Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra ।। ३५ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारोऽचिन्तयत् —' हा ! किं भावि ?, मयि जीवति सर्व कुलं विसंस्थुलं भावि !" । तस्मिन्नेवं चिन्तयति भूतेनोक्तम्- ' भोवलत सर्वेऽपि तत्र गम्यते' । केनापि भूतेनोक्तम्- ' किमपि यानं वीक्ष्यते । केनापि कथि तम् -'वट एव यानम्' । ततः सर्वैरपि हुङ्का मुक्तः, वट उत्पतित: । तत्कोटरस्थौ तावपि चलितौ । क्षणेन स वटः पृथ्वीस्थानपुरेऽलम्बशैलाभिधान गिरिसमीपे स्थितः । कुमारस्तां भूमिमुपलक्ष्य प्रियां प्रति प्राह – ' प्रिये ! जाग्रति पुण्यानि, सेयं मम जन्मभूमिः, वटकोटरं त्यज्यते, वटोऽन्यत्र मा व्रजतु' । ततस्तौ कोटरान्निर्गत्य कदलीगृहं गतौ । तत्र स्थिताभ्यां ताभ्यां पुनरपि वट उत्पतन् दृष्टः । कुमारेणोक्तम् -' वटः पुनः स्वस्थानं याति, भव्यं कृतमावां कोटरान्निर्गतौ ' । अथ कुमारेण स्त्रीरुदितं श्रुत्वा प्रिया प्रोवे - ' ' कापि स्त्री रोदिति, दुखं स्फेटयामि । तस्यां वारयन्त्यामपि स्वीयोत्तरीय-कुण्डलादिकं दत्वा हारे कटीस्थे एव सोऽचलत् । सा मलयसुन्दरी पुरूषा सभागृहेऽस्थात् । तथा तन्मार्गं पश्यन्त्या एव चिन्तया रात्रिरतिक्रान्ता, परं कुमारो नागात् । अथ तया चिन्तितम् - 'पित्रोर्मिलनायोत्कण्ठितः स मध्ये गतो भविष्यति, ततोऽहमपि पुरमध्यं यामि' । इति विचिन्त्य चलिता प्रतोलीद्वारं प्राप्ता । रक्षपालेनोक्ता - 'भोः कस्त्वं नव्यो वीक्ष्यः ?' । परं किमप्यस्यामनुवाणायां रक्षपालेनेतरैश्च सम्यगालोक्य प्रोचे - 'भो ! महाबलनामाङ्किते अस्य कर्णयोः कुण्डले, तस्यैव च वस्त्राणि, कोऽपि चौरोऽयं तन्मित्रं वा । ततस्तां भूपपार्श्व नीत्वा स्वरूपं च तैः प्रोक्तम् । ततो राज्ञा सूरपालेनापि पृष्टम् । परं तया चिन्तितम् - 'पाश्चात्यमसम्भाव्यं For Private And Personal Use Only गद्यवद्ध श्री मलय सुन्दरी कथा ॥ ।। ३५ ।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66