Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
॥ ३७ ॥
वं कथय- कोऽपि पुत्रस्य मित्रं शर्वा समेतोऽस्ति, पुत्राभरणादिकं चटितमस्ति, स पुमान् दिव्यं कार्यमाणोऽस्ति, भटा अपि पुत्रवीक्षणाय प्रेषिताः सन्ति, ममापि सदृशमेव दुःखमस्ति, ततस्तस्वरूपवीक्षणं यावत् प्रतीक्षस्व' । राज्ञेत्युक्त्वा कुमाराभरणादिकं दचा चेटी प्रेषिता । सा च देवी प्रति तत्सर्व कथयामास । देवी तच्छत्वा आभरणादिकं च दृष्ट्वा हर्ष-शोकाकूला तत्पुरुषवीक्षणाय सपरिवारा यक्षगृहं प्राप्ता । राजाऽपि प्राप्तः, लोकाश्च मिलिताः। राजा गारुडिका: सर्पग्रहणाय प्रेषिता अलम्बाद्रिमध्याद् महासर्पमानिन्युः । स च घटे क्षिप्तः । मलयसुन्दर्या पुंरुपया स्नानं कृत्वा परमेष्ठिस्मरणं कृत्वा सो निष्काशितः । सर्पो रज्जुमदृशो हृदयाग्रे हस्ते धृतः । तेन सर्पण स्वमुखाद् लक्ष्मीपुअहारो निष्काश्य तत्कण्ठे क्षिप्तः, जिह्वया च तस्या ललाटं स्पृष्ट्वा सा खीरूपा कृता । सर्वेऽपि चमत्कृताः । सर्पस्तस्याः शिरसि फणां कृत्वा स्थितः । राज्ञोक्तम्- नूनं कोऽपि देवोऽयं दानवो वाऽन्यो वा सिद्धः सर्परूपेण खेलति, स्वस्थाने मुच्यताम् । अथ क्षमयित्वा दुग्धं पाययित्वा स पर्वते मोचितः । ततो नृपेण सा स्त्री भाषिता-'वं का?, कुतोऽयं ते हारः ? । तयोक्तम्- 'अहं चन्द्रावतीशवीरधवलस्य सुताऽस्मि, सर्परूपं तु सम्यग न वेनि' ततो राजा देवी भणति- 'एषा कथयति, परं न मन्यते । कथं वीरधवलसुता एकाकिनी समेति ? । यदि कदाचित् तस्य कान्ता भविष्यति तदा कोऽपि पृष्ठत आगमिष्यति; अत एनां लात्वाऽन्तःपरं गच्छ । हारो लब्धोऽस्ति पश्चदिनान्तः, ततो मृत्युकदाग्रहो न कर्तव्यः' । देवी प्राह-'हारेण कि
गद्यबद्ध|श्री मलयसुन्दरीकथा ॥
१. मलय सुनहरी । २. पुत्रस्य ।
For Private And Personal use only
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66