेष्ठिनो इट्टं गत्वा रसतुम्बकं याचितम् , परं ताभ्यां कूटमुत्तरं कृतम् । ततो मया कुपितेन कूटस्य फलं दर्शितम्" । अत्रावसरे श्रेष्ठिना चिन्तितम्-' पित्रोःखकर्ता स १. मृते । २. सम्मानितः । ३. पितृ-पितृव्ययोः । गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरीकथा।। एवायं पुरुषः' । इति चिन्तयन् श्रेष्ठी वभाषे-'अग्रे किम् ?' सोऽवादीत्-" ततश्चन्द्रावत्या अहमत्रागतः । पैतृकं नगरं शून्यं दृष्ट्वा दुःखतो मध्ये प्रविश्य राजभुवनमाजगाम । तत्र मया विजयानाम्नी भ्रातृजाया दृष्टा । तया आसनादिप्रतिपत्तिः कृता । सा च सर्व स्वरूपं रुदती सती बभाषे-' अत्र नगरे कोऽपि रक्ताम्बस्स्तपस्वी समेतः, स मासे मासे पारणं कुरुते । सोऽन्यदा तब भ्रात्रा पारणाय निमन्त्रितः । तस्य च भोजनं कुर्वतो राजादेशाद् मया वातो व्यनिनः । स मां प्रति अनुरक्तचित्तो भुक्त्वा स्थानं गत्वा रात्रौ गोधाप्रयोगेण उपरि मम शयनस्थान प्राप्तः । मां प्रार्थयामास । मया निषिध्यमानोऽपि स न विरराम । अथ राज्ञा द्वारप्राप्तेन तत्स्वरूपं निशम्य निजपुरुषैः स बन्धितः । पुरमध्ये भ्रमयित्वा लोकैस्यिमानो वध्यभूमौ पातितः । स मृत्वा परिणामवशाद् गक्षसोऽभून् । तेन राक्षसेन पूर्वभवं स्मृत्वा क्रुद्धन प्रत्यक्षीभूय स्वस्वरूपकथनपूर्व तव भ्राता चाटूनि वदन्नपि निपातितः । सर्वे जना अपि हन्यमाना भयाद् जीवग्राहं नष्टाः। अहमपि नश्यन्ती तेन दृष्ट्वा स्थापितास्मि । स दिने क्वापि याति, रात्री समेति । हे देवर ! देवाद् अई सङ्कटे पतिता स्थिताऽस्मि, परं त्वं याहि' । इति श्रुत्वा मयोक्तम् – 'तस्य किञ्चिद् मर्म प्रकाशय, येन एनं वैरिणं जित्वा स्वं राज्यं पालयामि' । तदा तयोक्तम्-'यदि कोऽपि पुमान् घृतेन तस्य पादाम्यङ्गं करोति तदा विशेषतो निद्रा समेति, स्वीकृताऽभ्यङ्गे तादृशी नायाति निद्रा । अन्यच, चरणाम्याङ्गात् पूर्व चेद् मानुषं वेत्ति तदा स तं हन्त्येव । अहं च तत्पादाभ्यङ्गं सदैव कगेमि'। इत्युक्त्वा तस्यां स्थितायाम् अहं कमपि सहायकं द्रष्टुं चलितोऽस्मि । यदि त्वं सहायको भवसि तदा सहस्रमेव जापं कृत्वा वशीकरणविद्या स्मृत्वा तं राक्षसं वश्यं करोमि । महान् उपकारस्त्वया कृतो भविष्यति । यतः Fot Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir 18 "दानं वित्ताद ऋतं वाचः कीर्ति-धर्मो तथायुषः। परोपकरणं कायाद् असारात् सारमुद्धरेत्" ।।१।। इति प्रोच्य विजयचन्द्रे स्थिते सति गुणवर्मणा चिन्तितम्-'ममापि पितृमोक्षकार्य तदा सेत्स्यति यदि अस्य कार्य सेत्स्यति । ततस्तेन सहायकत्वे प्रतिपन्ने सति तौ द्वावपि राजभवनं गत्वा, पादाभ्यङ्गसामग्री मेलयित्वा, विजयां प्रोच्य गृहमध्ये गुप्तस्थाने स्थितौ । तावता रात्रौ राक्षस : 'क्वापि मानुषो गन्धः' इति ब्रुवंस्तत्रागात् । विजयां प्रोवाच-'भद्रे ! किमु क्यापि मनुष्यस्तिष्ठति ? । सा ऊचे-'इह अहं मानुषी, अन्यो मानुषसम्भवः कुत: ?' ततः प्रसुप्तस्य राक्षसस्य पादौ वधूमिषाद् दक्षो गुणवर्मा तस्याऽलक्ष्यो निर्भीको गाढं गाढं मर्दयामास । अथ मनुष्यगन्धेन पुनः पुनरुत्तिष्ठन्नपि राक्षसो गुणवर्मणा गाढचरणमर्दनेन स्वापितः । तावता विजयचन्द्रेण सहस्रजापं कृत्वा खड्गं धृत्वा प्रकटीभूय राक्षसो हकितः । गुणवर्माऽपि नृवेषं चक्रे । ततस्तौ दृष्ट्वा राक्षस उत्थितोऽपि वशीकरणविद्यया वश एव जातः । प्रोचे च-'भो ! भवतोः किङ्करोऽस्मि । यत् कार्य तत् कथ्यताम् । विजयचन्द्रेणोक्तम्-'मदीयं नगरं वासय' । तेन तत्क्षणं सर्वे लोका आनीताः । कलकलायमानं नगरं जातम् । राक्षसेन विजयचन्द्रो राज्येऽभिषिक्तः । ततो विजयचन्द्रेणोक्तम्-'भोः श्रेष्ठिन् ! तवोपकारो महान् जातः । त्वमपि किश्चित् कार्य कथय' । गुणवर्मणा स्वस्वरूपं कथितम् । विजयेनोक्तम्-"त्वं किं लोभाकस्य पुत्रः । स तु कूटनिधानं, त्वं तु एवंविधः ! । परम् उक्तमस्ति - गवदश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #9 -------------------------------------------------------------------------- ________________ Acharya Shri Kailasagasti Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गयबद्धश्री मलय-1 सुन्दरी कथा ॥ "तक्रादिव नवनीतं पङ्कादिव पद्मममृतमिव जलधेः। मुक्ताफलमिव वंशाद धर्मःसारं मनुष्यभवात" ___'पङ्कादपि कमलम्' इति सत्यम्" । पुनर्विजयचन्द्रेणोक्तम्-'इदं त्वयैव सेत्स्यति कार्यम् । शृणु-एतनगरप्रत्यासन्ने एकशृंगनाम्नि पर्वते सुगुप्ता कूपिका वर्तते । तन्मध्ये बन्धमोक्षकारकं जलं वर्तते देवताधिष्ठितम् । कृषिकाया द्वयोः पार्श्वगे। पर्वतौ वर्तते । तौ च नेत्रपझे इव मीलनोन्मीलनं कुरुतः, तत्र सलिलग्राही चेद् भीतस्तदा स मृत एव । एतौ द्वौ यदा उद्घटेते तदा यदि पुत्र एव पितुरर्थे कूपिकान्तः प्रविश्य, पानीयमानीय बहिनिर्गच्छति, तेन च पानीयेन पुत्रो यदि स्वयं बद्धं निजपितरं त्रीन् वारान् आच्छोटयेत् तर्हि बन्धमोक्षो भवेत् । एषा पद्धतिस्त्वयैव सेत्स्यति । इति विजयोक्तं गुणवर्मणा सर्व प्रतिपन्नम् । ततो द्वावपि तो तत्र पर्वते कृपिकापावे गतौ । पर्वतद्वये विघटिते सति मश्चिकारज्जुप्रयोगेण मध्ये प्रविश्य गुणवर्मणा निर्भयेन सता तत्पानीयेन पात्रमापू. | रितम् । ततो विजयेन स बहिनिष्काशितः। ततस्तौ तुरंगरूपं कृत्वोपस्थितं राक्षसमेव आरुह्य शीघ्रं चन्द्रावती प्राप्तौ । गुणवर्मणा स्वपिता स्वयं जलेनाच्छोट्य सज्जीकृतः। लोभनन्दी तथैव स्थितः । गुणवर्मणो महोपरोधेन विजयेन तोडुकस्थानाद् गृहमध्यमानीतः। स तु व्यथादितः विरसं स्टन् तथैवास्थाद्, यतः पुत्रं विना कथश्चन बन्धमोक्षो नैवाऽभूत् । ततो गुणवर्मणा रसतुम्बकं विजयाय दत्तम् । तेनापि तुष्टेन तस्मै प्रदत्तम् । एवं विजयस्तदाग्रहात् प्रीत्या कियन्ति दिनानि स्थित्वा स्वस्थानं ययौ। सोऽहं गुणवर्मा लोभाकरस्य पुत्रीऽस्मि। मत्पितपितृव्याभ्यां न्यासापहारकरणाऽपराधः कृतोऽस्ति, हे प्रभो! त्वं क्षमस्व । अन्यः कोऽपि अधिकं न्यनं वा कथयेद् इति मया स्वस्वामिने विज्ञप्तमस्ति" । ॥ ८ ॥ For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ततो वीरधवलेन गज्ञा बहुमानं दवा श्रेष्ठी विसृटो गृहं ययौ । राजा अनपत्यत्वाद् मनसि पुत्रचिन्तया अत्याकुलः सभा विसृज्य आवासमध्ये ययौ । तत्र चम्पकमालया देव्या पृष्टम्-'प्राणेश ! कि मुखे विच्छायता?"। राज्ञा तदये गुणवर्मप्रोक्तं वृत्तं कथयित्वा प्रोक्तम्-'प्रिये ! पुत्रं विना विजयचन्द्रवत् पितृगज्यं का पालयति !, गुणवर्मवत् पितुरर्थे स्वजीवं सन्देहे कः पातयति !, लोभाकरमिव को जनकं सजं करोति ?, अतोऽहमपि अपत्रत्वाचिन्तातुरतया विच्छायोऽस्मि' । देवी प्राह-'प्राणेश ! एषा चिन्ता मम प्रासादे सदैव वर्तते, परं न वदामि । सत्यमेवेदम्“साहसवंत सुजाण नर जहिं पुत्तूंम न हुँति । थंभ विहणा गेह जिम धवक्कडइंति पडंति ॥१॥ मलि करंतो रंगभरि जे नवि देशइ बाल । माणस मानुं ढाढसी किम किम गमैति काल ||२|| आंखडीये अणियालडी वयणविकास धरंतु । लहुली करउं जोयतां दीहां जंति तुजं तु” ॥३॥ राजाऽपि प्राह नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीर्बल-कान्तिशालिना विना न पुत्रेण विभाति नः कुलम् ॥१॥ ततो देव्या प्रोक्तम्-'कोऽपि सप्रत्ययो देव आराध्यते । ततः पुत्रप्राप्तिः स्यात् । यतः गद्यबद्धश्री मलय सुन्दरी कथा । For Private And Personal use only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गयबद्धश्री मलयसुन्दरीकथा ॥ ।। १० ।। */“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः। उद्यमात् कृमिकोटोऽपि भिनत्ति महतो द्रुमान्॥१॥ ____ राज्ञा प्रोक्तम्-'भव्यमुक्तं, मन्त्रिषु राज्यभारं निवेश्य स्वया सह कमपि देवम् आराधयिष्यामि । यावत् तो इति वार्ता कुरुतस्तावद् देव्या दक्षिणनेत्रं स्फुरितम् , साऽत्याकुला अभूत् । राज्ञोक्तम् -'देवि! कि ते जातम् ।। सा प्राह-'प्राणेश! न जाने किमपि भावि ! शरीरे कुचेष्टा अरतिश्च मृत्यवे महाकष्टाय वा विचार्यते । राजा प्राह-'यद् भावि तद् भवतु, मम जीवितं मरणं वा त्वयैव सह, मा खेदं कुरु' । इत्युक्त्वा भोजनाय उत्तस्थौ । भुक्त्वा क्षणं विश्रम्य राजा सभा भूषयति स्म । 'कि भावि ?' इति देवीस्वरूपं चिन्तयति तावता काऽपि चेटी रुदती शीघ्र' समेत्य गद्दस्वरेण नृपं प्रति प्राह-'हे प्रभो ! देवी चम्पकमाला गृहे गृहवाटिकायाम् अन्यत्र च क्वापि धृतिमलभमाना आगत्य पल्यङ्के निविष्टा । तया च अहं पत्रार्थ प्रेषिता । यावद् आगत्य पश्यामि तावता देवी पल्यङ्के सुप्ता दृष्टा । परं न वक्ति, न च चेष्टां कुरुते । जाने किं जातम् ?' । राजा तच्छ्रन्या अत्याकुलः समुत्थाय स्खलन्पादः शीघ्रमावामान्तर्ययो। वैद्य-ज्योतिषिकादयो मिलिताः, बहवः प्रतीकाराः प्रारब्धाः, परं सर्वेऽपि वृथेव जाताः । काष्ठतुल्यामेव तां दृष्ट्वा सर्वे वैद्या निराशा जाताः । तत एकान्ते मिलित्वा मन्त्रिणोऽन्योन्यं प्रोचुः'किमिदम् ?, कथमस्या: प्राणा एव गताः ? । प्रियास्नेहेन भूगेऽपि मरिष्यति अपुत्रः' पृथ्वी निराधारा भविष्यति' तदा सुबुद्धिमन्त्रिणोक्तम्-'कथञ्चिद् राजा कालविलम्ब कार्यते विषविकारकथनेन' । इति विमृश्य तैस्तथैवोक्तं नृपाने । राजा हृष्टोऽवादीत्-'तदा जितं जितम् !, अरे ! मणीन् मान्त्रिकांश्च आनयत' । एवं प्रतीकारेषु क्रियमाणेषु देवीम् For Private And Personal use only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ ११ ॥ | www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकान्ते स्थापयित्वा दिनशेषं रात्रिं च अतिक्रमयमासुः । प्रातर्भूवो देवीं तादृशामेव ही 'मृत' इति मत्वा मूच्छितः, चन्दनजलेन सिक्तः सचेतनो बाढं विललाप । विलप्य मन्त्रिणः प्रति प्राह - भो ! गोलानदीतटे चितां रचयत, अहमपि देव्या सह अग्निं प्रवेक्ष्यामि । मन्त्रिणो रुदन्तः पादयोर्लगित्वा प्राहुः - 'प्रभो ! केयम् अधीरता ? त्वयि विनष्टे सर्व विस्लं राज्यसूत्रं विभावि !' । राज्ञोक्तम्- 'यद् भावि तद् भवतु, परं मया तु अस्या अग्रे जीवनं मरणं च सहैव प्रतिपन्नम् । एवं सर्वं परिज्ञाप्य मृतदेवीशिविकया सार्धं राजा चचाल । पौरलोका रस्ता रुदन्ति स्म । नृपस्य परिच्छदो नदीतटं प्राप । तत्र चिता स्थापिता । राज्ञा स्नानं कृतम् । अन्येऽपि बहवोऽप्रवेशाय सज्जीभूताः । तस्मिन्नवरे प्रवाहपतितं बन्धनैद्धं महत् स्थूलं काष्टमेकमागच्छद् दृष्टम् । मन्त्रिभिस्तारका भाषिता :- 'भोः ! काष्ठमेतत् कृपत, चिताकाष्ठेषु कार्ये समेति । तैस्तत् काष्ठं जलाद् बहिरानीतम् । राज्ञि लोके च पश्यति सति बन्धेभ्यश्छोटितम् । ततः सम्पुटसदृशं तद् दृष्टम् । सम्पुटेऽपि विघटिते सति सर्वाङ्गविलिप्ता दिव्यपुष्पमालाञ्चिता दिव्यहारभूषिता देवी चम्पकमाला निद्रां प्राप्ता दृष्टा । 'अहो ! चित्रं चित्रम् !' इति सर्वेऽप्यवादीत् । राजाऽपि विस्मयं प्राप्तः प्राह - 'भोः । शवस्थानं वीक्ष्यताम्' । तैस्तत्र गत्वा सा शिविका यावद् उद्घाटिता तावता श हस्तौ वर्षयद्, दन्तैर्दन्तान् विषद्, अट्टाट्टहासं कुर्वद् नभसा उड्डीय जगाम । ते भयभ्रान्तास्तत्स्वरूपं नृपाग्रे प्रोचुः । ततो देवी प्रबुद्धा सती उन्मीलितलोचना जाता । राजा प्रमोदभरभासुरो जातः । देवी प्रोत्थाय प्राह - 'प्राणेश ! For Private And Personal Use Only गद्यबद्ध - श्री मलयसुन्दरी कथा ॥ ॥ ११ ॥ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलय सुन्दरी कथा || ।। १२ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir fi यूयमत्र ९, fi नानि वस्त्राणि १, को वा मृतः ?' । राजा प्राह - 'सर्वं कथयिष्यते, परं त्वं स्वस्वरूपं निवेदय' । ततः सर्वः कोऽपि वटवृक्षतले निविष्टः । अथ राज्ञी वक्तुं प्रवृत्ता - "हे नाथ ! मदीयं दक्षिणनेत्रं स्फुरितम् इति स्वमपि जानासि । ततोऽहं वने भवने च क्वापि रतिमप्राप्ता पल्यङ्के सुप्ता । सखी पत्रार्थं प्रहिता । यावत् किञ्चिद् निद्रा समेति तावत् केनाप्युत्पाटिता, क्वाऽपि च शृङ्गे मुक्ता । स च दुष्टो मुक्त्वा मयि पश्यन्भ्यामेव क्वापि गतः । अहं शिलातलादुन्धाय मनसि विविधां चिन्तां कुर्वाणा दिशामेकां गृहीत्वा प्रस्थिता । अग्रे जिनमन्दिरं दृष्ट्वा मध्ये गता । तत्र श्री ऋषभप्रभुः स्तुतः - "अहो ! अमेघजा वृष्टिः अहोऽकुसुमजं फलम् । अहो ! पुराकृतं पुण्यं यद् दृष्टो नाथ ! लोचनैः || १ || | नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! संसारमरुकल्पद्रो ! विश्वोद्धरणबान्धव ! ॥२॥ देव ! त्वं दुःखदावाग्नितप्तानामेकवारिदः । मोहान्धकारमूढानामेकदीपस्त्वमेव हि ||३|| त्वां ध्यायन्तः स्तुवन्तश्च पूजयन्तश्च देहिनः । धन्यास्ते जगृहुर्देहाद् मनोवाग् वपुषां फलम् ||१४||| "एवं मयि स्तुवत्यां काऽपि दिव्यरूपा स्त्री समेता । मां प्राह- 'हे सुन्दरि ! श्री ऋषभदेवस्याहं शासनदेवता चक्रेश्वरी देवी तव जिनभक्त्या तुष्टाऽस्मि । मया प्रोक्तम्- ' तर्हि कथय केन कुत्राऽहम् आनीतास्मि ?' | सावादीत् "शृणु, चन्द्रावतीशवीरधवलस्य त्वत्प्रियस्य वीरपालो भ्राताऽभूत् । स राज्यलुब्धो नृपं हन्तुमिच्छति । अन्यदा For Private And Personal Use Only ॥ १२ ॥ Page #14 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir घातकीय भूपस्य मन्दिरे प्रविष्टो नृपं प्रति शस्त्रीप्रहार मुमोच । राज्ञा प्रहारं वश्वयित्वा स एव इतः। मृत्वा प्रचण्डनामा ममाऽनुचरो भूतोऽभूत् । स पूर्ववैरं स्मृत्वा वीरधवलोपरि द्वेष धत्ते, परं तस्य पुण्यस्य प्रभावतश्छलं न लभते । ततश्चिन्तितं तेन-देव्यां प्रेमबन्धोऽस्य वाढमस्ति इति तामेव हरामि, ततः स्वयमेवासो मरिष्यति । इति ध्यात्वा छलं प्राप्य तेन भूतेन हुत्वा अत्र मलयपर्वते वं मुक्ताऽसि । स पुनश्चन्द्रावत्यां गत्वा तव शयनीये मृतकरूपं कृत्वा स्थितोऽस्ति । राजा त्वद्रूपं दृष्ट्वा महादुःखं प्राप्तोऽस्ति" । मया प्रोक्तम्-'हे देवि ! कथय, मम जीवन्त्याः पुनर्भूपतिमिलनं भविष्यति ? | सा पाह-'सप्त प्रहरान् यावत् तव तस्य च वियोगो भावी । पुनर्देवी मां प्राह-'देवदर्शनं निष्फलं न स्याद् , अतः किश्चिद् याचस्व' । मयोक्तम्-'मम अपत्यं नास्ति' । तयोक्तम्पुत्र-पुत्रीरूपं युगलं ते भावि । इयन्ति दिनानि तेन भृतेन सन्ततिरोधः कृतोऽभूत् । अथ तं भूतं भवतोरुपद्रवं कुर्वन्तं निवारयिष्यामि । अहमत्रैव पर्वते प्रभुभक्त्या तिष्ठामि, 'मलया' इति द्वितीयं नाम विमि । इमं लक्ष्मीपुश्राभिधं हारं गृहाण । महाप्रभावोऽस्यास्ति' । इत्युक्त्वा मम कण्ठे सा हारं चिक्षेप। यावदहं किञ्चित् पुनः पृच्छामि तावद् एका खेचरी चेटीयुक्ता प्राप्ता, चक्रेश्वरी च अदृष्टाऽभूत् । खेचरी मां प्रति प्राइ-'सुन्दरि ! का त्वम् ?' । मयाऽश्रूणि मुञ्चन्त्या स्वस्वरूपं कथितम् । साऽवादीद्-'अहमत्र विद्यां साधयितुं प्राप्ताऽस्मि । परं तव दुःखिताया उपकारम् अकृत्वा मम विद्यासिद्धिन भवेत् । मम भर्ता च क्षणान्तरे समेष्यति, स त्वां सुरूपां दृष्ट्वा गद्यबद्धश्री मलयसुन्दरीकथा ॥ १ चप्पकमालायाम्। For Private And Personal use only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shankalassagarsuti Gyanmand गद्यबद्धश्री मलयसुन्दरीकथा ॥ शीलं खण्डयिष्यति, मम च सपत्नीजं दाखं भावि । अत आगच्छ, यथा ते किञ्चिद् भव्यं करोमि' । इत्युक्त्वा बाही धृत्वा नदीतीरं नीता। 'एषा मे किं करिष्यति ?' इति ध्यायन्त्या मम शरीरे सर्वत्र चन्दनलेपः कृतः, पुष्पमाला चारोपिता। तत्र महत्काष्ठमेकं विद्याशक्त्या विदार्य सम्पुटद्वयं चक्रे । एकस्मिन्नई स्थापिता, द्वितीयम् उपरि दत्तम् । ततः परं गर्भस्थिता इव न जाने किमपि जातम् । यूयमेवात्र दृष्टाः" । ___ तदा सुबुद्धिमन्त्रिणा प्रोक्तम्-'नूनं खेचर्या स्वस्याः सपत्नीशङ्कया स्वामिनी काष्ठमध्ये निक्षिप्य पर्वतोत्तरनदीप्रवाहे प्रेरिता। आत्मीयपुण्यप्रभावाद् अत्रैव प्राप्ता' । ततो राज्ञा दुःखस्वरूपं कथितम् । अथ राजा तत्काठफालीद्वयं गोलातटे भट्टारिकादेवीगृहे मोचयित्वा, भद्रहस्तिनीमारुह्य, देवीं वामपार्श्वे निवेश्य, छत्र' ध्रियमाणो, बायेषु वाद्यमानेषु, महोत्सवेषु जायमानेषु ध्वजपटभूषितं पुरं प्रविवेश । सौधं समेतः । वर्धापनानि जातानि । तस्मिन्नेव निशीथे देवी गर्भ दधौ । पूर्णेषु दिनेषु पुत्र-पुत्रीरूपं युगलं जातम् । राज्ञा महोत्सवाः कारिताः । नामकरणदिवसे सर्वजनानां पुरतो भोजनानन्तरं प्रोक्तम्-'मलयादेव्या इदं युगल दत्तमिति तस्या एव नाम्ना नाम दीयते'। इत्युक्त्वा पुत्रस्य 'मलयकेतुः पुच्याश्च 'मलयसुन्दरी' इति नाम दत्तम् । अथ वर्धमानौ तौ मातापित्रोविश्वस्यापि च प्रीतिहेतवे जातौ। समये पण्डितसमीपे स्थापितौ । स्तोककालेनापि सर्वकलापारीणी जाती। ॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरमरिकृतायां मलयसुन्दरीकथायां मलयसुन्दरी जन्मवर्णनो नाम प्रथम उल्लासः । For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shankalassagarsuti Gyanmandir ॥ अथ द्वितीय उल्लासः ॥ ___ अथ सा मलयसुन्दरी यौवनं वनं संश्रिता कल्पलतेव कामपि अवक्तव्या लीलां बभार। इतश्च, अत्रैव भरतेऽङ्गदेशे पृथ्वीस्थानं नाम नगरम् । तत्र यशःपूरबन्धुरः सूरपालः पृथ्वीपतिः । तस्य पद्मावती प्रिया। तत्कुक्षिसमुद्भूतः प्रभूतगुणो महाबलो नाम कुमारः । स सर्वकलाकुशलस्तारुण्यं प्राप । अन्यदा कोऽपि सिद्धपुरुषस्तस्य सङ्गतः । कुमारेणावर्जितः । तेन रूपपरावर्तकारकाः पुनः स्वरूपकारकाश्च औषधयोगा उपदिष्टाः । कुमारेण तान् योगान् मेलयित्वा गुटिकाः कृत्वा मुक्ताः । सिद्धो नो विसृष्टः । अन्यदा मरपालेन राज्ञा स्वप्रधानपुरुषाः कस्मैचित् कार्याय चन्द्रावतीं पुरीं प्रति गमनायादिष्टाः । तदा महाबलकुमारेण देशवीक्षणाय राजा विज्ञप्तः । आग्रहेण च पितरं मातरं च परिज्ञाप्य तैः सह चलितश्चन्द्रावती ययौ । गुप्तवृत्त्यैव तिष्ठन् तैः सह वीरधवलनृपसभा गतः । राज्ञा ते सम्मानिताः । पृष्टं च-'कोऽयं सदाकारः कुमारः ? । एकेन केनचित् प्रोक्तम्-'ममायं भ्राता । ततः सर्वेऽप्युस्थिताः । उत्तारकस्थान प्राप्ताः । अथ कुमारः स्वल्पपरिकरः पुरं विलोकयन् मलयसुन्दरीगृहसत्कगवाक्षस्याध: प्राप्तः । तदा कुमारी गवाक्षान्तिकस्थितं रूपनिर्जितमकरध्वज वीक्ष्य मनसि चिन्तयामास १ नरः । २ सुन्दराकारः । ३ सुरूपविजितकामदेवम् । | गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥१५॥ For Private And Personal use only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra wwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गबल- अहो! लावण्यलीलाऽस्य कटाक्ष रूपमद्भुतम्। सा धन्या मन्यते कन्या यस्या भर्ता भवेदसौ॥१॥ श्री मलय ____ एवं चिन्तयन्तीं निनिमेषदृशा च पश्यन्ती कुमारोऽपि सहसा ददर्श । दध्यौ चसुन्दरी कथा || केयं किं देवता कापि मानवोत्वं समागता? परिणीताऽथवा कन्या ? लावण्यामृतवाहिनी॥१॥ तस्मिन्नेवं चिन्तयति सति सा कुमारी च्छेकतया कागदे स्वरूप लिखित्वा तत्सम्मुख चिक्षेप । सोऽपि तं वाचयामास-'अहं श्रीवीरधवलपुत्री मलयसुन्दरी कन्याऽस्मि । त्वां दृष्ट्वा त्वामेव वरम् अभिलषामि' । इति वाचयन्त कोऽपि त्वरितमागत्य तदीयमयों बभाषे-'कुमार! शीघ्रमागम्यताम् । सार्थश्चलति, तस्मात् शीघ्रमागम्यताम्' । ततः कुमारस्तेन सहितः पश्चाद् विलोकयन् स्थानं ययौ। ततो मन्त्रिणा सज्जतां कुर्वतामेव रात्रिमुख जातम् । 'अथ अर्धरात्रिमतिक्रम्य चलिष्यते' इति वार्ता मन्त्रिषु कुर्वत्सु कुमारेण चिन्तितम्-'तया तु च्छेकतया निजस्वरूपं ज्ञापित, परं मया तस्याश्चेतसि 'निवृतिमनुत्पाद्य कथं गम्यते ?, अत एकदा तत्र गन्तव्यमेव' । इति विचिन्त्य कुमारः शीघ्र राजभुवनमागम्य विद्युदुत्क्षेपकरणेन प्राकारमुल्लङ्घय मध्यमाजगाम । तत्रासौ नृपवल्लभया कनकवत्या दृष्टः । प्रोक्तश्व-कस्त्वं भोः । तेनोक्तम्-'अहं लेखहारको मलयसुन्दर्याः, लेखं दास्यामि ताम् , सा क्वास्ति ? । तयोक्तम्-'क्षणमत्र विश्रम्यताम् , अयमपि जनस्तव भक्तिकारकोऽस्तु !'। तेनोक्तम्-'लेखमपयित्वा बलितः सर्व रम्यं विधास्ये' । ततस्तया दर्शितो मार्गः । अग्रे गत्वा उपरितनाऽपवरकान्तस्थितां योगिनीमिव १ चातुर्येण । २ शान्तिम् । ३ मलय सुन्दरीमातुः सपल्या। For Private And Personal use only Page #18 -------------------------------------------------------------------------- ________________ Shri Matavin Andhana Kendra www.kobatirth.org Acharya Shri Kailasagasti Gyanmandir तमेव हृदि मन्त्रसदृशं स्मरन्तीं तां कन्यां स ददर्श । साऽपि सानन्दा तं दृष्ट्वा सहसोत्तस्थौ । आसनं दवा तमूचे-'अहो ते धीरता ! । कथमत्र सुरक्षिते स्थाने समागमनं जातम् ?' । सोऽवादी "उत्कटकण्टके कोटघर्षणकष्टानि हृदि न चिन्तयति । असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम" ॥१॥ " त्वया च स्वस्वरूपमुक्तम् । मदीयं श्रृणु-अहं पृथ्वीस्थानपुरे मुरपालनृपस्य पुत्रः पद्मावतीकुक्षिजातो महाबलाभिधानोऽस्मि " । साऽवादीत् - ' तर्हि यदा त्वं पूर्व मया दृष्टस्तदैव पूर्वभवसम्बन्धेन केनापि प्रेरितया मनःसाक्ष्यं वृतोऽसि । साम्प्रतं गान्धवविवाहेन अङ्गीकुरुष्व' । तदा तेनोक्तम्-'कुलकन्यानां प्रच्छन्नो विवाहो न शोभते. इति धीरत्वं भज । अहं तथोपक्रम करिष्ये यथा स्तोकदिनैः पितदत्तां त्वां परिणेष्यामि । “विधत्ते यद्विधिस्तत् स्याद् न स्याद् हृदयचिन्तितम् । एवमेवोत्सुकं चित्तमुपायांश्चिन्तयेद् बहून्” ॥ १ ॥ ___अयं श्लोकस्त्वया चिन्तानिवारणाय सदा चिन्त्यः' । तया प्रपन्नम् । यावद् एवं तौ प्रीत्या वार्ती कुरुतस्तावता कनकवती द्वारपाश्चेस्थिता प्रच्छन्नं सर्व तच्छ्रुत्वा कपाटद्वयमाकृष्य तालकं ददौ । सा च कुमाय १. गुप्तः । २. उपक्रमम्-आरम्भम्-उपायम् । गद्यबद्ध| श्री मलयसुन्दरीकथा ॥ For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir र गद्यबद्धश्री मलयसुन्दरीकथा ॥ । दृष्टा उपलक्षिता च । कुमारेणोक्तम्-'कोऽयं किं करोति ?' तया भीतया प्रोक्तम्-' हा ! प्रमादो जातः । एषा मेऽपरमाता वार्ता श्रृण्वती न ज्ञाता ! । ज्ञायते किमपि भावि !' । अथ कनकवत्या तत्स्वरूपं समधिकं राज्ञोऽग्रे कथितम् । राजा रक्षकैः सह द्वारे समेतः । तदा कुमारी कम्पमानाङ्गी कुमारं प्रति प्राह- 'देवेन किं कृतम् ? । मुधा स्वादशस्य नररत्नस्य महाकष्टमुपस्थितम् । किं क्रियते ?, क गम्यते ?, द्वारमेव रुद्धम्' । कुमारेणोक्तम्-'मा भैषीः, भव्यमेव भावि' । इत्युक्त्वा 'एतन्मातुः सदृशं रूपं मे भवतु' इति ध्यात्वा मिलितयोगगुटिका शीर्षाल्लात्वा मुखे क्षिप्ता । तत्क्षणं स चम्पकमालादेवीसदृशरूपो जात: । राजा तालकं भक्त्वा मध्ये प्रविष्टः । तत्र च अभ्युत्थानं सहसा कुर्वती मावसहिता कुमारी दृष्टा । राजा विस्मितः । कनकवतीं वीक्ष्य शिरो धृनितम् । साऽसत्यवादिनी लज्जयाऽधोमुखी बभूव ! । आरक्षकादिकैरपि सा हसिता गता । राजापि स्वस्थान प्राप । सर्वेषु गतेषु सत्सु कुमार: स्वस्वरूपं पुनः कृत्वा तां प्रति प्राह-' अथाहं गच्छामि। तदा तया लक्ष्मीपुनहारो गलादुत्तार्य तत्कण्ठे क्षिप्तः, 'एषा मे वरमाला ज्ञेया' इत्युक्तं च । 'सुखिनः सन्तु ते पन्थानः' इति तया विसृष्टः । ततो निर्गत्य स्खसार्थे मिलितः स्वनगरं ययौ । अथ कनकवती 'कूटवादिनी' इति स वैरपि निन्दिताऽचिन्तयत्-'किमयं कोऽपि मे भ्रमोऽभूत् ?, कुमायैव वा किमपि कपटं कृतम् !' । इति चिन्तयती सा कुमारी प्रति द्वेषवती बभूव । अथ कुमारः स्वपुरं प्राप्तस्तं हारं पितुरढोकयन् । - केनायं दत्तः ?" इति पित्रोक्ते 'वीरधवलपुत्रेण दत्तः' इत्युक्तम् । तेनापि पद्मावतीदेव्यै दत्तः । अन्यदा ॥ १८ ॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagarsuti Gyanmandir कुमारेण स हारः स्वकण्ठे न्यवेशि । अथ कदाचित् कुमारेण तातं प्रणम्य पार्श्वे निविष्टे सति प्रतिहारनिवेदितः चन्द्रावतीशदूतः समेतः । स पृथ्वीपति प्रणम्य प्राह-“हे नरेन्द्र ! श्रीवीरधवलस्य अस्मत्स्वामिनो मलयसुन्दरी कन्याऽस्ति, सा सकलकलापात्रम् । 'यो बज्रसाराभिधानं धनुरारोपयिष्यति स तां परिणेष्यति' इति प्रतिज्ञया तत्कृते राज्ञा स्वयंवरः कारितः । सर्वे राजान आहूताः सन्ति । अद्य ज्येष्ठस्य कृष्णकादशी, आगामिन्यां चतुर्दश्यां स्वयंवरो भावी । मम चलितस्य बहवो दिना अभूवन् , परं मार्गे मन्दीभूतस्तेन विलम्बोऽभूत । अथ विलम्बो न सहते, कुमारः शीघ्रमादिश्यताम् , तथा च आगत्य तां कुमारी परिणयेत्" । राजा तच्छृत्वा हृष्टो दूतं वस्त्रादिभिः सत्कृत्य व्यसर्जयत् । कुमारोऽचिन्तयत्- 'मयेति ध्यायमानमासीत्-तां कथं पितृदत्तां परिणेष्यामि ?, परं दैवमनुकूलमस्ति ' । इति चिन्तयन्तं कुमारं प्रति राजा प्राह-'हे वत्स ! सजीभव, सैन्यं च सञ्जय । अद्यैव निशि प्रयाणं कुरु । लक्ष्मीप्रमहारः सार्थे ग्राह्यः' । कुमारेण करौ शीर्ष कृत्वा प्रोक्तम्-" तातादेशः प्रमाण, परम् एका वार्ता विज्ञप्याऽस्ति-निशि मम सुप्तस्य सतः कोऽपि भूतोऽन्यो वा वस्त्रम् आभरणं वा हुत्वा याति । अद्य तु लक्ष्मीपुनहारोऽपि हृतः । मम मातापि हारं गतं श्रुत्वा दूनाऽस्ति । मयोक्तम्-' मातः ! पश्चदिनमध्ये चेद् हार न ददे तदाऽग्निं साधयामि' । मम मात्रापि भणितम्-'यदि हारो नाऽऽयास्यति तदा मया मर्तव्यमेव ' ततोऽहं रात्रौ शयनस्थाने प्रहरकं दास्ये, यः कश्चिद् भूतो राक्षसो वा प्राग्भववैरी समेष्यति तत्स्वरूपं विलोक्य, तं विजित्य, हारं च गृहीत्वा पाश्चात्यरात्रौ चलिप्यामि" । गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २०॥ इत्युक्त्वा कुमारः स्वस्थानं गत्वा, रात्रौ खड्गमादाय, दीपच्छायामाश्रित्य स्थितः । अर्धरात्रे गवाक्षमार्गेण एकः करः प्राप्तः । स च इतस्ततः परिभ्रमति स्म । कुमारेण चिन्तितम्- 'कङ्कणभूषितः कस्याश्चिद् देवतायाः करोऽयं घटते, सा अदृशाऽस्ति, यद्यत्र हस्ते प्रहारं दास्ये तदा सा यास्यति । परं हस्तमेव आरोहामि । इति ध्यात्वा तमेव आरुरोह । हस्तारूढो गगने चचाल । तं पातयितुं हस्तेऽत्यर्थ कम्पमाने सति द्वाभ्यां हस्ताभ्यां वाढतरं हस्तं गृहीत्वा स्थितः । अग्रे देवी काचिद् रोपारुणनेत्रा प्रत्यक्षीभूता । कुमारेण साहसं धृत्वा सा मुष्टिप्रहारेण हता । तत आरटन्ती दीनवदना करुणस्बरं मुहुर्मुहुरवदत्-'कृपानिधे : मुश्च मुश्च' । अथ कारुण्यात् कुमारेण आशु सुरी कराद् मुक्ता । सा देवी नष्टा । कुमारोऽम्बरात् पतितः, परं कस्यचित् सहकारस्योपरि प्राप्तः, तेन शरीरे तादृक् पीडा नाभूत् । यावत्तत्र स्थितो विविधचिन्तासमुद्रे पतितो देवोपालम्भान् दत्ते तावत् कोऽपि महान् अजगरः भूघर्षणशब्दं कुर्वन् वृक्षमूलमागच्छन् शब्दानुसारेण ज्ञातः, दृष्टश्च । चिन्तितं तेन-'नूनम् अनेन कोऽपि जीवो गिलितः, तं च हन्तुं वृक्षस्कन्धे आस्फालयितुमागच्छति । तत एनं विदार्य गिलितं मनुष्यादिकं बहिष्करोमि । इति ध्यात्वा वृक्षादुत्तीर्य वृक्षतले निश्चलतया स्थित: । यावताऽजगरो वृक्षस्कन्धे वेष्टनं कर्तुं लग्नस्तावता कुमारेण तस्यौष्टपुटं गृहीत्वा बलाद् यत्नेन विदारितः । तन्मध्याद् एका स्त्री निर्गता अचैतन्येऽपि 'महाबलो मे शरणम् ' इति जल्पती । कुमारः स्वनामश्रवणेन विस्मितः । 