Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shri Matavin Andhana Kendra
www.kobatirth.org
Acharya Shri Kailasagasti Gyanmandir
तमेव हृदि मन्त्रसदृशं स्मरन्तीं तां कन्यां स ददर्श । साऽपि सानन्दा तं दृष्ट्वा सहसोत्तस्थौ । आसनं दवा तमूचे-'अहो ते धीरता ! । कथमत्र सुरक्षिते स्थाने समागमनं जातम् ?' । सोऽवादी
"उत्कटकण्टके कोटघर्षणकष्टानि हृदि न चिन्तयति ।
असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम" ॥१॥ " त्वया च स्वस्वरूपमुक्तम् । मदीयं श्रृणु-अहं पृथ्वीस्थानपुरे मुरपालनृपस्य पुत्रः पद्मावतीकुक्षिजातो महाबलाभिधानोऽस्मि " । साऽवादीत् - ' तर्हि यदा त्वं पूर्व मया दृष्टस्तदैव पूर्वभवसम्बन्धेन केनापि प्रेरितया मनःसाक्ष्यं वृतोऽसि । साम्प्रतं गान्धवविवाहेन अङ्गीकुरुष्व' । तदा तेनोक्तम्-'कुलकन्यानां प्रच्छन्नो विवाहो न शोभते. इति धीरत्वं भज । अहं तथोपक्रम करिष्ये यथा स्तोकदिनैः पितदत्तां त्वां परिणेष्यामि ।
“विधत्ते यद्विधिस्तत् स्याद् न स्याद् हृदयचिन्तितम् ।
एवमेवोत्सुकं चित्तमुपायांश्चिन्तयेद् बहून्” ॥ १ ॥ ___अयं श्लोकस्त्वया चिन्तानिवारणाय सदा चिन्त्यः' । तया प्रपन्नम् । यावद् एवं तौ प्रीत्या वार्ती कुरुतस्तावता कनकवती द्वारपाश्चेस्थिता प्रच्छन्नं सर्व तच्छ्रुत्वा कपाटद्वयमाकृष्य तालकं ददौ । सा च कुमाय
१. गुप्तः । २. उपक्रमम्-आरम्भम्-उपायम् ।
गद्यबद्ध| श्री मलयसुन्दरीकथा ॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66