Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
स्थापयेञ्च महावेद्यां शालायां वा विशेषतः । तद्रव्यं खण्डयेदादौ सूत्ररेखाश्च योजयेत् ॥ १० ॥ अङ्गुलं तालमानं वा किष्कुमानं क्वचिन्नयेत् । हस्तमानं क्वचिनेयं बेरे चित्रे च कर्मणि ॥ ११ ॥ क्रमान्मुखादिरूपन्तु योज्यं सौष्ठववेदिभिः । मुखबाहरुपादादीन्स्फुटरूपं प्रकल्पयेत् ॥ १२ ॥ लम्बसूत्रं पार्श्वमूत्रं तिर्यसूत्रं तथा नयेत् । तत्तदङ्गक्रियाकारी सावधानो रहःस्थले ॥ १३ ॥
वेदिकायां वा, क्रियाशालायां वा, शुद्धे स्थले स्थापयित्वा, तदारभ्य बेरनिर्माणाय यतेरनिति शिल्पिकार्यक्रमश्च बोध्यः । एवं शुभदिने, शुभमुहूर्ने, शुभशकुननिरीक्षणपूर्वकमुत्सवबेरनिर्माणाई ताम्रादिलोहजालाहरणमपि कार्यमिति भावः
एव द्रव्याहरणानन्तर पश्चतालषट्तालसप्ततालाष्टतालनवतालदशतालद्वादशतालादिबेरतालप्रमाणज्ञो बेरनिर्माणक्रियाकुशल: शिलालोहकारश्च स्थपती रहःस्थले यवनिकाच्छादिते वनादाहृतं त द्रव्यं स्वक्रियाई यथामानं खण्डशः खण्डयेत् । तदनन्तरं तेषु बरेषु मुखाद्यवयवकल्पनाय लम्बसूत्रं, पार्श्वसूत्रं, तिर्यक्सूत्रञ्च क्रमात्प्रयोज्य तत्र तत्र धातुभी रक्तवर्णै रेखाविन्यासश्च कृत्वा, मुखवक्षोबाहुनाभ्यूरुजवापादादिस्वरूपस्फूर्तये बहुविधैष्टंकविशेषै.

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834