'केयम् ?' इति विशेषतस्तस्या मुखं पश्यन् मलयसुन्दर्याः सदृशं दृष्ट्वा महतादरेण वायु विक्षयति स्म । For Private And Personal use only Page #22 -------------------------------------------------------------------------- ________________ Shin Mahavir Jhin Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir सा च किञ्चित् सचेतना कुमारोक्तं श्लोकं पपाठ । तदा तु तस्य चित्ते कुमारीनिश्चये सति महत्कौतुकं जातम् । सापि समुन्मीलितलोचना शनैः शनैः सावधाना कुमारमुपलक्ष्य लज्जावती बभूव । ऊचे च-'प्राणेश ! स्वं कुत: ?' तेनोक्तम्-'पूर्वम् आसन्ननदीजले शरीरं क्षालय, पश्चात् परस्परं कथ्यते स्वरूपम् । ततस्तौ नद्यां गत्वा शरीरं क्षालयित्वा तत्रायातौ । कुमारेण स्वस्वरूपे कथिते कुमारी शिरो धूनयति स्म, विषमा दैवगतिः!। अथ कुमारः प्राह- त्वं तत्र सुरक्षिते स्थाने वसन्ती कथमजगरोदरं गताऽसि ?' । सा यावत् किञ्चिद् 18 वक्तुमारभते तावत् कुमारेण तत्र प्रत्यासन्ने मनुष्यसञ्चरं ज्ञात्वा कुमारी प्रत्युक्तम्-'क्षणं मौनेन तिष्ठ । कोऽपि तस्करः पारदारिको उतकारो वा रात्रौ सश्चरन्नत्र आयाति' । ततः कुमारेण शीर्षाद् गुटिका आकृष्य आम्ररसेन घृष्टा । तत: कुमार्या भाले तिलके कृते पुरुषरूपां जातां दृष्ट्वा तां प्रत्युक्तम्- ' यावदहं निष्ठ्युतेन तिलकमिदं न प्रमार्जयिष्ये तावत् त्वं पुरुषरूपैव द्रक्ष्यसे । एवं तौ यावत्तत्र निश्चलौ स्थितौ तावत् तत्रैका स्त्री कम्पमानाङ्गी तौ दृष्ट्वा च विशेषतश्चकिता समेता । कुमारेण भाषिता-' भद्रे ! का त्वं ? कि मीतेव दृश्यसे ! । आवां पथिको, किश्चिन्न जानीवस्ततः पृच्छयते' । सा पाह- " भोः क्षत्रियो ! एषा गोला नदी । अनासन्न चन्द्रावती पुरी । तत्र वीरधवलो नाम राजा । तस्य मलयसुन्दरी कन्याऽस्ति । तस्या अपरमाता कनकवती तां प्रति मात्सर्य धत्ते । अहं च तस्या महल्लिका सोमाभिधानाऽस्मि । दिनत्रयात् पूर्व गद्यबद्धश्री मलयसुन्दरीकथा ॥ १. अन्तःपुरचरा-दामी ॥ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥ २२ ॥ रात्रौ मयि समीपे स्थितायां लक्ष्मीपुजनामा हारः कनकवतीकण्ठेऽपतत् । कौतुकेन तया मया च आकाशे वीक्षितम् , परं न कोऽपि क्षेप्ता दृष्टः । ततस्तयाऽहं भणिता- कस्यापि हारस्वरूपं न प्रकाश्यम्' । मया प्रपन्नम् । ततः सा हारं संगोप्य तदेव महासाहसयुक्ता मया सह श्रीवीरधवलपार्श्व गता । प्रोचे च-"प्राणेश ! किमपि वक्तुं प्राप्ताऽस्मि, अवसरे विलम्बो न युक्तः । शृणु, पृथ्वीस्थानपुरे सूरपालो राजा, तस्य महाबलः पुत्रः । तस्य मानुषमेकैकं मलयसुन्दरीपाश्चे समेति । एतया लक्ष्मीपुश्रहारस्तस्मै दत्तोऽस्ति । इति कथापितं च'स्वया सर्वसैन्येन स्वयंवरे समेतव्यम् , तव स्वजनराजानोऽपि बहवो मिलिष्यन्ति । त्वयेदं राज्यं ग्राह्य, अई च परिणेतव्या, हारप्रभावेण सर्व सेत्स्यति' । एषा मुग्धा दृश्यते, परं चरित्रं विषममस्ति ! । मया सम्यग् ज्ञात्वा हितार्थ कथितमस्ति । चेन विश्वासमतदा हार एव याच्यताम्" । इत्युक्त्वा राजानं कोपाकुलं कृत्वा गता । राज्ञा तदा चम्पकमालामाहूय सा वार्ता प्रोक्ता । तयाऽप्युक्तम्-' यदि हार न दत्ते तदा सर्व सत्यमेव' । कन्यापि तदेव आहूता । हारे याचिते सा चकितचित्ता आह-'तात : हारो मत्याचे नास्ति, स केनापि अपहृतः । तदा राज्ञा कनकवत्याः कथितं सत्यमेव मन्यमानेन रुष्टचेतसा प्रोक्तम्-'रे पापे ! स्वं मुख मा दर्शय' । सा गता । राज्ञा चिन्तया रात्रिरतिक्रान्ता । प्रातस्तलारक्षमाहूय प्रोक्तम्-'भो ! मलयसुन्दरीं गृहीत्वा वध्यभूमौ निपातय ' । इति श्रुत्वा विस्मितो दुःखितो 'राजादेशः प्रमाणम्' इति वदन् गत्वा कन्यां प्रति रुदन प्राह । साऽपि श्रुत्वा व्याकुलचिता ' किं मया विनाशितम् !' इत्यादि जल्पन्ती समुत्थिता । For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagauti ya mandir www.kobatirth.org सख्योऽपि रुदत्यः पृष्ठतो लग्नाः । तां रुदती स्खलत्पादों दृष्ट्वा रक्षकेण गत्वा राज्ञः प्रोक्तम्-'देव ! कथमेवं स्त्रीहत्या गृह्यते ?, सा च एकशस्तवाग्रे किमपि विज्ञपयितुमायाति' । राज्ञोक्तम्-'सा मम दृष्टौ मा आवा. सीत् , परं यदि स्त्रीहत्या चिन्त्यते तदा सा स्वयमेव पातालमूलनाम्नि अन्धकूपे पततु । यदि न पतति तदा यथा तथा विनाश्येव' । इति राजादेशं प्राप्य रक्षक: कुमायें कथयामास । ततः सा 'हा मातः ! हा तात ! हा मलयकेतुभ्रातः ! कथं निरपराधा हन्यमानाऽस्मि ?' इति विलपन्ती लोकेषु शोकाकुलेषु रक्षकवृताsन्धकूपसमीपं गता । 'सर्वज्ञः शरणम् , महाबलश्च मे शरणम्' इति वदन्ती विद्युज्झात्कारं दर्शयन्ती कूपे झम्पां ददौ । सर्वः कोऽपि 'हा हा !' कुर्वन् स्वस्थानं ययौ । रोज्ञी राजा च हृष्टौ । रात्रौ राज्ञा मन्त्रिणमाहूयः प्रोक्तम् - "सी तावद् दुष्टा मृता । अथ स्वयंवरार्थमाहूता राजानो निषिध्यन्ते । 'अकस्मात् कन्या मृता' इति ज्ञाप्यते । अत्रार्थे हितकारिणी कनकवत्यपि पृच्छ्यते" । इत्युक्त्वा मन्त्रिणा सह तद्गृहं ययौ। । द्वारं दत्तं दृष्ट्वा कुश्चिकाच्छिद्रेण यावत् पश्यति तावता तां कनकवती हर्षेण हस्ते गृहीत्वा तमेव हारं प्रति इति वदन्तीं ददर्श-' हे हार ! त्वं महाभाग्येन मम करे चटितोऽसि । त्वत्प्रसादेन पूर्वभववेरिणी सा मलयसुन्दरी भव्यं निपातिताऽस्ति !' इति श्रुत्वा राजा 'वश्वितोऽस्मि' इति वदन् मूछितः पपात । सर्वे लोका मिलिताः । चन्दनजलैः सिक्तः सचेतनः कपाटद्वयं हस्ताभ्यां कुट्टयन् बभाषे-रे: पापिन्या हारं स्वयं गद्यबद्ध| श्री मलयसुन्दरीकथा ॥ १. कनकवती । २ मलयसुन्दरी । ३ मारिता । For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २४ ॥ गृहीत्वा सा गुणमयी पुत्री विनाशिता' । तदा कनकवती तत्सकलस्वरूपं ज्ञात्वा भयाद् मया सह गवाक्षमार्गेण झम्पां दत्वा नष्टा । तत आवाभ्यां देवकुलस्थिताम्यां लोकमुखादिति श्रुतम् - "राजा कपाटं भिच्या मध्ये प्रविष्टः । ताम् अदृष्ट्वा 'पापिनी नष्टा' इति वदन् हस्तौ ममर्द । तत्कालं च अन्धकूपके गत्वा मध्ये पुरुषान् प्रक्षिप्य कुमारी शोधयामास । परं सा कन्या क्वापि न लब्धा । 'नूनं केनापि जीवेन भक्षिता' इति प्रलपन् प्राह-भो भटा : धावत धावत, सा कनकवती कुतोऽपि गृहीत्वा अत्रानीयताम् । यथा ता विडम्बनेन फलं दर्शयामि" । इति लोकमुखाच्छत्वा कनकवती मां प्रति प्राह-'अहं लक्ष्मीपुञ्जहारं गृहीत्वा मगधाया गृहे यामि, तया सह मम प्रीतिवतते । त्वं तु क्वाप्यन्यत्र तिष्ठ' इत्युक्त्वा सा तद्गृहं गता । अहं च अत्रागच्छन्ती युवयोमिलिताऽस्मि । अथ कोऽपि राजपुरुषः समेष्यति, ततो यामि" । ____ तस्यां गतायां कुमारेण कुमारी वभाषे-'ज्ञातं सर्व स्वरूपम् । त्वं कूपे पतिताऽजगरेण गिलिता । अस्मिन्नपि मया विदारिते च मे मिलिता । कूपोऽप्यत्रैव क्वापि घटते । अद्याप्यावयोः पुण्यं जागति' । अथ राव्यतिक्रमे जाते सति स कुमारी प्रति प्राह-'श्रणु तावद् , आत्मीयानि बहूनि कार्याणि कर्तव्यानि सन्ति, अत उत्थीयते' । इति वदन भट्टारिकाभवने कुमार्या सह गतः । तत्र चम्पकमालायाः काष्ठफालीद्वयं दृष्टम् । तच्च दृष्ट्वा किमपि मनसि विचिन्त्य तेन तां प्रत्युक्तम्-त्वं पुरुषधारिणी मगधागृहं गत्वा कयाचिद् बुद्धया कनकवतीपादिद् हारं गृहीत्वा द्वितीयदिनप्रदोषसमये अत्रैवागच्छ । अहमपि आगमिष्यामि । तेन तस्या For Private And Personal use only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra wwww.kobatirth.org Acharya Sh Gyanmand मुद्रारत्नं स्वहस्ते क्षिप्तम् । सा गता मगधागृहं प्रति । सोऽपि चचाल । नैमित्तिकवेषं कृत्वाऽग्रे गच्छन् नदीतटे काष्ठसमुदाय मिल्यमानं ददर्श । 'किम् ?' इति चिन्तयन्नग्रे गच्छन् गजेन्द्रं चरन्तं तस्य विष्ठां शोधयतः पुरुषांश्च ददर्श । पप्रच्छ च-को हेतुर्विष्ठाशोधने ?' । तैरुक्तम् -' श्रीवीरधवलस्वामिनः पुत्रेण मलयकेतुना स्वर्णश्रृङ्खलिका रवजटिता समुल्लालिता गजचारमध्ये पतिता । गजेन गिलिता । यदि स्यात्तदा विष्ठामध्ये लभ्यते' । यावद् एवं स तैः सह वार्ता करोति तावता आक्रन्दयुक्तः कोलाहलोऽजनि । कुमारेण पृष्टम् -' किं भो घटते ? ' । तैरुक्तम्-'मलयसुन्दरीदुःखेन राजा राज्ञी च चितां प्रविशतः, स कोलाहलः' । तदा कुमारः कामपि मर्ति मनसि धृत्वा कन्याया मुद्रिका गजचारमध्ये प्रच्छन्नं चिक्षेप । तस्मिस्तत्र स्थिते एव गजेन सा गिलिता । ततः कुमारो नदीतटं प्रति दधावे । भुजद्वयमुत्पाट्य गाढं वक्ति स्म-भो भो लोका ! वार्यतां वार्यताम् , गजाग्रे कथ्यते मलयसुन्दरी जीवति' तदा कैश्चिल्लोकमन्त्रिणामग्रे कथितम् । तैश्च धावित्वा लग्ना चिता विध्यापिता । राज्ञा पृष्टम्-'को हेतुः ? । तावता कुमारोऽपि भूपपार्श्व प्राप्तः 'चिरं जय जय' इति त्रुवन् । राज्ञोक्तम-त्वं का ? किं कथयसि ?' । तेनोक्तम्-' अई नैमित्तिकः । निमित्तेन जानामि तव सुता जीवति । चेद् न प्रत्ययस्तदाऽभिज्ञानं वच्मि-यदि त्वत्पुरुषाः कन्याया मुद्रिकां कुतोऽप्यानीय दर्शयेयुस्तदा मद्वचः सत्यं, नो चेन्न' । इति श्रुत्वा राजा चिन्ताया चितायाश्च बहिनिर्गतः । पुनस्तं पप्रच्छ-'भो नैमित्तिक ! तस्याः स्वयंवरार्थे नृपा आहूताः सन्ति, चतुर्दश्यां स्वयंवरोऽस्ति, तदर्थे किं करिष्यते ?' । तेनोक्तम गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥ २५॥ For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagasti Gyanmandir गद्यबद्धश्री मलयसुन्दरीकथा ॥ 'नृपान् आकारय, स्वयंवरं कारय, वरस्य वरणवेलायां कुतोऽपि कन्या प्रकटीभविष्यति । महाबलश्च चरो भावी। इति तव कुलदेवीभिर्मम स्वप्ने प्रोक्तमस्ति' । राजा तद्वचसा तुष्टो महोत्सवेन पुरमध्ये स्वगृहं प्राप । तेन नैमित्तिकेन सह वार्ता कुर्वतो भूपस्य प्रभाते गजपालकैविज्ञप्तम्-' प्रभो ! गजपुरीषमध्याद् मुद्रारत्नमिदं लब्धम्' । राजा मलयसुन्दरीनामाङ्कितं तद् दृष्ट्वा विस्मितो नैमित्तिकमालुलोके । तेनोक्तम्-'देव ! तव पुरः सम्यग्ज्ञानं विना कथं कथ्यते ?' । तत्प्रत्ययाद् गज्ञा स्वयंवरमण्डपः सन्जितः । सर्वभूभुजां निवासाः कारिताः । नृपा आकारिताः । बुभुक्षितामन्त्रितवत् क्षणं सायं सर्वेऽपि समेता: । नैमित्तिकेनोक्तम्-'देव ! मम अर्धसाधितो मन्त्रोऽस्ति । अद्यतनी निशां विसर्जय, प्रातरागमिष्याम्येव' । राज्ञोक्तम्-' मन्त्रसाधनोपहाराय किश्चिद् द्रविणं गृहाण' । ततः स किञ्चिद् द्रविणं गृहीत्वा ययौ । निशामतिक्रम्य सूर्येऽनुगते स तत्रागत्य नृप प्राह-'स्वामिन् ! त्वदीयकुलदेवीभिः स्वयंवरयोग्य: स्तम्भो दत्तोऽस्ति । स पूर्वदिक्प्रतोल्याः प्रत्यासन्न घटते । अहं पुनस्तत्रैव गच्छामि' । इन्युक्त्वा स गतो राजपुरुषेण सह । स्तम्भं दृष्ट्वा राजनरेण राज्ञोऽग्रे प्रोक्तम् । । ततो राजा महोत्सवपूर्व स्तम्भसमीपं ययौ । नैमित्तिकेन भव्ययुक्त्या पूजितः । ततः पुरुषैरुत्पाटितः । अग्रे समग्रेण परिकरेण युक्तो राजाऽचालीत् । महोत्सवेन स्वयंवरमध्ये ऊर्ध्वस्था शिलां कृत्वा तदाधारेण स्तम्भोऽपि भव्ययुक्त्या नैमित्तिकेन स्थापितः । वज्रसारं धनुर्बाणयुक्तं तत्पार्श्वे स्थापितम् । ततो राजानः सिंहासनेषु निविष्टाः । गीत-नृत्यायुत्सवे भवति सति नमित्तिकः शीघ्र बहिर्गत्वा वेषं परावृत्य वीणावादकमध्ये गत्वा निविष्टः । ततः प्रतिहार्या प्रोक्तम्-'अस्प स्तम्भस्य द्विहस्तमानम् अग्रं बाणेन यो भेत्स्यति स कुतोऽपि For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir प्रादर्भतां कन्यां परिणेष्यति । ततः सर्वेऽपि नृपा नृपपुत्राश्च उस्थिताः, परं केनापि धनुगरोपयितुं न शक्तं, केनापि च बाण: क्षिप्त इतस्ततोऽगात् । न केनापि स्तम्भाग्रं भिन्नम् । ततो राजा विषण्णः । नैमित्तिकमपि अदृष्ट्वा परं खेदं प्राप । ततो मन्त्रिवचसा पटही दत्तः-'यः कोऽपि स्वादेशिको वैदेशिको वा धनुरारोप्य स्तम्भाग्रं भिनत्ति स कन्यां परिणयतु' । ततो वैणिकरूपेण कुमारः स्तम्भसमीपमागत्य वीणां वादयित्वा प्राह'हे राज्ञः कुलदेवताः । प्रसन्ना भवन्तु ' इत्युक्त्वा धनुरारोप्य वाणं चिक्षेप । तत्क्षणं स्तम्माग्रे विदारिते सति फालीद्वयमुद्घटित पपात । मध्ये वरमालाधारिणी लक्ष्मीपुत्रहारभूषितां दिव्यदुकूलशालिनी मलयसुन्दरीं दृष्ट्वा राजा लोकोऽपि च महाश्चर्यपूरितोऽभूत् । तया च वैणिककण्ठे वरमाला न्यस्ता । सर्वेऽपि भूपास्तं दृष्ट्वा कोपाविध यद्धं कमस्थिताः । राज्ञा प्रोक्तम-'किमहो । युद्धं क्रियते ? । पटहोघोषणे कृते यदि चैणिकेन बलं दर्शयित्वा कन्या वृता तदा क: कोप: १ ततो विशेषतो रोषारुणाः सैन्यानि सज्जयामासुः । राज्ञोक्तम्'नैमित्तिकवचः सर्वमपि मिलितम् । परं मुरपालनृपसुतो वरो नाऽभूत् , यः पुनर्महावलो बलवानेव कोऽपि कथितः ' । इति श्रुत्वा वैणिको मनसि हसन् वज्रसारमेव धनुर्गृहीत्वा शरान् वर्षयन् नृपाणां सम्मुखोऽभूत् । राजापि तस्य परितः ससैन्यो योद्धं डुढौके तत: कुमारेण सर्वे भूभुजो भग्ना: पलायितुं लग्नाः । तदा केनापि भट्टेन कुमारमुपलक्ष्य प्रोक्तम् १. वीणा शिल्पमस्य स धैणिकस्तद्रूपेण-वीणावादकस्वरूपेण । २ महाबलः । गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #29 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २८ ॥ “सूरपालसुतः शेषशोभा धत्ते महाबलः। समस्तान् भूभुजो जित्वा सत्यां कुर्वन्निजाभिधाम् ॥१॥ ___राजा तच्छ्रुत्वा चमत्कृतो मन्त्रिणं वभाषे-'किमेतद् घटते ?' । तेनोक्तम्-'हे प्रभो ! कुलदेवीप्रसादात् पुण्यप्रभावाच्च सत्यम् असम्भाव्यमपि भवति । ततो ज्ञाततत्स्वरूपेण राज्ञा सर्वेऽपि नृपाः सम्बोध्य युद्धान्नि. वारिताः । राजकुमार कुमारी च गृहीत्वा महोत्सवेन पुरं प्रविवेश । ततस्तयोः पाणिग्रहणमभूत् । अथ कुमारस्तया सह वासं भेजे । सोऽयं राजा कुमारपाव समेत्य तत्स्वरूपं पप्रच्छ-'कथम् एकाकी स्वं समेतः । कुमारेणोक्तम्-'देव ! त्वत्कुलदेवीभिरुत्पाटध अहमानीतोऽस्मि । परं मम माता-पितरौ महादुःखं प्राप्ती भविष्यतः । यदि प्रतिपदिनाद् अर्वाग न यास्यामि तदा तौ मरिष्यतः, अतो मां विसर्जय' । राज्ञोक्तम्'तत्पुरम् इतो द्वापष्टियोजनानि स्यात् , अतस्तव प्रयाणयोग्यां करभी सञ्जयामि । रुष्टान् राज्ञोऽपि संमान्य स्वस्वस्थानं प्रेषयामि' । इत्युक्त्वा राजा निर्गतः । अथ कुमारः प्रियापावें प्रकट हारस्वरूपं यावत् पृच्छति तावद् एका महल्लिका तत्र प्राप्ता । कुमारः प्रश्नं कुर्वन् स्थितः । मलयसुन्दर्योक्तम्-'एषा वेगवती मे धात्री रहस्यस्थानम् । ततः सा निविश्य तो प्रति प्राह-'किमिदम् आश्चर्यम् , सत्यं कथ्यताम् । पूर्व कुमारण स्वस्वरूपं कथितं, यावद् द्वौ मिलितौ । ततः कुमारी पुरूपा मगधागृहं प्रति चलिता । कुमारस्तु नैमित्तिकवेषेण निमित्तं कथयित्वा राजानं चितां प्रविशन्तं निवार्य, गृहं नीत्वा, तहसद्रविणेन रात्रौ 'तक्ष्ण उपकरणानि ॥ २८ ॥ १. वर्धकेः-स्वष्टुः । For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir 'वर्णकादिकं च गृहीत्वा, बहिर्गत्वा भट्टारिकागृहे तत्कालीद्वयं तक्षित्वा रम्यमकार्षीत । तावत् तत्र केपि । तस्करा मञ्जूषामेको तत्र मुक्त्वा रक्षपालं च मुक्त्वा पुनः पुरमध्यं गताः । रक्षपाल एव मञ्जूषातालकम् उद्घाटयितुं प्रवृत्तः, परं नोद्घटते । तदा कुमारेण चौरसंज्ञा कृता । तेन आहूतः सोऽपि तस्य मिलितः, तालकमुद्घाटितं च । रक्षपालेन सारं वस्तु निष्काश्य पोट्टलके बद्धवा प्रोक्तम्-'हे मित्र ! यद्यहं पोट्टलकं गृहीत्वा यास्यामि, यदि च ते तस्करा मम पृष्ठं करिष्यन्ति तदा मां हत्वा सर्व ग्रहीष्यन्ति । किमपि दशेय स्थानं यत्र कियती वेलां सुखेन तिष्ठामि । तेषु चौरेषु च गतेषु अहमपि यास्यामि'। इत्युक्ते कुमारेण देवकुलस्य पद्मशिलामुत्पाटय पोट्टलकयुक्तश्चौरी मध्ये क्षिप्तः । शिला तथैव कृता । कुमारः प्रत्यासन्नवटकोटरे प्रविष्टः । तत्र देवताहृतं स्वीयं वस्त्राभरणादिकं दृष्टम् । तेन आश्चर्य विभ्रता सर्व संगृहीतम् । तत्र च मलयसुन्दरीं समागच्छन्तीं दृष्ट्वा स वटकोटराद् निर्गत्य तस्या मिलितः । तया चोक्तम्- कनकवती त्वां पतिमिच्छन्ती समेति' । कुमारेणोक्तम्-'तन्मुखमपि द्रष्टुं न युक्तं, परं स्वस्वरूपं कथय' । इत्युक्ते कुमारी प्राह-" मया तवादेशेन पुरमध्ये मगधागृहं पृच्छन्त्या कापि देवकुले स्थिता मगधा दृष्टा । केनाप्युक्तम्-'सेयं मगधा, परं केनापि धूर्तेन सङ्कटे पातिताऽस्ति' । मया समीपे गत्वा प्रोक्तम्- भद्रे ! कि ते सङ्कटम् ?' । तयोक्तम्-" श्रृणु, निजगृहाङ्गणस्थया एष पुमान् मया हास्येन प्रोक्तः- ममाङ्गं दुःखयति, क्षणं संवाहय, गद्यबद्धश्री मलयसुन्दरीकथा ॥ १. हिगुल-चन्दनादिकम् ।। For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गयबद्धश्री मलयसुन्दरीकथा ॥ अहं किश्चन ते दास्यामि' स क्षणं संवाह्य गन्तुं प्रवृत्तो मां बभाषे–' मम किश्चन देहि' । अहं बखें द्रम्मशतादिकं च दातुं प्रवृत्ता, परम् एष 'किञ्चन' याचते । किश्चनशब्देन कि दीयते १. अतोऽनेन अत्र देवकुले रुद्ध्वा स्थापिताऽस्मि' । इति वेश्योक्तं श्रुत्वा मया स धृतोऽपि प्रोक्त:-'भो ! मध्याहने तु भवतोविवादो भयते' इत्युक्त्वा द्वावपि मया प्रेषितौ । मया तत: सर्पग्राहिणां पार्थात् सर्प गृहीत्वा घटान्तः क्षिप्त्वा स घटस्तत्रैच देवकूलमध्ये मुक्तः । वेश्या धृतों लोकाश्च कौतुकेनायाता: । मयोक्तम्-'भो ! घटमध्ये तव दातव्यं वर्तते. त्वं गृहाण' । तेन घटमध्ये हस्तः क्षिप्तः, सर्पेण च झाटकारितः । प्राह च-'भो ! मध्ये किश्चन विद्यते' । वेश्यया मया चोक्तम्-'तहि त्वया ग्राह्यम् !' । इत्युक्त्वा हसित्वाऽई मगधया सह चलिता । लोका अपि हसन्तो गताः । स च वराकः सर्पदष्टस्तोतलागृहं प्रति चलितः । अहं तया सह चलिता तद्गृहद्वारं प्राप्ता तां प्रत्यूचे-'हे मगधे ! तव गृहे किमपि राजविरुद्धं मानुषं वर्तते ?' । इति श्रुत्वा मगधा मत्पादयोर्लग्ना-' हे सत्पुरुप ! त्वं ज्ञानी वर्तसे । मद्गृहे कनकवती राजपनी राजद्विषा पूर्वपरिचयेन प्राप्ताऽस्ति । सा ज्वलन्ती गडरिकेव मया दाक्षिण्येन स्थापिताऽस्ति । तां कथञ्चित् त्वमेव निष्काशय, त्वया न कस्याग्रे वाच्यम्' । मयोक्तम-' न वक्ष्ये, सा मम मेलनीया' । ततोऽहं तया मध्ये नीत्वा स्नान-भोजनादिकं कारिता । रात्रौ कनकवती तया मम समीपमानीता । सा मां दृष्ट्वा हास्यादिकं कुर्वती स्वकीयभावं प्रकाशयामास । पप्रच्छ च-'कस्त्वम? | मयोक्तम-'क्षत्रियोऽहम । मम मित्रं रूपनिर्जितमदनं ॥ ३०॥ For Private And Personal use only Page #32 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ॥ ३१॥ बहिर्वर्तते । त्वं का? । ततः सा सर्व स्वस्वरूप प्राह । मयोक्तम्-'यदि पतिमिच्छसि तदा तद् मन्मित्रं कुरु । यत् तवाभरणादिकं तद् दर्शय । तया सर्व दर्शयित्वोक्तम् - लक्ष्मीपुनहारश्चतुष्पथस्थितकीर्तिस्तम्भासन्ने न्यस्तोऽस्ति । साम्प्रतं मध्यरात्रिर्जाता, प्रातस्तु दिनेऽहं प्रकटं तत्र गन्तुं न शक्नोमि, सन्ध्यासमये प्रदोषे एव त्वया सह मित्रपार्श्वे नेष्यामि' । इत्युक्त्वा स्थिता । अहमपि सुखेन सुष्वाप । प्रभाते मया कीर्तिस्तम्भस्थाने हारो विलोकित:, परं न लब्धः । सायं मयोक्तम्-' आगच्छ, गम्यते' । ततः सा वेश्यागृहानिर्गत्य तं हारं गृहीत्वा आगच्छति, अहमने भृत्वा समेताऽस्मि" । कुमारेणोक्तम्-'अहं देवकुले पाश्चात्यभागे तिष्ठन्नस्मि । अत्र साम्प्रतं तस्कगः समेता आसन् , सावधानतया भाव्यम् । इत्युक्त्या महाबलोऽदृष्टो भृतः । तावता कनकवती तत्रायाता बभाषे-'क ते मित्रम् ?' तयोक्तम्-' मैवं वद, निभृता तिष्ठ, अत्र केऽपि प्रत्यासन्ने तस्करा: सन्ति' । सा भीताऽभाणीत-'रक्ष्यतां मम हारादिकं, ते ग्रहीष्यन्ति' । कुमार्योक्तम्-'मा भेपीः, एका मञ्जुषाऽत्र वर्तते, मम हस्ते सारदुकूल-हारादिकं समय त्वं मध्ये प्रविश यावत् तस्करा यान्ति' । तया तथैव कृतम् । सा मञ्जूषामध्ये प्रविष्टा । कुमार्या तालकं दत्वा कुमार आहूतः । ताभ्यां द्वाभ्यामुत्पाटय मक्षा गोलानदीजले प्रवाहिता । वैरं वालितम् । ततः कुमारेण कुमारी ललाटे निष्ठयूतेन स्पृष्ट्वा श्रीरूपा चक्रे । चन्दनेन अर्चित्वा हार-दुकूलभूषितां च कृत्वा सजीकृतफालीमध्ये स्वापिता । ' यदाऽहं वीणां वादयित्वा बाणं मुश्चामि तदा त्वया एता नष्टाः कीलिकाश्चालनीयाः, फालीद्वयं विघटिष्यते' इत्युक्त्वा द्वितीया फाली गद्यबद्ध श्री मलय सुन्दरीकथा ॥ ॥३१॥ For Private And Personal use only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Gyanmandir गद्यबद्धश्री मलयसुन्दरी ॥ ३२ ॥ तदुपरि स्थापिता । ततः कुमारेण स स्तम्भश्चित्रितस्तथा यथा सन्धिरपि न ज्ञायते । तस्य तत्र तिष्ठतस्ते तस्करा: पुरमध्यात प्राप्ताः । स्वां मञ्जूषा रक्षपालं च अदृष्ट्वा तत्स्वरूपं कुमारस्याग्रे प्रोच्य पुनः पप्रच्छु:'सक्क' । तेनोक्तम्-'पूर्व मदीयमेकं कार्य कुरुत, पश्चात् कथयामि । तेरुक्तम्-'कि ते कार्यम् ?'। तेनोक्तम्-'स्तम्भमेतमुत्पाट्य प्रतोलीप्रवेशं नयत' । तैस्तथा कृते सोऽवादीत-'अहं प्रच्छन्नस्थितो यादृशं दृष्टवान् तादृशं कथयन्नस्मि-तेन रक्षपालेन तालकं भक्त्वा मञ्जूषा उद्घाटिता, सारं वस्तु च दृष्ट्वा मजूषां नदीजले क्षिप्त्वा मध्ये प्रविश्य तां तारयामास । एवं कुर्वन् दृष्टः, ततोऽहं न वेनि' । इति श्रुत्वा ते तस्करा नदीतटं प्रति धाविताः । कुमारेण च स्तम्भरक्षां कुर्वता रात्रिरतिक्रान्ता । प्रातः स्तम्भः पुरमध्ये मण्डपे स्थापितः । अग्रेतनं सर्व स्वरूपम् एवं कुमारस्य कुमार्याश्च पूर्वस्वरूपं प्रोक्तम् । अथ कुमारेण प्रोक्तम्-'हा हा ! देवकुलशिखरस्थितश्चौरो मरिष्यति, अहं गत्वा तं निष्काशयामि' । कुमार्योक्तम्-प्राणेश ! अहमपि सहैव आगमिष्यामि'। ततो वेगवत्या अग्रे प्रोच्य तौ द्वावपि चलितौ । राजा नरेश्वरान् बहु मानयामास, परं ते प्रोचुः- वयं प्रातस्तं महाबलं हत्वा त्वत्सुनां गृहीत्वैव यास्यामः, नान्यथा' । राजा तन्निश्चयं ज्ञात्वा त्वरित करमी सजीकृत्य कुमारचालनाय कृतनिर्णयस्तत्रागात् । तौ अदृष्ट्वा गज्ञा पृष्टं वेगवत्योक्तम्- ' कुमार्योक्तं यद् मया देव्या उपयाचितकं कृतमस्ति, ततस्तौ बहिर्गतौ' । तच्छृत्वा राजा क्षणं प्रतीक्ष्य बभाषे–' अद्यापि तो नायातौ, किं कारणम् ? ' । तौ सर्वत्र पुरमध्ये विलोकिती, परं न लब्धौ । ॥ ३२ ॥ For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वरं प्रति चलिताः। राजा राझी च चिन्ताम्भोधिमनौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? । तौ केनापि अपहृतौ घटेते, अतो गिरि-चनादिषु शोध्येते । पृथ्वीस्थानपुरे च घरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोकते' । राजा तच्छ्रुत्वा 'साधु साधु' इति वदन् तद्बुद्धि प्रशंसयन् मलयकेतुकुमारं पृथ्वीस्थानपुरं प्रति प्रेषयामास । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचितायां मलयसुन्दरीकथायां पाणिग्रहणवर्णनो नाम द्वितीय उल्लासः ॥ ॥३३॥ गद्यबद्ध| श्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #35 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरीकथा ॥ अथ तृतीयो उल्लासः ॥ अथ कुमारः कान्तया सह तदा बहिर्निर्गतः । प्रियां प्राह-रात्रौ बहिः स्त्रीणां भ्रमणं न युक्तम् । इत्युक्त्वा आम्ररसेन गुटिकां घृष्ट्वा तस्या भाले तिलकं कृतम् । सा पुंरूपा तेन कृता । ततस्तो देवकुलं गत्वा तं चौरं शिखरान्निष्काशयामासतुः । कुमारेणोक्तम्-'भीः ! त्वदीयाः सहायका मयोत्तरं कृत्वा अन्यत्र प्रेरिताः सन्ति, त्वं यथेच्छं व्रज' । सोऽपि हृष्टो गतः । अथ तौ पुरो गच्छन्तौ वटोपरि वार्तालापं शुश्रुवतुः । कुमारेणोक्तम् --' प्रिये ! निःसञ्चलतया भाव्यम् । केऽपि वटोपरि वार्ता कुर्वन्ति । तदा लक्ष्मीपुत्रहारः स्वकीयकटयां स्थापितः । तौ वटकोटरे प्रविश्य निश्चलौ स्थितौ । तदा वटोपरिस्थ एको भृतोऽपरान् प्राह-" भोः ! प्रातमहत्कौतुकं वर्तते, श्रृणुत-पृथ्वीस्थानपुरे मुरपालो नाम राजा, पद्मावती राज्ञी, महाबलः पुत्रः । तेन लक्ष्मीपुत्रहारस्य पश्चदिनान्तर्वालनकृते प्रतिज्ञा कृताऽऽसीत् । मात्रापि च प्रोक्तमासीत्-'यदि पश्चदिनान्तहरिं न लप्स्ये तदा मरिष्यामि' । परं कुमारस्य शुद्धिरपि नास्ति । कल्ये पञ्चमं दिनम् । सा राज्ञी जला-ऽग्नि-विषादिना केनापि प्रकारेण मरिष्यति, तस्याः पृष्ठे राजापि मरिष्यति, तदनु जना अपि मरिष्यन्ति" । तच्छत्वा ॥ ३४ ॥ For Private And Personal use only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ।। ३५ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारोऽचिन्तयत् —' हा ! किं भावि ?, मयि जीवति सर्व कुलं विसंस्थुलं भावि !" । तस्मिन्नेवं चिन्तयति भूतेनोक्तम्- ' भोवलत सर्वेऽपि तत्र गम्यते' । केनापि भूतेनोक्तम्- ' किमपि यानं वीक्ष्यते । केनापि कथि तम् -'वट एव यानम्' । ततः सर्वैरपि हुङ्का मुक्तः, वट उत्पतित: । तत्कोटरस्थौ तावपि चलितौ । क्षणेन स वटः पृथ्वीस्थानपुरेऽलम्बशैलाभिधान गिरिसमीपे स्थितः । कुमारस्तां भूमिमुपलक्ष्य प्रियां प्रति प्राह – ' प्रिये ! जाग्रति पुण्यानि, सेयं मम जन्मभूमिः, वटकोटरं त्यज्यते, वटोऽन्यत्र मा व्रजतु' । ततस्तौ कोटरान्निर्गत्य कदलीगृहं गतौ । तत्र स्थिताभ्यां ताभ्यां पुनरपि वट उत्पतन् दृष्टः । कुमारेणोक्तम् -' वटः पुनः स्वस्थानं याति, भव्यं कृतमावां कोटरान्निर्गतौ ' । अथ कुमारेण स्त्रीरुदितं श्रुत्वा प्रिया प्रोवे - ' ' कापि स्त्री रोदिति, दुखं स्फेटयामि । तस्यां वारयन्त्यामपि स्वीयोत्तरीय-कुण्डलादिकं दत्वा हारे कटीस्थे एव सोऽचलत् । सा मलयसुन्दरी पुरूषा सभागृहेऽस्थात् । तथा तन्मार्गं पश्यन्त्या एव चिन्तया रात्रिरतिक्रान्ता, परं कुमारो नागात् । अथ तया चिन्तितम् - 'पित्रोर्मिलनायोत्कण्ठितः स मध्ये गतो भविष्यति, ततोऽहमपि पुरमध्यं यामि' । इति विचिन्त्य चलिता प्रतोलीद्वारं प्राप्ता । रक्षपालेनोक्ता - 'भोः कस्त्वं नव्यो वीक्ष्यः ?' । परं किमप्यस्यामनुवाणायां रक्षपालेनेतरैश्च सम्यगालोक्य प्रोचे - 'भो ! महाबलनामाङ्किते अस्य कर्णयोः कुण्डले, तस्यैव च वस्त्राणि, कोऽपि चौरोऽयं तन्मित्रं वा । ततस्तां भूपपार्श्व नीत्वा स्वरूपं च तैः प्रोक्तम् । ततो राज्ञा सूरपालेनापि पृष्टम् । परं तया चिन्तितम् - 'पाश्चात्यमसम्भाव्यं For Private And Personal Use Only गद्यवद्ध श्री मलय सुन्दरी कथा ॥ ।। ३५ ।। Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलय सुन्दरी कथा ॥ ॥ ३६ ॥ XOXOXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथितं न कोऽपि प्रत्येध्यति, अतो मौनतथा स्थेयम् । इति विचिन्त्यासौ मौनेन स्थिता । पुनः पुनः पृच्छयमानावादीत् - 'महाबलो मे मित्रं, तेनाभरणादिकं दत्तम्' । राज्ञोक्तम्- 'तर्हि स क्वास्ति ?' । तयोक्तम्- 'सोऽत्रैन क्वापि स्वेच्छया चरन्नस्ति' । राज्ञा चिन्तितम् -'यदि पुत्रस्य मित्रं भवेत् तदा कोऽप्येनं नोपलक्षयेत् ? । कुमारोयत्रैव पूरे स्थित इत्ययं वदति, परं स तु क्वापि नोपलभ्यते, ततोऽयं न घटते तन्मित्र, परन्तु येन कुमारस्य वस्त्र - कुण्डलादिकं हृतमासीत् स एवायं चौरः । अथवा यो लोभसाराभिधचौरो वटवृक्षे उद्बद्धस्तस्यैव भ्राता सम्बन्धी वा । नूनमेतैरेव मम पुत्रोऽपि हतो घटते' । इति विचिन्त्य तलारक्षेण प्रकटा चिन्तितवार्ता कथापिता । सर्वैरपि कथितम् -'सत्यमेव, अल्पवक्तारथौराः स्युः । राज्ञोक्तम्- 'सोऽयं मे वैरी बहिनवा हन्यताम्' । इति श्रुत्वा मलयसुन्दर्या चिन्तितम् - 'विषमं सङ्कटं पतितं किं करिष्यति !' । सा तदा तमेव श्लोकं स्मर्तु लग्ना, तात्रताऽमात्येनोक्तम्- 'प्रभो ! रूपवान् सरलः कोऽपि नरोऽयं दृश्यते; ततः सम्यग् न ज्ञातः कथं हन्यते ?, ततोऽयं दिव्यं कार्यते, यदि न शुध्यति तदा हन्यते इत्थं कृते जनापवादोऽपि न स्यात्' । राज्ञोक्तम्- ' भव्यम्, तर्हि कार्यते किं दिव्यम् । सर्वैरपि प्रोक्तम्- 'घटसर्पदिव्यं महत्तरम्' । ततो राज्ञा आभरणादिकं लात्वा तलारक्षैर्वेष्टिता धनयक्षस्य गृहं प्रति चालिता । स्वयमपि यावचलति तावता चेटी प्राप्ता प्राह- 'प्रभो! 'देवी कथयति - न हारो न कुमारोऽपि प्राप्तः । पञ्चमं दिनमद्य जातं, ततोऽलम्बाद्रौ गत्वा 'भृगुपातं करिष्यामि' । राज्ञोक्तम्- 'देव्या अग्रे १ राशी २ पर्वतशृङ्गपतनम् । For Private And Personal Use Only ॥ ३६ ॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ॥ ३७ ॥ वं कथय- कोऽपि पुत्रस्य मित्रं शर्वा समेतोऽस्ति, पुत्राभरणादिकं चटितमस्ति, स पुमान् दिव्यं कार्यमाणोऽस्ति, भटा अपि पुत्रवीक्षणाय प्रेषिताः सन्ति, ममापि सदृशमेव दुःखमस्ति, ततस्तस्वरूपवीक्षणं यावत् प्रतीक्षस्व' । राज्ञेत्युक्त्वा कुमाराभरणादिकं दचा चेटी प्रेषिता । सा च देवी प्रति तत्सर्व कथयामास । देवी तच्छत्वा आभरणादिकं च दृष्ट्वा हर्ष-शोकाकूला तत्पुरुषवीक्षणाय सपरिवारा यक्षगृहं प्राप्ता । राजाऽपि प्राप्तः, लोकाश्च मिलिताः। राजा गारुडिका: सर्पग्रहणाय प्रेषिता अलम्बाद्रिमध्याद् महासर्पमानिन्युः । स च घटे क्षिप्तः । मलयसुन्दर्या पुंरुपया स्नानं कृत्वा परमेष्ठिस्मरणं कृत्वा सो निष्काशितः । सर्पो रज्जुमदृशो हृदयाग्रे हस्ते धृतः । तेन सर्पण स्वमुखाद् लक्ष्मीपुअहारो निष्काश्य तत्कण्ठे क्षिप्तः, जिह्वया च तस्या ललाटं स्पृष्ट्वा सा खीरूपा कृता । सर्वेऽपि चमत्कृताः । सर्पस्तस्याः शिरसि फणां कृत्वा स्थितः । राज्ञोक्तम्- नूनं कोऽपि देवोऽयं दानवो वाऽन्यो वा सिद्धः सर्परूपेण खेलति, स्वस्थाने मुच्यताम् । अथ क्षमयित्वा दुग्धं पाययित्वा स पर्वते मोचितः । ततो नृपेण सा स्त्री भाषिता-'वं का?, कुतोऽयं ते हारः ? । तयोक्तम्- 'अहं चन्द्रावतीशवीरधवलस्य सुताऽस्मि, सर्परूपं तु सम्यग न वेनि' ततो राजा देवी भणति- 'एषा कथयति, परं न मन्यते । कथं वीरधवलसुता एकाकिनी समेति ? । यदि कदाचित् तस्य कान्ता भविष्यति तदा कोऽपि पृष्ठत आगमिष्यति; अत एनां लात्वाऽन्तःपरं गच्छ । हारो लब्धोऽस्ति पश्चदिनान्तः, ततो मृत्युकदाग्रहो न कर्तव्यः' । देवी प्राह-'हारेण कि गद्यबद्ध|श्री मलयसुन्दरीकथा ॥ १. मलय सुनहरी । २. पुत्रस्य । For Private And Personal use only Page #39 -------------------------------------------------------------------------- ________________ Achana S wwww.kobatirth.org v Shri Mahavir Jain Aradhana Kendra anen गचवश्री मलय सुन्दरी कथा ॥ करोमि यदि पुत्ररत्नं गतम् ? | राज्ञोक्तम्-'तथापि प्रातर्यावन्न वक्तव्यम् , तावता पुत्रशुद्धिरपि भविष्यति । ततो देवी मलयसुन्दरी सह लात्वा सौधं प्राप्ता । राजापि स्वस्थानमाप । पुत्रवीक्षणपरस्य राज्ञो राश्याश्च महता कष्टेन प्रभातं जातम् । देव्या कथितम्-'पुत्रस्तावन लेभे, अथाई मरिष्ये, मदथै सोऽपि गतः । ततो राज्ञी राजा बहवो लोकाश्च भृगुपातकरणाय पर्वतं प्रति चलिताः । यावत्तत्र गतास्तावता केनापि पुरुषेण शीघ्रमागत्योक्तम-'देव ! स चौर उद्धोऽस्ति तस्मिन्नेव वटे महाबलकुमारोऽपि उल्लम्बितोऽस्ति' । राजा राज्ञी च तच्छ्न्बा 'वत्स वत्स !' इति कुर्वाणौ लोकेन सह धावितौ । तं तादृशावस्थं राजा स्वपुरुषैश्छोटयामास । जलसेचनेन तस्य चेतना बालिता, नेत्रे उन्मीलिते । अथ कुमारः स्वस्थो निविश्य प्रणमन् तातं प्रति प्राह-'तात ! किमिदम् ?' । तेनोक्तम्-'वत्स ! तव किमिदं स्वरूपम् । सोऽवादीत-'तात ! श्रृयताम् । ततः कुमारेण मूलतः सर्वस्वरूपं कथितम् । यदा मलयसुन्दरी कदलीगृहे मुक्ता, रुदितानुसारेण च गतस्तत्कथ्यमानमस्तितदा कुमागे ग्रे गच्छन् स्मशाने योगिनं ददर्श । सोऽपि योगी कुमारं दृष्ट्वा अभ्युत्थानं कृत्वा प्राइ- भो वीरेन्द्र ! मया सर्वापि सामग्री मेलिताऽस्ति, किन्तु त्वं सहायक उत्तरसाधको भव यथा स्वर्णपुरुषः सिध्यति । कुमारेण प्रपन्ने स प्राह-'यत्र तर्हि नारी रोदिति तत्र वटे चौर उल्लग्वितः सल्लक्षणो वर्तते, तमानय ' । ततः कुमारो वटतलं गत्वा तां रुदती स्त्री प्राह- हे भद्रे ! का त्वं रोदिपि ?' । साऽवादी- 'हे सत्पुरुष ! यो वटे बद्धो दृश्यते स चौरो मे भर्ता । अहमपि प्रातरेव अद्य मिलिता, परं महान् स्नेहोऽभूत् । एष च ॥ ३८ ॥ For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir अहम्तृतीययामे तलारक्षः कापि लब्धः, राज्ञा च घातितः । अहं स्नेहेनागताऽस्मि, जाने अस्य मुखं चन्दनेन विलिम्पामि । परम् एनं प्राप्तुं न शक्नोमि, ततो रोदिमि' । कुमारेणोक्तम् - तर्हि मम स्कन्धमारुह्य वाञ्छितं कुरु' । ततः सा तस्य स्कन्धमारूढा शवमुखं मुखेन प्रष्टुं लग्ना, तदा शवेन तस्या नासिका मुखेन गृहीता । तस्याः सीत्कारं कुर्वत्या इतस्ततो मुखं कुर्वत्या नासा त्रुटिता, अग्रभागः शवमुखे स्थितः । अथ कुमारस्य तत्पश्यतो हास्यमागतं, तदा शवेनोक्तम्-'हे ! हास्यं मा कुरु, त्वमप्यत्रैव वटे उल्लम्बयिष्यसि' । अस्मिन्नवसरे राज्ञोक्तम्-'वत्स ! शवः कथं वक्ति ? । तेनोक्तम्-'तात ! कोऽपि व्यन्तरो वक्ति' । ततः 'स भीत: स्थितः । साऽपि तस्य स्कन्धादुत्तीर्णा पप्रच्छ-'कस्त्वम् ? व वससि ? । कुमारेण स्वस्वरूपे प्रोक्ते सापि प्राह-नासायां रूढायां सत्याम् अहं ते मिलिष्यामि, चौरहृतं च सर्व दास्यामि' । ततः सा गता । कुमारी वटोपरि चटित्वा शवबन्धान् छोटयित्वा, तत्केशान् गृहीत्वा, उत्तीर्य, शवं स्कन्धे कृत्वा योगिनः पार्श्वे मुमोच । ततो योगी शवं स्नपयित्वा, चन्दनद्रवैश्वचित्वा, अग्निकुण्डसमीपे मण्डलं स्थापयित्वा मंत्रं सस्मार। शव उल्ललति, परं वह्निकुण्डे न पतति । एवं रारतिक्रमे शवोऽट्टाहासं मुश्चस्तत्रैव वटे गतः । योगिनोक्तम्- "किमपि मे स्खलनमागतं, ततः कार्य न सिद्धम् । पुनरागामिन्यां रात्रौ साधयिष्यते । परं यदि दिने कोऽपि त्वां मम पार्श्वे द्रक्ष्यति तदा स चिन्तयिष्यति-योगी राजकुमारं विप्रतार्य याति'।। गद्यबद| श्री मलय. सुन्दरीकथा ॥ १. कुमारः For Private And Personal use only Page #41 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir गद्यपद्धश्री मलयसुन्दरी कथा ॥ ॥ १० ॥ गजापि ज्ञास्यति तदाऽनों भविता । अतो यदि त्वं कथयसि तदा ते रूपपरावर्त करोमि " कुमारेण हार मुखे क्षिप्त्वा कथिते सति योगिना किमप्यौषधं घृष्ट्वा भाले तिलकं कृतम् । कुमारः सर्पो जातः, अलम्बाद्रिगुहायां योगिना मुक्तः, स्वयं च स्वकार्ये प्रवृत्तः । ततः सर्पः सर्पधरेगेंहीत्वा घटे क्षिप्त्वा यक्षालयं नीतः । दिध्ये क्रियमाणे निजप्रियामुपलक्ष्य हारो मुखानिष्काश्य तत्कण्ठे क्षिप्तः, भालं च स्पृष्ट्वा स्त्रीरूपा कृता, गारुडिकैः सर्पश्च स्थाने मुक्तः । रात्रिमुखेऽर्कक्षीरेण ललाटं घृष्ट्वा कुमारो योगिना पुरुषरूपः कृतः । ततस्तौ श्मशानं गतौ । कुमारेण मृतकमानीतं, योगिना स्वपितं, चर्चितं, मण्डले च स्थापितम् । अग्निकुण्डं ज्वालयित्वा मन्त्रं स्मर्तु लग्नः । शवः पुनसल्ललति, पतति च । एवमर्धरात्रिर्जाता तावता आकाशे डमरुशब्दा जाताः । तदा कापि देवता समेता पाह-रे ! कुशुद्धं मृतकं, स्वर्णपुरुषो न सिध्यति' । इत्युक्त्वा तया कुपितया योगी वह्निकुण्डे क्षिप्तः । शवो बटमेव गतः । 'एनं सुरूपं को हन्ति ?' इति बदन्त्या देवतया नागपाशेन हस्तौ बदबा कुमारो वटे उल्लम्बितः । कुमारेण सर्पपृच्छं दन्तैश्चर्वितम् । सर्पो बन्धाद् उच्चलितो गतः, परं बाहुस्थितौषधप्रभावाद् विषं न चटितम् । अग्रे च तत्स्वरूपं ज्ञातमेव । एवंविधं स्वरूपं कुमारेणोक्तं श्रुत्वा राजा लोकाश्च प्राहुः-अहो ! श्रृण्वतामपि भयं जायते, कुमारेण कथमनुभृतम् ?' । एके प्राहुः- मृतकं किमशुद्धं कथितम् ?' । राज्ञोक्तम्-' यत् स्त्रीनासाग्रं तन्मुखे स्थितं सैव अशुद्धता घटते' । पुरुषैतकं धीक्षित, ॥४०॥ १. कुमारः ।। O For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ San Aradhana www.kobatirth.org Atharv a ssadasnya ॥ ४२ ॥ 2 तथैव दृष्टम् । ततः कुमारेण मन्त्रसाधनस्थानं दर्शितम् , तत्र वह्निकुण्डे योगी स्वर्णपुरुषो दृष्टः, राज्ञा गृहीतः । अथ राजा मलयसुन्दरीसहितं स्वपुत्रं सह गृहीत्वा महोत्सवेन स्वसौध प्राप्तः । दश दिनानि महोत्सवा जाताः । मलयकेतुरपि भगिनीं भगिनीपतिं च शोधयन् तत्र समेत्य भूपं नत्वा निविष्टः । पृष्टः सन् आगमनकारणं प्राह । राज्ञा स्वरूपे प्रोक्ते प्रमुदितो भगिन्या महाबलस्य च मिलितः। परस्परं वार्तालापो जातः। कियन्ति दिनानि सगौरवं स्थित्वा कथश्चित् सर्वान अनुज्ञाप्य मलयकेतुश्चलितश्चन्द्रावतीं पुरीं प्राप । तत्र स्वरूपे प्रोक्ते सर्वः कोऽपि प्रमुदितः । पृथ्वीस्थानपुरे महावलस्य मलयसुन्दर्या सह क्रीडतः सतः सुखेन कालोऽतिचक्राम । अन्यदा महाबलो मलयसुन्दरी च गवाक्षनिविष्टौ स्वगृहद्वारागतां तां छिन्ननासिकां ददृशतुः । तां दृष्ट्वा सम्यगुपलक्ष्य च प्रिया प्रियं प्रति प्राह-'प्राणेश ! एषा ममापरमाता कनकवती' । कुमारेणोक्तम्'यस्या रुदितं श्रुत्वा त्वां कदलीगृहे मुक्त्वा चलितोऽहं सैवेयम् , ततोऽहं स्वरूपं पृच्छामि । प्रिययोक्तम्'अहं तवादेशाद् जवनिकान्तरिता शृणोमि' । ततः कुमारेण तस्याम् 'अपटयन्तरे स्थापितायां प्रतीहारनिवेदिता सा छिन्ननासा समेता, आशिषं च दचा निविष्टा । स प्राह-'कथ्यतां स्वस्वरूपम् ' । साऽवक-' श्रूयतां, चन्द्रावतीशवीरधवलस्याहं भार्या कनकवती । केनाप्येवमेव नृपमनसि कोपोऽभूत् , अहं नष्टा, मगधावेश्यागृहं प्रविष्टा । तत्र केनापि घुर्तेन भट्टारिकागृहं सङ्केतस्थानमानीता । तत्र तेनोक्तम्-'अत्र चौराः सन्ति ' इति । गद्यबद्धश्री मलयसुन्दरीकथा ॥ १. जवनीकान्तः । For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shn Ma Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuti Gyanmandir गद्यबस्श्री मलयसुन्दरीकथा ॥ ॥ ४२ ॥ ततोऽहं भयभीता मञ्जूषायां क्षिप्ता, मम पाल्लिक्ष्मीपमहारं दुकूलानि चाऽग्रहीत् । तालकं दत्त्वा तेनान्यः कोऽपि धूर्त आहूतः, ततस्ताभ्यां मञ्जूषोत्पाट्य नद्यां प्रवाहिता । सा प्रातरत्र ते पुरे प्राप्ता, लोभसारेण चौरेण सा दृष्टा निष्काशिता च । तालकमुद्घाटितं तेन, अहं दृष्टा, अलम्बाद्रिगुहायां गुप्तगृहे च नीता । तत्र तेन स्तोकवेलया महान् स्नेहो दर्शितः । ततः स चौरस्तृतीययामे पुरमध्यं प्राप्तः, तलारक्षरुपलक्ष्य गृहीतः, सायं निपातितः । वटे चोल्लम्बितो मया शैलश्रृङ्गस्थया दृष्टः । स्नेहप्रेरिता चाई तत्रागता पश्यन्ती रोदितुं प्रवृत्ता । अग्रे वार्ता त्वं जानासि । अथागम्यतां यथा चौरस्थानं दर्शयामि" । ततः कुमारस्तां सह गृहीत्वा पितुः पार्श्व गतः । सा वार्ता ज्ञापिता । राज्ञा तत्कथिते स्थाने गत्वा यस्य यद्वस्तु तस्य तदर्षितं, शेष स्वकोशे क्षिप्तम् । तस्या निवासाय राजकुलासन्नं गृहं दापितम् । सा कुमारावासं पुनरागता । तत्र मलयसुन्दरी हारभूषितां दृष्ट्वा 'कुतोऽसौ वैरिणी प्राप्ता ?, कूपे पतिता कथं जीविता ?, कथमनेन परिणीता ?, कथमस्या हारवटितः ?, याम्यां वाऽहं प्रवाहिता तावपि एतावेव किम् ? । इति चिन्तयन्ती मलयसुन्दर्या भाषिता-' मातः ! अनभ्रा वृष्टिः :, कुतस्ते समागमः ?, कथं युष्मन्नासाया इयमीदृशी दुष्टावस्था ? | कुमारेणोक्तम्-'अलं प्रश्नेन, सर्व कथयिष्याम्यहम् ' । ततः सा तेन शून्यगृहे स्थापिता । ‘अहमीदृशी !, वैरिणी च सुखं भुङ्क्ते, भविष्यति च कापि वेला' इति चिन्तयन्ती मलयसुन्दरीसमीपे नित्यं याति । एका ऋजुर्द्वितीया चक्रा, तया सा विश्वासवती कृता । ॥ ४२ ॥ For Private And Personal use only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra wwww.kobatirth.org Acharya Shinkalassagarsuti Gyanmand ॥ १३ ॥ अथ तस्या मलयसुन्दर्या गर्भसम्भवोऽभूत् । कुमारेण दोहदेषु पूर्यमाणेषु दिनेषु गच्छत्सु राज्ञा कुमार आदिष्टः-' हे वत्स ! करनामा भिल्लः स्वदेशं क्लेशयति । त्वं सैन्येन गत्वा तं जित्वा समागच्छ' । स राजादेशं मान्यं कृत्वा आगत्य प्रियां प्रति प्राह । साऽवादीत्-' नाथ ! अहमपि सहागमिष्यामि'। तेनोक्तम्-'साम्प्रतं ते स्थानचालको न युक्तः, अतोऽत्रैव तिष्ठ । वस्नेहप्रेरितः शीघ्रमागमिष्यामि' । इति कथञ्चिदनुज्ञाप्य भालतिलकगुटिकां तस्यै दवा ससैन्यश्चलितः । सा दिशां पश्यन्ती गृहे स्थिता । कनकवती समेत्य तो वार्ता विनोदैदिनं गमयामास । तयोक्तम्-'मातः ! त्वं रात्रावपि अत्रैव तिष्ठ, येन रात्रि वार्ताभिः सुखेन मेऽतिक्रामति' । तस्या वाञ्छितमेव जातम् । सा प्रपद्य रात्रौ तत्पार्श्वे सुष्वाप । अन्येद्युः प्राह-" हे वत्से ! रात्रौ कापि राक्षसी समेति, यदि त्वं कथयेस्तदाऽहमपि तादृग् भूत्वा तां तर्जयामि यथा पुन याति । इत्यपि किं न श्रूयते-रक्खसाण वि भेस ?" । ततस्तया मुग्धया प्रोक्तम्-' मातः ! यथा रम्यं तथा कुर्याः' । तत्रावसरे पुरमध्ये मायुपद्रवं ज्ञात्वा सा दुष्टा प्रतीहारनिवेदिता राज्ञः पार्श्व प्राप्तापाह-'प्रभो ! यद्यवसगे वतते तदा किमपि हितं वच्मि' । राज्ञा विजने पृष्टा-'किं हितम् ? । तयोक्तम्- 'देव ! मलयसुन्दरी युष्मद्वधर्मारिर्जाता लोकान् हन्ति, न चेत् प्रत्ययस्तदा रात्रौ भवद्भिर्वीक्ष्यम् । यदि सा राक्षसीरूपेण स्वगृहाङ्गणे विवस्त्रा फेत्कारान् मुञ्चन्ती दृश्यते तदा सत्यं, नो चेन्न । तच्छुद्ध्या सा गद्यश्वद्ध|श्री मलयसुन्दरी कथा ॥ | ॥४३॥ १. राक्षसानामपि भेषजम् । For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गचबद्धश्री मलयसुन्दरी कथा ॥ ॥ ४४॥ प्रभाते निग्राह्या, रात्रौ निगृह्यमाणा कदाचिच्छलति' । राज्ञोक्तम्-' त्वया न कस्यापि कथ्यम् ' । तयोक्तम'देव ! अहं किम् अज्ञानाऽस्मि ?' । ततः सा विसृष्टा गता। राक्षसीरूपसामग्री कृत्वा मलयसुन्दरीपार्श्वे रात्रौ गत्वा क्षणं विश्रम्योवाच-' हे वत्से ! राक्षसी समेताऽस्ति, तस्या निर्माशाय गच्छामि' । इन्युक्त्वा सा बहिर्गत्वा वर्णकचित्रितं राक्षसीरूपं कृत्वा विवस्वा मुखे ज्वलद् उल्मकं धृत्वा फेत्कारान मुञ्चन्ती बभ्राम । राजा प्रत्यासन्नवतिगृहोपरि स्थितस्तत्स्वरूपं दृष्ट्वा प्रत्ययमापन्नो रोषाद् भटान् बभाषे-'भो भो भटा ! एनां मलयसुन्दरीं राक्षसी निगृह्णीत, रौद्राटवीं च मीत्वा विनाशयत यथा न कोऽपि वेसि' । ततो राज्ञादिष्टा भटा धाविताः । तान् दृष्ट्वा सा दुष्टा नष्टा, गृहमध्यं च प्रविष्टा कम्पमाना मलषसुन्दरी प्रति प्राह-'हे वत्से ! अहं राजादेशं विना तव पार्वे सुप्ता, अतो राजभटा मां हन्तुमायान्ति । किमपि गुप्तस्थानं दर्शय यथा तत्र प्रविशामि' । तया मजपा दर्शिता । सा तादृपैव मध्ये प्रविष्टा, तालकं च दापितम् । अथ राजपुरुषा धावन्तो गृहमध्यमागतां मलयसुन्दरीमेव दृष्ट्वाऽचिन्तयन्-'अहो ! अनया रूपं परावर्तितम् !' 'अथ लोकान् कथं हनिष्यसि ?' इति वदन्तस्तां बलादाकृष्य बहिनीत्वा स्थम् अध्यारोप्य रात्रावेव रौद्राटवीमध्ये मुक्त्वा वलिताः । प्रभाते राज्ञो मिलिताः । 'कार्य कृतमस्ति' इति प्रोक्तम् । राजा दृष्टः । प्रोक्तं च-सा छिन्ननासा हितकारिणी वीक्ष्यताम् । सा वीक्षिताऽपि न लब्धा । राज्ञा वधगृहे तालकानि दापितानि । १. हिगुल घृष्टचन्द नादिविलेपनद्रव्यं वर्णकम् । २. अङ्गारम् । For Private And Personal use only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir अथ कियत्सु दिनेषु महाबलो भिल्लं जित्वा प्राप्तः । पितरं नत्वा स्वगृहं प्रति गच्छन् पित्रा चाहौ धृत्वा मलयसुन्दरीस्वरूपं बभाषे । तच्छुत्वा वज्राहत इवाऽत्यन्तदुःखी असम्भाव्यं तच्चिन्तयंस्तं पाह-' हे तात ! धातुविपर्यासः किं तेऽभूत् ? । यद्यपि सा तादृशी दृष्टा, तथापि ममागमं यावत् कथं न प्रतीक्षितम् ? तात ! या स्त्री छिन्ननासा भूरिकूटानां निधिस्तन्मूलमहं पुरापि वेनि । सैव दर्यतां यथाऽहं तां पृच्छामि' रानोक्तम्-'सा तु न लभ्यते ' ततः कुमारो निःश्वसनिजगृहमागात् । पुत्रवत्सलो राजाऽपि तत्पृष्ठतः समेत्य प्राह-वत्स ! वधू रात्रौ राक्षसीरूपेण भ्रमन्ती मया दृष्टा, तत ईदृशं दण्डं कुर्वतो न मे कश्चिद्दोषः, यत इष्टाऽपि विनष्टा भुजा च्छिद्यते । तत् कुमार ! मा ताम्य, स्वस्थं मनः कृत्वा स्वं गेहसारं साम्प्रतं पश्य' । इति वदन सपरिच्छदो राजा पुत्रेण तालकान्युद्घाटयामास । एवं कुर्वता मञ्जूषाया अपि तालकमुद्घाटितम् । तत्र सा पापिष्ठा विवस्त्रा राक्षसीरूपा मुत्कलकेशा कतिकाधारिणी बुभुक्षाक्षामा दृष्टा । सर्वेऽपि भीता इव जाताः । कुमारेणोक्तम-'तात! दुष्टयाऽनया राक्षसीरूपं कृत्वा तव चित्ते प्रत्ययमुत्पाद्य सा निष्काशिता'। ततः सा दुष्टा मातो निष्काश्य गाढं ताडिता सती सर्व स्वकृतचेष्टितं प्राह । राज्ञा सा खरमारोप्य पुरे भ्रमयित्वा स्वदेशानिगमिता । कुमारः प्रियाविरहाच्चतुर्विधाहारं त्यक्त्वा मर्तु कामो मौनेनाऽस्थात् । राजा राज्ञी चाऽपि तेन मर्तुकामौ गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #47 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गधबद्धश्री मलयसुन्दरीकथा ॥ जातो, तज्ज्ञात्वा पौरा अपि राज्यविनाशचिन्तया व्याकुला जाताः । अस्मिन्नवसरे पुस्तकहस्तः कोऽपि नैमित्तिक: सभी प्राप्तः । राज्ञा सादरं वधस्वरूपं पृष्टः प्राह-सा जीवन्त्यस्ति, वर्षप्रान्ते कुमारस्य मीलिष्यति' इति श्रुत्व सर्वेऽपि समुज्जीविता इव परां प्रीति प्रापुः । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिकृतायां मलयसुन्दरोकथायां मलयसुन्दरीश्वशुरकुलसमागम-राक्षसीकलङ्कपरित्यागवर्णनो नाम तृतीय उल्लासः । For Private And Personal use only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir अथ चतुर्थ उल्लासः ॥ अथ राजा भृत्यानाहूय प्रोचे-'भो ! भवद्भिव, गृहीत्वाऽटव्यां किं कृतम् ? तैरुक्तम्-'सा तत्र मुक्ता सती दीना कम्पमाना जाता, ततोऽस्माभिः स्त्रीहत्या न कृता, तत्र जीवन्त्येव मुक्ता। गज्ञा प्रीत्योक्तम्'भव्या मो! भवन्तः, भव्यं कृतं भवद्भिः । इत्युक्त्वा ते सम्मान्य प्रहिताः । कुमारेणोक्तम्-'भृत्या अटव्यां प्रेष्यन्ते, तस्या मातापित्रोश्च ज्ञाप्यते' । राज्ञा तथा कृतम् । ततः सर्वैरपि बलात् कुमारो भोजितः, पश्चात् सर्वैरपि भुक्तम् । ततो भृत्यैरागत्य प्रोक्तम्-'देव ! सर्वत्राटवी शोधिता, परं सा न लब्धा' । कुमारस्तज्ज्ञात्वा तद्विरहातुरो रात्री खड्गयुक्तोऽचलत् । राज्ञाऽपि कुत्रचित् तमपश्यता ज्ञातम्-'पुत्रो वधूशोधनाय गतो घटते'। ___ अथ मलयसुन्दरीस्वरूप कथ्यते-उदा सा तैभेटैस्तत्र मुक्ता । ते च गताः । साऽचिन्तयत्-'मया किमपि नापराद्धं, कथमयं श्वशुरः कुपितः ?, कर्मण एव वा विपाकोऽयम्' । इति चिन्तयन्ती, रौद्राटव्यां घूक-शिवाफेत्कारान् शृण्वती, दुःखपूरिता 'हा प्राणनाथ ! हा तात ! हा मातः हा भ्रातः!' इति विलापान् विलपन्ती, इतस्ततो भ्रमन्ती पुत्रं सुषुवे । सा विशालभालं बालं दृष्ट्वा हर्ष-शोकाकुलाऽवादीत-'हा वत्स ! वजन्ममहोत्सवमनो गद्यबद्धश्री मलयसुन्दरीकथा ।। ॥४७॥ For Private And Personal use only Page #49 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ ४८ ॥ स्था देवेन हताः, मन्दभाग्याऽहं कि कुर्वे ? | प्रात: सा नद्यां स्नात्वा बल्लीगृहे बालं लालयन्ती तस्थौ । तदा तत्र कोऽपि सार्थः समेतः सरित्तीरे समुत्तीर्णः । सार्थपः शरीरचिन्तया तत्रागतस्तां दिव्यरूपां वीक्ष्य प्रोचे-'बाले ! का त्वम् ?' सा नाऽवादीत् । पुन: स जगौ-'अहं सागरतिलकनाग्नि नगरे बलसाराभिधो व्यवहारी वसामि । द्रव्यार्जनायान्यत्र गतोऽभवम् , अधुना स्वस्थानं वजन्नस्मि । त्वमेकाकिनी बने किं करोषि ! | सार्थमध्ये समेत्य मत्पार्श्वे सुखं तिष्ठ' । सा तं सरागं विचिन्त्य कूटमुत्तरं चक्रे-'भो महाभाग! अहं चाण्डाली क्षणं रुष्टाऽवागताऽस्मि पुनर्विरहातुरयोर्माता-पित्रोमिलिष्यामि । तेनोक्तम्-'मा कूटमुत्तरं कुरु, आगच्छ' । इति वदन् तदुत्सङ्गात् तं बालं बलाद् गृहीत्वा चलितः । सा वत्सस्य धेनुखि तस्य पृष्ठे लग्ना सार्थेशस्थानं ययौ । सा स्थापिता ससुता । 'पाश्चालम्स्त्रीषु मार्दवम्' इति नीतिवाक्यात् तेन दास्येका प्रोक्ता-'एषा यद्यत् कथयेत् तत्तत् कर्तव्यम् । अथ निर्विलम्बप्रयाणकैः स स्वपूरं प्राप। तत्र तां क्वापि गुप्तवेश्मनि स्थापयित्वा एकान्ते पाह-'यदि हण मदुक्तं मन्यसे तदा त्वां सर्वस्वामिनी करोमि । तयोक्तम्-'बहु न वाच्यं, वरं जिह्वां खण्डयित्वा प्रिये परं ते वाक्यं न मन्ये' ततम्तेन रुष्टेन तत्पुत्रो गृहीत्वा निजप्रियायै समर्पितः । कथितं च-'मयाऽशोकवनिकायां गतेन लब्धोऽयं बालः पालनीयः । अपुत्रयोरावयोरेष पुत्रः । ततो महोत्सवं कृत्वा 'बल' इति नाम दत्तम् । कतिचिदिनानन्तरं श्रेष्ठी मलयसुन्दरीं सह गृहीत्वा प्रवहणेऽचलत् । सा पुत्रदुःखेन रूदती न भुङ्क्ते । तेनोक्तम्-'किं न भुक्षे? तयोक्तम्-'मम पुत्रशुद्धि कथय' । तेनोक्तम्-'मदुक्तं कुरु यथा कथयामि' । सा मौनं कृत्वा स्थिता । श्रेष्ठी बर्बरकूलं गतः । तेन ॥ ४८ ॥ For Private And Personal use only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir तत्र सा बहुद्रव्येण विक्रीता। तत्रापि कलत्रभावैः प्रार्थिता नाऽमंस्त । ततस्तैौकस्तस्याः शरीरं तक्षित्वा रुधिरं निष्काश्य कृमिरागवस्त्राणि रज्यन्ते । पुनः पोष्यते तक्ष्यते च । एवमन्यदा सर्वाङ्गं तक्षिता रुधिरलिया मृच्छिता भूमौ पतिता । तदेकेन भारण्डेन आमिषवाञ्छया उत्पाटिता । स भारण्डः समुद्रोपरि गतोऽन्येन भारण्डेन रुद्धो योद्धं लग्नः । सा तन्मुखात् समुद्रे गजाकारमत्स्योपरि पतिता सती नमस्कारं पठति स्म । 'धिक कर्मगतिम् !' इति चिन्तयन्ती तेन मत्स्येन ग्रीवां वालयित्वा विलोकिता । ततः स मत्स्यस्तां भव्ययुक्त्या पृष्ठे वहन तटा. मिमुखं यातः । कस्यापि पुरस्य प्रत्यासन्नतटे पृष्ठादत्तार्य वलितग्रीवस्तां पश्यन् समुद्रान्तर्गतः । तस्मिन्नवसरे तटपुराधिपति: क्रीडार्थ तत्रागतस्तन्मत्स्यादिस्वरूपं दृष्ट्वा विस्मितस्तां बभाषे-'हे सुन्दरी ! का त्वं?, कथं मीनेनात्र सस्नेहतया मुक्ताऽसि ? । इदं सागरतिलकाख्यं वेलाकलं नगरम् , तस्याऽधिपोऽहं कन्दर्पनामा, तत वं विश्वस्ता सर्व कथय । इति श्रुत्वा तया चिन्तितम्- 'जागति ममाऽद्यापि कोऽपि पुण्यलयः, यतो यत्र मे पुत्रस्तत्रैव स्थाने प्राप्ताऽस्ति, कदाचित सोऽपि मिलेत् । परम् एष राजा मम पितृ-श्वशुरयोवैरी वर्तते, यद्यस्य सत्यं वक्ष्यामि तदा मां कदर्थयिष्यति, पुत्रमपि लास्यति । इति विचिन्त्य निःश्वसत्या तयोक्तम्-'कि पृच्छयते ?, अहं पुण्यहीना यत्र तत्र दुःखं सहमानाऽस्मि' । लोकेरुक्तम्- 'देव ! दुःखपूरिताऽधुना वक्तुं न शक्नोति, ततः किं पृच्छयते ? ' राज्ञोक्तम्- तथापि भद्रे ! स्वनाम बद' । तया मन्दमुक्तं ' मलयसुन्दरी' इति । राज्ञा सा स्वपुरुषैगृहे प्रेषिता । दासीमिः शुश्रूष्यमाणा सजशरीराऽभूत् । ततो राकान्ते सा कलत्रभावाय गद्यबदश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलय सुन्दरी कथा || ।। ५० ।। www.kobatirth.org भाषिता, परं सर्वथा न मन्यते, राज्ञः सम्मुखं प्रबोधं दत्ते, स च न बुध्यते । अथ राजा तस्याश्चित्तप्रसत्यर्थ स्वस्यार्थे यद् यद् रम्यं तत् तत् तस्यै प्रेषयति स्म । Acharya Shri Kailassagarsuri Gyanmandir अन्यदा स्नानस्थितस्य नृपस्याङ्के पक्वम् आम्रफलं पतितम् । तद् दृष्ट्वा नृपोऽचिन्तयत् - 'साम्प्रतं फाल्गुनमासि कुतः फलमिदम् ?, ज्ञातं वा, पुरप्रत्यासन्ने छिन्नटङ्कगिरौ सदाफलः सहकारोऽस्ति, तत्फलं सुकेन गृहीतं भारात् पतितं घटते' । राज्ञा रम्यमिति तत्फलं मलयसुन्दर्यै प्रहितम् । भृत्यानां च कथितम् —' फलमर्पयित्वाऽन्तःपुरे समानीय स्थाप्या' । मलयसुन्दरी तत्फलं दृष्ट्वा 'अहो ! पूर्वपुण्यैः ढौकितमिदम्' इत्यचिन्तयत् तैश्व नरैः सा अन्तःपुरे मुक्ता, राज्ञे ज्ञापितं च । 