Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shin Mahavir Jhin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagauti ya mandir
सा च किञ्चित् सचेतना कुमारोक्तं श्लोकं पपाठ । तदा तु तस्य चित्ते कुमारीनिश्चये सति महत्कौतुकं जातम् । सापि समुन्मीलितलोचना शनैः शनैः सावधाना कुमारमुपलक्ष्य लज्जावती बभूव । ऊचे च-'प्राणेश ! स्वं कुत: ?' तेनोक्तम्-'पूर्वम् आसन्ननदीजले शरीरं क्षालय, पश्चात् परस्परं कथ्यते स्वरूपम् । ततस्तौ नद्यां गत्वा शरीरं क्षालयित्वा तत्रायातौ । कुमारेण स्वस्वरूपे कथिते कुमारी शिरो धूनयति स्म, विषमा दैवगतिः!। अथ कुमारः प्राह- त्वं तत्र सुरक्षिते स्थाने वसन्ती कथमजगरोदरं गताऽसि ?' । सा यावत् किञ्चिद् 18 वक्तुमारभते तावत् कुमारेण तत्र प्रत्यासन्ने मनुष्यसञ्चरं ज्ञात्वा कुमारी प्रत्युक्तम्-'क्षणं मौनेन तिष्ठ । कोऽपि तस्करः पारदारिको उतकारो वा रात्रौ सश्चरन्नत्र आयाति' । ततः कुमारेण शीर्षाद् गुटिका आकृष्य आम्ररसेन घृष्टा । तत: कुमार्या भाले तिलके कृते पुरुषरूपां जातां दृष्ट्वा तां प्रत्युक्तम्- ' यावदहं निष्ठ्युतेन तिलकमिदं न प्रमार्जयिष्ये तावत् त्वं पुरुषरूपैव द्रक्ष्यसे । एवं तौ यावत्तत्र निश्चलौ स्थितौ तावत् तत्रैका स्त्री कम्पमानाङ्गी तौ दृष्ट्वा च विशेषतश्चकिता समेता । कुमारेण भाषिता-' भद्रे ! का त्वं ? कि मीतेव दृश्यसे ! । आवां पथिको, किश्चिन्न जानीवस्ततः पृच्छयते' । सा पाह- " भोः क्षत्रियो ! एषा गोला नदी । अनासन्न चन्द्रावती पुरी । तत्र वीरधवलो नाम राजा । तस्य मलयसुन्दरी कन्याऽस्ति । तस्या अपरमाता कनकवती तां प्रति मात्सर्य धत्ते । अहं च तस्या महल्लिका सोमाभिधानाऽस्मि । दिनत्रयात् पूर्व
गद्यबद्धश्री मलयसुन्दरीकथा ॥
१. अन्तःपुरचरा-दामी ॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66