Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan
View full book text ________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagasti Gyanmandir
गद्यबद्धश्री मलयसुन्दरीकथा ॥
'नृपान् आकारय, स्वयंवरं कारय, वरस्य वरणवेलायां कुतोऽपि कन्या प्रकटीभविष्यति । महाबलश्च चरो भावी। इति तव कुलदेवीभिर्मम स्वप्ने प्रोक्तमस्ति' । राजा तद्वचसा तुष्टो महोत्सवेन पुरमध्ये स्वगृहं प्राप । तेन नैमित्तिकेन सह वार्ता कुर्वतो भूपस्य प्रभाते गजपालकैविज्ञप्तम्-' प्रभो ! गजपुरीषमध्याद् मुद्रारत्नमिदं लब्धम्' । राजा मलयसुन्दरीनामाङ्कितं तद् दृष्ट्वा विस्मितो नैमित्तिकमालुलोके । तेनोक्तम्-'देव ! तव पुरः सम्यग्ज्ञानं विना कथं कथ्यते ?' । तत्प्रत्ययाद् गज्ञा स्वयंवरमण्डपः सन्जितः । सर्वभूभुजां निवासाः कारिताः । नृपा आकारिताः । बुभुक्षितामन्त्रितवत् क्षणं सायं सर्वेऽपि समेता: । नैमित्तिकेनोक्तम्-'देव ! मम अर्धसाधितो मन्त्रोऽस्ति । अद्यतनी निशां विसर्जय, प्रातरागमिष्याम्येव' । राज्ञोक्तम्-' मन्त्रसाधनोपहाराय किश्चिद् द्रविणं गृहाण' । ततः स किञ्चिद् द्रविणं गृहीत्वा ययौ । निशामतिक्रम्य सूर्येऽनुगते स तत्रागत्य नृप प्राह-'स्वामिन् ! त्वदीयकुलदेवीभिः स्वयंवरयोग्य: स्तम्भो दत्तोऽस्ति । स पूर्वदिक्प्रतोल्याः प्रत्यासन्न घटते । अहं पुनस्तत्रैव गच्छामि' । इन्युक्त्वा स गतो राजपुरुषेण सह । स्तम्भं दृष्ट्वा राजनरेण राज्ञोऽग्रे प्रोक्तम् । । ततो राजा महोत्सवपूर्व स्तम्भसमीपं ययौ । नैमित्तिकेन भव्ययुक्त्या पूजितः । ततः पुरुषैरुत्पाटितः । अग्रे समग्रेण परिकरेण युक्तो राजाऽचालीत् । महोत्सवेन स्वयंवरमध्ये ऊर्ध्वस्था शिलां कृत्वा तदाधारेण स्तम्भोऽपि भव्ययुक्त्या नैमित्तिकेन स्थापितः । वज्रसारं धनुर्बाणयुक्तं तत्पार्श्वे स्थापितम् । ततो राजानः सिंहासनेषु निविष्टाः । गीत-नृत्यायुत्सवे भवति सति नमित्तिकः शीघ्र बहिर्गत्वा वेषं परावृत्य वीणावादकमध्ये गत्वा निविष्टः । ततः प्रतिहार्या प्रोक्तम्-'अस्प स्तम्भस्य द्विहस्तमानम् अग्रं बाणेन यो भेत्स्यति स कुतोऽपि
For Private And Personal Use Only
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66