'नूनं राजा बलादपि मे शीलरत्नं हरिष्यति' इति ध्यात्वा शीर्षाद् गुटिकामाकृष्य आम्ररसेन घृष्ट्वा भाले तिलकं चकार तदा सा दिव्यरूपः पुरुषो जातः । तं दृष्ट्वा ऽन्तःपुरं सर्वं विस्मितम् —– 'देवो विद्याधरो वाऽयम् !' प्राहरिका अपि तं दृष्ट्वा राज्ञोऽग्रे प्रोचुः । राजापि तत्रागतस्तं दृष्ट्वाऽपृच्छत्— 'कस्वं कीदृकू ? । तेनोक्तम् - स्वयमेव पश्यन्नसि यादृशोऽस्मि । राज्ञोक्तम् — 'भो ! या स्त्री मुक्तासीत् सा क्वास्ति ? ' रक्षकैरुक्तम्- 'देव ! सा बहिर्न क्वाऽपि गताऽस्ति !' राज्ञा चिन्तितम् - सैवेयं पुरुषरूपं कृत्वा स्थिता घटते' । तत उक्तम्- 'भो ! ज्ञातमस्य स्वरूपम् । बाह्यावासे स्थापयित्वा बाढ रक्षणीयः ततः स तत्रानीय घृतः । राज्ञा नित्यं तत्रागत्य स पृच्छयते - ' मोः ! त्वया कि स्त्रीरूपं हित्वा पुंरूपं कृतम् ?, कथं च स्त्रीरूपं भविष्यति ?' । परं स किञ्चिद् नोवाच धर्मध्यानपर एव तिष्ठति । ततो For Private And Personal Use Only ।। ५० ।। Page #52 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir राजा कोपतस्तं विविधताडनैः कुट्टयति । अथैकदा सोऽचिन्तयत्-'अत्र जीविताद् मरणं वरम् ' इति ध्यात्वा रक्षकेषु सुप्तेषु सत्सु ततो निर्ययो । बहिर्देश्यकुड्यां स्थित्वा प्रत्यासन्नेऽल्पजलाभिधे कूपे पतनाय चलितः । तस्य कण्ठे निविश्य प्राह-रे देव ! यदि त्वया इह जन्मनि तादृशेऽपि कुलेऽवतारं दवा व्यर्थ जन्म कृतम् , तादृशेन च महाबलेन प्रियेण सह वियोगश्च दत्तः, तथापि आगामिनि भवे प्रसन्नीभ्य तेन प्रियेण सह सङ्गमं देयाः' । इत्युक्त्वा यावत् स सजो भवति ताबद् महाबल एव पृथ्व्यां भ्रमन् देवयोगात्तस्यामेव देश्यकुड्यां निद्रामप्राप्तस्तदुक्तं सर्व श्रुत्वा दधावे। 'मा मा' इति जल्पन यावद् आगतस्तावत् सहमा पपात, कूपमध्ये पतितेन महाबलेनोक्तम्भोः कस्त्वम् ?' तेनापि महाबलस्वरमुपलक्ष्य प्रोक्तम्-'भोः ! पूर्व मे भालं स्वनिष्ठयूतेन मर्दय' । तेन मर्दिते स पुंरूपं त्यक्त्वा मलयसुन्दरी जाता । तावता कूपभित्तिस्थसर्पण मुखं बहिष्कृतम् । तस्य शीर्षमणिना प्रद्योते कृते महाबलः स्वप्रियां दृष्ट्वा परां प्रीति प्राप्तो बभाषे-'हे प्रिये ! किमिदम् ?' | साऽपि रुदती सर्वमनुभूतं प्राह । 'धिग् देवम् !' इति वदन सोऽपि स्वस्वरूपं प्रोचे । तो वार्तालापपरौ रात्रौ तत्र सुखं तस्थतुः । प्रभाते जाते कन्दो राजा तां नष्टां श्रुत्वा पादानुसारेण धावन् कूपकण्ठमुपेत्य तो मध्ये दृष्ट्वा प्रोचे-'भोः! | कौ युवाम् ?' । महाबलेनोक्तम्- 'अहं मद्दयिता चेयम् ' । राज्ञोक्तम्-' निष्काशयामि' । तेन 'निष्काशय' इत्युक्ते प्रिया तं प्रति प्राह- 'प्राणेश ! सोऽयं कन्दर्पो राजा येनाहं बाढं सन्तापिताऽस्मि । एष मयि लुब्धोऽस्ति । बहिर्निर्गमे त्वां हनिष्यति' । तेनोक्तम्-'मा भैपीः, बहिर्निर्गतो भव्यां शिक्षा दास्ये , गद्यबद्ध| श्री मलयसुन्दरीकथा ।। For Private And Personal use only Page #53 -------------------------------------------------------------------------- ________________ Sh Mavi Aradhana Kendra wwww.kobatirth.org Acharya Shin Kailassagarsuti Gyanmandir गद्यपद्धश्री मलयसुन्दरी कथा | ततो राज्ञा रअत्रद्धे मश्चिके मध्ये क्षिप्ते । तावारुह्योपरि प्राप्तौ । राज्ञा मलयसुन्दरी बहिनीत्वा छुरिकया रखं छिचा मश्चिकास्थमेव कुमारं कूपान्तः पातयामास । रुदती मलयसुन्दरी कृपझम्पां ददती निरुध्य गृहीत्वा क्वापि गृहे स्थापयित्वा राजा स्वभवने ययौ । सा यामिकै रक्ष्यमाणा भूमौ लुठन्ती सर्पण दष्टा । 'अहं दष्टाऽस्मि' इति तस्यां वदन्त्यां यामिकैः स सर्पो दष्ट्वा हतः । साऽपि नमस्कार स्मरन्ती कृताराधनाऽस्थात् । राजापि तज्ज्ञात्वाऽत्याकुलः समेत्य विषप्रतीकारांश्चक्रे । तेषु क्रियमाणेष्वपि सा मूछा गता श्वासमात्राऽभूत् । एवं राव्यतिक्रमे जाते प्रभाते राज्ञा पटहो दापितः-'यो बाला सजीकरोति तस्मै राजा रणरङ्गनामानं गजं देशं कन्यां च दत्ते । स पटह एकेन पुसा स्पृष्टः । स च राज्ञः पार्श्व नीत: । राजा तमुपलक्ष्य अचिन्तयत्-‘स एवायम् अस्याः प्रियः, केनायं कूपात् कृष्ट: ।। इति चिन्तयन् आकारसंबरं कृत्वा प्रोचे-'भो ! इमां सां कुरु, यदुक्तमस्ति तद् दास्ये' । तेनोक्तम्-'वैदेशिकोऽहं, मत्प्रियाम् इमामेव देहि, परेणाऽलम्' । राज्ञोक्तम् भव्यम् , एवमस्तु परं केचिद् मदादेशास्त्वया साध्याः' । तेन प्रपन्नम् । राजा तं गृहीत्वा मलवसुन्दरीपार्श्व गतः। स कुमारस्तत्र निर्जनं कृत्वा, पवित्रभूमि विधाप्य, पानीयमानाय्य, कटिपट्टकात् सर्पमणिमादाय, जलेन मालयित्वा, तेनैव अलेन तां सिक्त्वा सचेतनां कृत्वोत्थापयामास । सापि प्रियं वीक्ष्य प्रीत्या पोचे-'हे प्राणेश ! कथं कूशानिर्गतः ? । सोऽवादीत्-"शृणु, अझ कूपान्तः पतितो दिशोऽवलोठयन् शिलाच्छन्नं द्वारमेकं दृष्ट्वा पादप्रहारेण शिलां दूरीकृत्य मध्ये प्रविष्टः सुरङ्गया चलितः । तेनैव सणाग्रे भूत्वा गच्छता मणितेजसान्धकारोऽपि दूरीकृतः । कियत्यपि मार्गे ॥५२॥ For Private And Personal use only Page #54 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir विद्यमाने सर्पो नष्टः । मया चाग्रे आस्फालितेन सता हस्तेन द्वारमुद्घाटितम् । निर्गतश्चाहम् । मया चिन्तितम् । 'चौरसुरङ्गेयं घटते, परं चौरो मृतः'। पुनर गच्छता स एव सों मया कुण्डलं कृत्वा निविष्टो दृष्टः । मन्त्रेण वशीकृत्य मणि गृहीत्वा ततोऽहं तव स्नेहात पुरं प्राप्तः । पटई दीयमानं दृष्ट्वा स्पृष्ट्वा च प्राप्तोऽस्मि । सर्पमणिना त्वं सजिताऽसि" । इति वार्ता कृत्वा तेनाहूतः सपरिजनो राजा तत्र तां सजां दृष्ट्वा हृष्टः। उपविष्ट: सन् समाचष्ट-भोः ! कि ते नाम ?' । इत्युक्त तेनोक्तम्-'सिद्ध इति मे नाम' । ततः सिद्धेनोक्तम्-'प्रियां गृहीत्वा अथ स्वस्थानं यामि' । राजा शृणोत्यपि न, अन्याश्च वार्ताश्चक्रे । अपृच्छच्च-'तवेयं किं स्यात् ? । तेनोक्तम्'ममेयं प्रिया वियुक्ताऽधुना मिलिता, त्वं सत्यवाग असि, मां विसर्ज' । राज्ञोक्तम्-"तर्हि मे कार्य कृत्वा वज । शृणु, नित्यं मे शिरो दुःखयति । वैद्येनैकेन औषधं प्रोक्तमस्ति-'यः कश्चिन्चरस्तव लक्षणैः सदृग् भवति स यदि दह्यते, तद्भस्म च भाले न्यस्पते तदा शिरोऽतिर्याति" । इति श्रुत्वा सिद्धेन चिन्तितम्- 'अहो! क्षुद्रादेशः, अयं मां हन्तुमिच्छति । परं द्विधापि मृत्युरस्ति, इत्यनुष्ठितमिदं वरम्' इति चिन्तयन् सोऽवादीत'करिष्यामि-'ते कार्यम्' । राजा स्वगृहं ययौ । तौ च यामिकै रक्षितौ पृथक् पृथक् स्थापितौ । गद्यबद्धद्वितीयदिने पाश्चात्ययामे सिद्धेन काष्ठानि प्रहितानि । राजनरैलोकैश्च युक्तो विहिताऽन्तयोग्यवेषस्तत्र | श्री मलयययौ । तेन स्वयमेव योग्यभूमौ चिता स्थापिता । मलवसन्दरी च तज्ज्ञात्वा महादःखं प्रामा । तदा पुरलोका सुन्दरीस्तद् पुरतं विनश्यद् दृष्ट्वा कृपया राजानं विज्ञपयामासुः-'प्रभो ! किमर्थ परोपकारी नरो मुधा हन्यते ?' । LY कथा ॥ A For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गधबद्धपी मलयसुन्दरीकथा ॥ राज्ञोक्तम्-'सा तत्प्रिया मदन्तःपुरे तिष्ठत, स च यातु । न कोऽप्येनं हन्ति । तदा जीवाभिधानेन मन्त्रिणाप्युक्तम्-'भोः ! किमेषा चिन्ता भवतामस्ति !, भवद्भिः स्वगृहचिन्ता क्रियताम्' जनाः शिरी धूनयन्तो गता: । सिद्धः सकललोकेषु हाहाकारं कुर्वत्सु चितामध्यं प्रविष्टः, राजनरैश्चतुर्दिक्षु वहिर्दत्तः । अर्धज्वलितं कृत्वा ते तत्स्वरूपं राज्ञः प्रोचुः । स दृष्टः । लोकानां रात्रौ तदुःखेन निद्रापि नागमत् । प्रातः स एव सिद्धः शिरसि रक्षापोट्टलकं वहन् सकौतुकं जनैर्वीक्ष्यमाणो राजसभां गत्वा प्रोचे–'शिरसि क्षिप्यतामेषा रक्षा' । राज्ञोऽपि चित्रं जातम् । उक्तं च-'भोः! कि त्वं न दग्धः?' । तेनापि कूटमुक्तम्-'हे नरेन्द्र ! चितानी दग्ध एवाहं, परं मे सत्वेन तुष्टैर्देवैरग्निः शमितः, जीवितश्वाहम्' । राज्ञा चिन्तितम- ' कूटं वक्ति, वह्विज्वलने जनानां दृशो वश्चयित्वा नष्टो घटते !' । ततो रक्षकवृतो मलयसुन्दरीस्थानं ययौ । तत्र भुक्त्वा समये स तया पृष्टः-'प्राणेश! कथं जीवितोऽसि ?' तेनोक्तम्-'शृणु, यया सुरङ्गया कृपानिर्गतस्तस्या मुखद्वारोपरि चिता स्थापिता । मध्ये प्रविष्टोऽहम् । यदा ज्वलनो लग्नस्तदा तद् द्वारमुद्घाट्य सुरङ्गामध्ये स्थितः । वही ज्वलित्वा स्थिते निर्जने निर्गत्यागतोऽस्मि । त्वया कस्यापि न वक्तव्यम्' । पुना राजसमीपं गत्वोचे-'मां समाये विसर्जय' | राज्ञोक्तम्-'द्वितीयमपि कार्य कुरु' । तेनोक्तम्-'कि कार्यम् ।' । राज्ञा जीवमंत्रिणो मुखं वीक्षितम् । तेनोक्तम्-'शृणु, पुरप्रत्यासन्ने छिन्नटकगिरिरस्ति । तस्मिन्नेकैव पद्याऽस्ति । तस्याऽर्धतटे सदाफलः सहकारोऽस्ति । त्वया पद्यया गिरिशीर्षमारुह्य चतं प्रति झम्मा दातव्या । तस्य वृक्षस्य फलानि लात्वा भूमि For Private And Personal use only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir प्रति झम्पा दातव्या । एवं फलान्यानीय भूभुजे देहि, येनास्य पित्तमुपशाम्यति' । सिद्ध इति श्रुत्वा शिरो धूनयन् , 'अहो ! क्षुद्रादेशः !' इति चिन्तयन् , 'अत्र कापि मतिर्नास्ति, मृत्युरेवास्ति । यदि वाऽप्राप्तभार्यो व्रजामि तदापि मृत्युरेव, द्विधापि तद्भावे साहसमेव वरम्' इति ध्यात्वा, 'अवश्यं करिष्यामि ते कार्यम्' इत्युक्त्वा, राजनरेष्टितः स चलित: । पौरलोका हाहावं कुर्वन्ति । पर्वते चटित्वा चूतं प्रति झम्पां दचा अदृश्यश्चाभूत । लोकैश्चिन्तितम्-'अस्थीनि पृथक पृथग भूत्वा गतानि' । सर्वः कोऽपि सदुःखो गृहमागात् । । प्रातः स एव सिद्धः शीर्षे फलभृत्करण्डं बहन जनानां कौतुकं दर्शयन् राजसभामागात् । राजा विस्मितः । सोऽपि नृपमनुज्ञाप्य फलद्वयं गृहीत्वा करण्डं तथैवाच्छाद्य प्रतीक्ष्यः क्षणम्, आगच्छन्नस्मि' इत्युक्त्वा मलयसुन्दरीपार्श्व गतः । सा प्रीति प्राप्ता । फले दत्ते । निविष्टं च सा प्राह-'प्रिय! कथय, कथं कार्य सिद्धम्'? स प्राह-'भृणु, यो योगी मे पूर्वपरिचितः स मृत्वा तत्राने व्यन्तरी जातोऽस्ति । तेनाई पतन् दृष्टवा कराभ्यामुत्पाव्य भव्ययुक्त्या वृक्षे स्थापितः । उपकारवार्तया रात्रिर्गता । प्रातय॑न्तरेणोक्तम्-'किं ते पतनकारणम् ?' | मया स्वरूपे प्रोक्ते तेनोक्तम्-'राजा त्वां हन्तुमिच्छति ततोऽहं नृपमेव हन्मि' । 'मयोक्तम्-' यदि अस्मिन् कार्ये कृते सति स बुध्यते तदा कि हन्यते ?' । तेनोक्तम् -' त्वया विषमकार्य स्मर्योऽहं, सर्व करिष्ये' । ततस्तेन कुतोऽपि करण्डकमानीय फलैः प्रपूर्य सुखेन पुरसमीपमानीतः। प्रोक्तं च'अहम् अदृश्य एव त्वया सह सभां गमिष्यामि' । ततोऽहं करण्डं सभायां मुक्त्वा त्वन्मुदेशागतोऽस्मि । गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलयसुन्दरी कथा ॥ ।। ५६ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , अत्रावसरे सभायां सिद्धमुक्त करण्डात् शब्द उद्गतः - 'राजानं भक्षयामि मंत्रिणं वा भक्षयामि । इति श्रुत्वा सर्वेऽपि भीताः प्राहुः - 'सिद्ध एवायं गूढात्मा, तस्य शक्तिर्न सामान्या, करण्डे किमपि भयङ्करमस्ति' । तदा जीवमंत्री 'किं भयङ्करम् ?' इति वदन् लोकैर्वार्यमाणोऽपि तं करण्डमुदघाटयत् । तत्क्षणं करण्डादग्निज्वाला निर्गता । तथा तत्क्षण मंत्री भस्मीभूतः । सा च सभां ज्वालयितुं प्रवृत्ता । राज्ञा मीतेन सिद्ध आकारितः । तेन करण्डमाच्छाद्य जलेन च्छटा क्षिप्ता, सर्व शान्तं जातम् । ततः पुनः करण्डमुद्घाट्य आम्रफलानि लाखा सर्वेभ्यो दत्तानि । सर्वः कोऽपि चमत्कृतोऽचिन्तयत्- 'सत्य: सिद्धोऽयं स्यात् । अथ राज्ञा मंत्रिपदे मंत्रिसुत एव निवेशितः । पुनर्दिनद्वयेऽतिक्रान्ते सति सिद्धेनोक्तम्- ' अहं सभार्यो यामि' । परं राजा मलयसुन्दरीरागं न मुञ्चति । तं प्रति प्राह - 'भो ! एकं कार्यं कृत्वा यथेष्टं व्रजेः ' । सिद्धः सकोपोऽवकू - ' किं कार्यम् ?' । राज्ञोक्तम्4 ' तथा कुरु यथा स्वीयमुखेन पृष्ठं पश्यामि' | सिद्धेन रुष्टेन गलमामोटय मुखं पश्चात् कृत्वा प्रोक्तम् —' पश्य यथेष्टं पृष्ठम् | सभा क्षुब्धा । मंत्री प्राह - ' त्वं धूर्तः शिक्षायोग्यः' । तदा सर्वमन्तःपुरं तां वातां श्रुत्वा समेत्य सिद्धस्य पादयोर्लनम् । 'कृपां कुरु, नृपं स कुरु' । इत्यादिचादुभिर्भिन्नहृदयः स प्राह- 'यदि एवं पादचारेण पुराद् बहिर्गत्वा प्रासादस्यश्री अजितनाथप्रतिमां नत्वा समेति तदा सअं करोमि, नो चेद् एवंविधो मरिष्यति' । ततो राजा लोकैः सहास्य कौतुकं सदयं दृश्यमानो जिनं नत्वा आगात् । सिद्धेन नसां चालयित्वा For Private And Personal Use Only ॥ ५६ ॥ Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir मुखं स्वस्थाने कृतम् । अथ यामि' इति सिद्धेनोक्ते राज्ञा प्रत्युत्तरेऽदीयमाने वाजिशालायां वह्निर्लग्नः । राज्ञोक्तम्'मम पट्टतुरङ्गमं ज्वलन्तं वह्निमध्याद् निष्काशय' । इति श्रुत्वा सिद्धो बलौ झम्पी दच्या क्षणात् स्वर्णपर्याणभूषिताऽश्वारूढो दिव्यशृङ्गारः समेतः । सर्वेषां चित्र जातम् । राज्ञा पृष्टम्-'कथं समेतः ?' । सिद्धेनोक्तम्-'महाप्रभावोऽयं वह्निः, योऽत्र प्रविशति स एवं विधो भूत्वा समेति' । इति श्रुत्वा सर्वः कोऽपि प्रवेष्टुं सजोऽभूत् । सिद्धेनोक्तम्-'पूर्व राजा मंत्री च गच्छता, शेषाः क्षणं प्रतीक्षध्वम्' ततो नृप-मंत्रिणौ वह्नि प्रविष्टौ । क्षणान्तरे लोकेनोक्तम्-'किमद्यापि नागच्छताम् ? । तेनोक्तम् -'समेष्यतः । घटीचतुष्केऽप्यतिक्रान्ते तो नागतौ । लोकेनोक्तम्-'को हेतुः । तेन हसित्वोक्तम्-'भो ! अहं देवसान्निध्याद् निर्गतोऽस्मि । तौ तु वहनि गतौ अनश्यताम् । अन्यायद्रुमोऽनयोः फलितः । ततः सर्वलोकैस्तत्र स एव राजा स्थापितः । शत्रन् जयन् "सिद्धराज' इति नाम्ना ख्यातो राज्यमपालयत् । 