Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गद्यबद्धश्री मलय
सुन्दरी
कथा ॥ ॥६०॥
चक्रे । तत्स्वरूपं दृष्ट्वा क्रुद्धः प्रियमित्रस्तद्वन्धूनां ज्ञापयित्वा मदनं नगरान्निरकाशयत् " । अस्मिन्नवसरे वृद्धमनुष्या: प्राहुः-इदं सर्वमस्मद्रोचरे जातम् , अद्यापि तद्गृहं शून्यमस्ति । नृपः प्राह-'प्रभो ! अग्रे किम् ? । मुनिः प्राह'मदन: पुरान्निष्काशितो दिनद्वयं क्षुधितोऽटव्यां गोकुले गतः । गोपालेभ्यः पय: प्रार्थितं, तैश्च महिषीदुग्धेन भृतो घटो दत्तः । स च तं लात्वा पातुं सरः प्रति गच्छन् अचिन्तयत्-'यदि कस्मैचिद्दचा पिवामि तदा भव्यम्' । इति चिन्तयतोऽस्याने कोऽपि मासोपवासी मुनिर्मिलितः, तेन भावेन प्रतिलाभितो ययौ । सोऽपि पयः पीत्वा सरसि प्रविशन् स्खलितपदः पतितो जलमग्नो मृत्वा दानप्रभावाद् अत्रैव पुरे विजयस्य राज्ञः पुत्रोऽभूत् कन्दर्पनामा । पूर्वभवाभ्यासात् तस्य मनः मलयसुन्दर्यामासक्तमासीत् ।।
___अथ प्रियसुन्दरी-प्रियमित्रौ पृथ्वीस्थानपुरे विलसन्तौ धनञ्जययक्षयात्रार्थ रथारूढी चलितौ । ताभ्यां मार्गे मुनिरेको दृष्टः । प्रियसुन्दरी प्रोचे-रे मुण्डोऽधमः, अपशकुनं महत् !' । सुन्दरनामानं भृत्यं च प्राह'अमुष्माद् इष्टकापाकाद् वहिमानय, यथाऽसौ डम्भ्यते' । तेनोक्तम्-'मम पादयोः पादुके न स्तः, कण्टका भज्यन्ते'। तदा रुष्टेन प्रियमित्रेणोक्तम्-'सुन्दरोऽस्मिन् बटे उद्बध्यतां यथा पादौ भूमौ न लगतः, कण्टका अपि न भज्यन्ते' । पुनः प्रियसुन्दरी शकटात् समुत्तीर्य भृशं कुपिता 'मे प्रियेण सह वियोगो मा भूत् , परं राक्षसाकार! त्वमेवस्वबन्धुभिर्वियुक्तो भूया:' । इति वदन्ती त्रीन् वारान् लेष्टुभिस्तं मुनि जघान । पश्चात् तस्य रजोहरणं गृहीत्वा रथे निविश्य बभाषे-'अथ चलत, अपशकुन मस्तकेऽस्यैव पातितम् । ततस्तौ दम्पती यक्षालयं गत्वा यक्षं
॥ ६० ॥
For Private And Personal use only
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66