Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 55
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गधबद्धपी मलयसुन्दरीकथा ॥ राज्ञोक्तम्-'सा तत्प्रिया मदन्तःपुरे तिष्ठत, स च यातु । न कोऽप्येनं हन्ति । तदा जीवाभिधानेन मन्त्रिणाप्युक्तम्-'भोः ! किमेषा चिन्ता भवतामस्ति !, भवद्भिः स्वगृहचिन्ता क्रियताम्' जनाः शिरी धूनयन्तो गता: । सिद्धः सकललोकेषु हाहाकारं कुर्वत्सु चितामध्यं प्रविष्टः, राजनरैश्चतुर्दिक्षु वहिर्दत्तः । अर्धज्वलितं कृत्वा ते तत्स्वरूपं राज्ञः प्रोचुः । स दृष्टः । लोकानां रात्रौ तदुःखेन निद्रापि नागमत् । प्रातः स एव सिद्धः शिरसि रक्षापोट्टलकं वहन् सकौतुकं जनैर्वीक्ष्यमाणो राजसभां गत्वा प्रोचे–'शिरसि क्षिप्यतामेषा रक्षा' । राज्ञोऽपि चित्रं जातम् । उक्तं च-'भोः! कि त्वं न दग्धः?' । तेनापि कूटमुक्तम्-'हे नरेन्द्र ! चितानी दग्ध एवाहं, परं मे सत्वेन तुष्टैर्देवैरग्निः शमितः, जीवितश्वाहम्' । राज्ञा चिन्तितम- ' कूटं वक्ति, वह्विज्वलने जनानां दृशो वश्चयित्वा नष्टो घटते !' । ततो रक्षकवृतो मलयसुन्दरीस्थानं ययौ । तत्र भुक्त्वा समये स तया पृष्टः-'प्राणेश! कथं जीवितोऽसि ?' तेनोक्तम्-'शृणु, यया सुरङ्गया कृपानिर्गतस्तस्या मुखद्वारोपरि चिता स्थापिता । मध्ये प्रविष्टोऽहम् । यदा ज्वलनो लग्नस्तदा तद् द्वारमुद्घाट्य सुरङ्गामध्ये स्थितः । वही ज्वलित्वा स्थिते निर्जने निर्गत्यागतोऽस्मि । त्वया कस्यापि न वक्तव्यम्' । पुना राजसमीपं गत्वोचे-'मां समाये विसर्जय' | राज्ञोक्तम्-'द्वितीयमपि कार्य कुरु' । तेनोक्तम्-'कि कार्यम् ।' । राज्ञा जीवमंत्रिणो मुखं वीक्षितम् । तेनोक्तम्-'शृणु, पुरप्रत्यासन्ने छिन्नटकगिरिरस्ति । तस्मिन्नेकैव पद्याऽस्ति । तस्याऽर्धतटे सदाफलः सहकारोऽस्ति । त्वया पद्यया गिरिशीर्षमारुह्य चतं प्रति झम्मा दातव्या । तस्य वृक्षस्य फलानि लात्वा भूमि For Private And Personal use only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66