'स्मृतेनागन्तव्यं त्वया' इति विसृष्टो व्यन्तरो ययौ । अन्यदा बलसारोऽपि देशान्तरादागतः, प्राभृतं कृत्वा सिद्धराजमुपतस्थौ । तेन तस्य वामाङ्गस्था मलयसुन्दरी दृष्टा, तयाऽपि स उपलक्षितः । स च राज्ञा भाषितः शङ्कितः स्वस्थानं ययौ। मलयसुन्दर्या प्रियस्याग्रे तस्य स्वकीयकदर्थना-पुत्रहरणस्वरूपं प्रोक्तम् , तदा राज्ञा स सकुटुम्बो धृतोऽचिन्तयत् -' पृथ्वीस्थानेशः सूरपाल:, चन्द्रावतीशो वीरधवलश्च' एतो द्वौ परिचितो वर्तते । एतत्पुराधिपेन च सह तयोः सदैव बरं वर्तते । ततस्तयोरेव ज्ञापयामि, अष्टाष्टौ द्रम्मलक्षाणि द्वीपानीतांश्चाष्टौ गजान ददामि, स्वं च मोचयामि' । इति विचिन्त्य सोमनामा कोऽपि गधबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #59 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गयबद्धमी मलयसुन्दरी कथा ॥ ॥५८॥ स्वकीयस्तेन प्रेषितः । अस्मिन्नवसरे वीरधवलः सरपालश्च पृथक पृथग लोकमुखशुद्धया रौद्राटन्यां दुर्गतिलके गिरी भीमपल्लीपतेः पार्श्वे मलयसुन्दरीं श्रुत्वा तत्र प्राप्तौ । भीमं जित्वा मलयसुन्दरीशुद्धिमपि अप्राप्य विषण्णौ यावत् स्वस्थानं गच्छतस्तावता सोमस्तत्रैव गतः सर्व बलसारोक्तं स्वरूपं बभाषे । तौ द्वावपि अर्धमधं प्रपद्य सोमप्रेरितो सागरतिलकतटपूरं प्रति चलितौ । सन्धौ गत्वा ताभ्यां दतः प्रहितो गत्वा सिद्धराज प्रति जगौ-'भोः पृथ्वीस्थानाधिपः चन्द्रावतीपुरीस्वामी च द्वौ नरेश्वरौ वक्तः-सोऽयम् अस्मत्परिचितो बलसारोऽस्ति । ततोऽस्मद्वचसाऽपराध एकः सह्यता, मुच्यतामेषः । इत्यादिदतवाक्यानि श्रुत्वा पित-श्वशुस्योरागमनं ज्ञात्वा हृदि मुदितोऽपि बाह्याकारेणाटोपं बिभ्राणो बभाषे-'भो दत! यद्यपि तौ नौ मान्यौ, तथापि अन्यायिनः पक्षपातं कुर्वाणी अन्यायिनावेव, ततः शिक्षाही वर्तेते, रणे शिक्षा दास्ये' । इति निर्भय दूतं प्रेष्य रणभेरी ताडयित्वा ससैन्योऽसौ चचाल । द्वयोरपि सैन्ययोयुद्धं जातम् । सिद्धराजबले भने सति स स्वयमेव युद्धं कर्तुं बुढौके । व्यन्तरः स्मृतः । कुमारेण शत्रूणां शस्त्राणि अर्धपथे छिन्नानि, स्वशस्त्राणि च शत्रूशरीरे लगन्ति । भटेषु व्याकुलीभूय नश्यत्सु सर-वीरधवलौ स्वयमस्थितौ । अथ सिद्धराजेन तावपि अत्याकुलौ कृती, खिन्नौ, तदा सिद्धराजेन लेखो | बाणमुखे न्यस्य प्रेषितः । स च चाण: सरस्य प्रदक्षिणां दत्त्वा अग्रे स्थित्वा प्रण नाम । राज्ञा लेखो गृहीत्वा वाचित:-'त्वत्पुत्रो महाबलः प्रणमति' | राजा दृष्टो दधावे । सिद्धराजोऽपि पादचारी पितुः पादौ प्रणनाम । सर्वः कोऽपि दृष्टः । सर्वेऽपि नृपा महोत्सवेन सागरतिलकं पुरं प्रापुः । मलयसुन्दरी पितरं नमति स्म । For Private And Personal use only Page #60 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir परस्परं सर्व स्वरूपं प्रोक्तम् । घरपालेनोक्तं बलसारं प्रति-रे ! मम पौत्र' देहि ' । तेनोक्तम्- यदि मे सकुटुम्बस्याऽभयं दीयते तदा तं ददामि' राज्ञा प्रपन्ने तेन स दत्तः । राज्ञोत्सङ्गे निवेशितः । प्रोक्तं च'भोः ! किमस्य नाम ?' बलसारेणोक्तम्-'बल इति नाम'। तदा तेन बालेन पितामहकरस्थितदीनारशतग्रन्थिश्चालितः, ततस्तेन तस्य 'शतबल' इति नाम दत्तम् । सर्वस्वं गृहीत्वा श्रेष्ठी सकुटुम्बो जीवन् मुक्तः । सिद्धराजेन सर्व राज्यं पितु।कितम् । ___ अन्यदा श्रीपार्श्वनाथस्य शिष्यश्चन्द्रयशाः केवली गुरुस्तत्रागात् । तदा तो सूर-वीरधवलौ सकुटुम्बी नृपौ तं नन्तुं गतौ । उपदेशं श्रुत्वा श्रीवीरधवलेन पृष्टम्-'प्रभो ! पुत्री समुद्रे पतिता गजमत्स्येन सुखेन कथमुत्तारिता, स्नेहश्च दर्शितः ! केवली पाह-'श्रयताम , अस्या धात्री वेगवती मृत्वा समुद्रे गजाकारमत्स्यो जातः । भारण्डमुखात् तस्योपरि त्वत्पुत्री पतिता । तस्य मत्स्यस्य तां पश्यतो जातिस्मरणमुत्पन्नम् । ततस्तेन सा पृष्ठे धृतैव तटे मुक्ता, स्नेहेन च पश्यन् समुद्रं गत्वा प्रासुकाहारं गृह्णन् तिष्ठति । स च मृत्वा सुगति यास्यति' । अथ मरो नृपः प्राह-'प्रभो ! किमेतयोर्वधू-पुत्रयोावने दुःखं जातम् ?'। मुनिः प्राह-श्रूयतां तवैव पृथ्वीस्थाननगरे प्रिय मित्रनामा गृहपतिर्लक्ष्मीवान् , परं पुत्रहीनोऽभूत् । तस्य रुद्रा भाद्र प्रियसुन्दरी चेति तिस्रः प्रिया अभूवन् । रुद्रा-भद्रे भगिन्यौ मिथः स्नेहले अभूता. परं तयोद्वयोदयितस्य प्रेमलेशोऽपि न । प्रियसुन्दरी च प्रियस्य प्रियाऽभूत् । अन्पदा तस्य मित्र मदनो नाम प्रियसुन्दर्या रक्तः सन् तया सह हास्य गयबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only Page #61 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलय सुन्दरी कथा ॥ ॥६०॥ चक्रे । तत्स्वरूपं दृष्ट्वा क्रुद्धः प्रियमित्रस्तद्वन्धूनां ज्ञापयित्वा मदनं नगरान्निरकाशयत् " । अस्मिन्नवसरे वृद्धमनुष्या: प्राहुः-इदं सर्वमस्मद्रोचरे जातम् , अद्यापि तद्गृहं शून्यमस्ति । नृपः प्राह-'प्रभो ! अग्रे किम् ? । मुनिः प्राह'मदन: पुरान्निष्काशितो दिनद्वयं क्षुधितोऽटव्यां गोकुले गतः । गोपालेभ्यः पय: प्रार्थितं, तैश्च महिषीदुग्धेन भृतो घटो दत्तः । स च तं लात्वा पातुं सरः प्रति गच्छन् अचिन्तयत्-'यदि कस्मैचिद्दचा पिवामि तदा भव्यम्' । इति चिन्तयतोऽस्याने कोऽपि मासोपवासी मुनिर्मिलितः, तेन भावेन प्रतिलाभितो ययौ । सोऽपि पयः पीत्वा सरसि प्रविशन् स्खलितपदः पतितो जलमग्नो मृत्वा दानप्रभावाद् अत्रैव पुरे विजयस्य राज्ञः पुत्रोऽभूत् कन्दर्पनामा । पूर्वभवाभ्यासात् तस्य मनः मलयसुन्दर्यामासक्तमासीत् ।। ___अथ प्रियसुन्दरी-प्रियमित्रौ पृथ्वीस्थानपुरे विलसन्तौ धनञ्जययक्षयात्रार्थ रथारूढी चलितौ । ताभ्यां मार्गे मुनिरेको दृष्टः । प्रियसुन्दरी प्रोचे-रे मुण्डोऽधमः, अपशकुनं महत् !' । सुन्दरनामानं भृत्यं च प्राह'अमुष्माद् इष्टकापाकाद् वहिमानय, यथाऽसौ डम्भ्यते' । तेनोक्तम्-'मम पादयोः पादुके न स्तः, कण्टका भज्यन्ते'। तदा रुष्टेन प्रियमित्रेणोक्तम्-'सुन्दरोऽस्मिन् बटे उद्बध्यतां यथा पादौ भूमौ न लगतः, कण्टका अपि न भज्यन्ते' । पुनः प्रियसुन्दरी शकटात् समुत्तीर्य भृशं कुपिता 'मे प्रियेण सह वियोगो मा भूत् , परं राक्षसाकार! त्वमेवस्वबन्धुभिर्वियुक्तो भूया:' । इति वदन्ती त्रीन् वारान् लेष्टुभिस्तं मुनि जघान । पश्चात् तस्य रजोहरणं गृहीत्वा रथे निविश्य बभाषे-'अथ चलत, अपशकुन मस्तकेऽस्यैव पातितम् । ततस्तौ दम्पती यक्षालयं गत्वा यक्षं ॥ ६० ॥ For Private And Personal use only Page #62 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir पूजयामासतुः । तत्रैका जिनधर्माऽनुरक्ता तद् रजोहरणं वीक्ष्य प्रोचे-'किमिदम् । ताभ्यां साघुसन्तापस्वरूपे प्रोक्त साऽवादी-'धिम् भवां विरूपं कृतं, महापातकमर्जितम् । ततस्तौ भीती वलमानौ मुनिपावे समेत्य साश्रुपातं तत्पादयोलेनौ, रजोहरणं च दत्तम् । साधुः कायोत्सर्ग पारयित्वा प्रोचे-'भो महाभीमौ ! जिनधर्म कुरुताम् । तौ गृहिधर्म समाश्रित्य साधं सवाद क्षमयित्वा स्वस्थान प्राप्तौ। अन्यदा स एव साधुस्तद्गृहे प्राप्तः, ताभ्यां भक्त्या प्रतिलामितः । अन्यदा रुद्रा-भद्रे कलहं कुर्वाणे निर्विष्णे चिन्तयितुं लग्ने-' एष भर्ता प्रियसुन्दरीप्रीति न मुञ्चति, तत्कि नित्यं कलहकरणेन ?, अतो मृत्युरेव श्रेयान् । इति विमृश्य ते द्वे अपि कूपे पतिते । तन्मध्ये या भद्रा सा जयपुरे चन्द्रपालस्य सुता कनकवती जाता, वीरधवलेनोढा च । रुद्रा व्यन्तरी जाता. भ्रमन्ती प्रतिष्ठानपुरं प्राप्ता. तो प्रियसुन्दरी-प्रियमित्रौ च रात्री प्रीतिमन्ती दृष्ट्वा भित्तिं पातयित्वा गता। तो मृतौ । प्रियमित्रजीवो महावलोऽभूत , प्रियसुन्दरीजीवो मलयसुन्दरी जाता, सुन्दरकर्मकरजीवश्च वटे व्यन्तरोऽभूत् । अथ रुद्रा व्यन्तरी महावलस्योपरि द्रोह कर्तुमशक्ता तस्य वस्त्राभरणादिकमपजडू, लक्ष्मीपुत्रहारस्तयैव महाबलकण्ठाद् अपहृत्य पूर्वभवस्वसृस्नेहान् कनकवतीकण्ठे निवेशितः । तया च कूटमुक्त्वा मलयसुन्दरी प्रति कोपः कारितः । सुन्दरजीवेन भृत्येन पूर्वदुर्वचनं स्मृत्वा कुमारस्यापि तादृशमेव वटोद्वन्धकदुःखं शवमुखेऽवतीर्य कथितम् । अन्यदा भद्रया पत्युर्मुद्रारनं हृतमासीत् । सा च हन्ती सुन्दरेण दृष्टाऽऽसीत् । प्रियमित्रेण पृष्टे सति सुन्दरेणोक्तम्-'भद्रया मुद्रारत्नं गृहीतमस्ति' । तदा भद्रा प्रोचे-रे छिन्न गद्यबद्ध श्री मलय सुन्दरी कथा ॥ | ॥ ६१॥ For Private And Personal use only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra wwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandie गधबद्धश्री मलयसुन्दरीकथा ॥ नासिक ! त्वयैव गृहीतमस्ति, किं नार्पयसि ?" स मौनेन स्थितः । ततः प्रियमित्रोण साम-दण्ड-भेदादिभित्विा भद्रापार्थात् तद्गृहीतम् । तेन हेतुना तेन भूतेन कनकवतीनासिका गृहीता, कनकवती च च्छिन्ननासाऽभूत् । कुमारोऽपि सुन्दरं प्रति दुर्वचनाद् वटे उद्धद्धः । साधुं प्रति राक्षसादिदुर्वचनादिभाषणाद् मलयसुन्दर्या राक्षसीकलङ्कोऽभूत् । पूर्व मलयसुन्दर्या असुना कुमारेण च सुसाधुभ्यो दानं ददे, जिनधर्मश्च पालितस्तेनाभ्याम् उत्तमकुलादिका सर्वसामग्री प्राप्ता । तथा मलयसुन्दर्या स यतिराक्रुष्टः, 'स्वबन्धुभिः साधं तवैव विप्रयोगोऽस्तु, त्वं राक्षस'इत्याद्याक्रोशवचनैर्भाषित्वा श्रीन वारान् लेष्टुप्रहारैर्मुनिराहतः, महाबलोऽपि अनुमोदयन् मौनेन तस्थौ, तत आभ्यां दृढं पातकमर्जितम् । तस्याऽनुभावतो द्वयोनिजलोकेभ्यस्त्रीन् वारान् वियोगोऽजनि । यद् मलयसुन्दर्या साधो रजोहरणं गृहीतं तेन कर्मणा अस्य बालः श्रेष्टिना गृहीतः । एवं पूर्वभवकर्मफलमुपस्थितम् । स एवाई साधुश्छिन्नकर्मा केवली जातोऽस्मि । मम स एव भवः, अनयोद्वितीयोऽभूत्” । इति महाबल-मलयसुन्दरीचरित्र श्रुत्वा सूरपाल-वीरधवलौ भवनिर्विष्णौ प्रोचतु:-'प्रभो! दीक्षा ग्रहीष्यावः' । 'मा प्रतिबन्धः कार्यः' इति साधुनोक्तं नृपो स्वस्थानं गतौ। मूरपालेन पृथ्वीस्थानराज्यं महाबलाय दत्तम् । वीरधवलेनापि तत्रैव स्थितेन स्वराज्यं मलयकेतवे पुत्राय दत्तम् । ताभ्यां पत्नीयुताभ्यां महोत्सवेन केवलिपार्श्वे दीक्षा गृहीता, समये च दिवं ययुः । महाविदेहे सिद्धि प्राप्स्यन्ति । ॥६२ ॥ For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ।। ६३ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ महाबलः शतबलं पुत्र' सागरतिलके नगरे स्थापयित्वा स्वयं च पृथ्वीस्थानपुरं गत्वा श्राद्धधर्मस्थितो राज्यपालयत् । तस्य च द्वितीयः पुत्रः सहस्रवलनामाऽभूत् । एवं भुजबलेन व्यन्तरबलेन च बहून् नृपान् वशीकृत्य राज्यं श्रीजिनधर्मं च पालयन्, विशेषतः साधुभक्तिं च कुर्वन् पश्चिमे वयसि गुरोः पार्श्वे प्रियया युक्तो दीक्षां जग्राह । सागरतिलके शतबलो राजा, पृथ्वीस्थाने च सहस्रबलो राजाऽभूत् । " अथ महालपिंगतार्थो भूत्वा गुर्वादेशाद् एकाकी विहरन् सागरतिलके सन्ध्यायां समेत्य बने कायोत्सर्गेण स्थितः । बनपालेन शतबलाय राज्ञे विज्ञप्तम् । सोऽपि हृष्टस्तस्मै दानं दवाऽचिन्तयत्- 'साम्प्रतमन्धकारोऽभृत् प्रातर्महोत्सवेन नन्तुं यास्यामः । अस्मिन् समये सा कनकवती स्थाने स्थाने भ्रमन्ती तत्रैवागता । बने गतं महामुनिं दृष्ट्वा दध्यौ -' एष मूलतोऽपि मे वृतान्तं वेत्ति । यद्यसौ मम स्वरूपं लोकाग्रे वक्ष्यति तदाऽहं कापि प्रवेशं न लप्स्ये ततोऽयं मार्यते तदा वरम् ' । इति विचिन्त्य तथा काष्ठानि वेष्टयित्वा मुनिर्ज्वलितः । महाबलमुनिः सुदुस्सहमुपसर्गं सम्यक् सहमान: केवलज्ञानमासाद्य सिद्धिं ययौ । प्रभाते शतवल उत्कण्ठितो नन्तुमागतः । मुनिस्थाने भस्म दृष्ट्वा शङ्कितः, क्वापि तातं न ददर्श, किन्तु पदानुसारेण सा छिन्ननासा दृष्टा । तया ताड्यमानया सर्व सत्यमुक्तं, तदा सा कदर्थनया मारिता पष्ठ नरकं ययौ । राजा दुःखाक्रान्तो विलप्य स्वस्थानं ययौ । मलयसुन्दरी महत्तरापदं प्राप्ता । महाबलनिर्वाणेन पुत्र' दुःखितं ज्ञात्वा प्रबोधायागता । तं प्रबोध्य पश्चात् सहस्रवलं प्रतिबोधयितुं पृथ्वीस्थानं पुरं गता । कतिचिद्दिनपर्यन्ते शतचलोऽपि महत्तरां नन्तुमुत्क For Private And Personal Use Only गद्यबद्ध - श्री मलय |सुन्दरी कथा || ।। ६३ ।। Page #65 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagauti ya mandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गद्यबद्धश्री मलयसुन्दरी कथा ॥ स्तत्रागात् । तत्र च तौ मिलितौ द्वावपि पुत्रौ दुःखहीनौ कृत्वा महत्तराऽन्यत्र विजहार । तौ च द्वावपि स्वस्वपुरे स्थितौ राज्यं पालयतः स्म । मलयसुन्दरी प्रान्ते आराधनां कृत्वा द्वादशे देवलोके जगाम, महाविदेहे च समुत्पद्य विदेहे सिद्धिं यास्यति । इति मलयसुन्दरीकथां श्रुत्वा मलयसुन्दरीवद् ज्ञानं शीलं च पाल्यं विवेकिमिः । यथा ताभ्यां पूर्वभवे मुनेराशातना कृता तथा न केनापि कर्तव्या ।। श्रीमत्पार्श्वजिनेन्द्रनिर्वृतिदिनाद् याते 'समानां शते, संजज्ञे नृपनन्दना मलयतः सुन्दयसौ नामतः। एतस्याश्चरितं यथा गणभृता प्रोक्तं पुरा केशिना, श्रीमच्छङ्क्षनरेश्वरस्य पुरतोऽप्यूचे मयेदं तथा ॥१॥ सझेपेणाऽवबोधाय विस्तरो दुस्तरो भवेत् । न सक्षेपो न विस्तारः कथितश्चेह तत्कृते ॥ २॥ ॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरमरिकृतायां श्रीमलयसुन्दरीकथायां चतुर्थ उल्लासः ॥ ॥ इति गद्यबद्ध-श्रीमलयसुन्दरीकथा ॥ ॥६४ १ वर्षाणाम् । For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra wobeinhard Acharya Shri Kailassagarsuti Gyanmandir POE Private And Personal use only