Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 807
________________ ७८६ दण्डिनं खगुरुं वापि वेदशास्त्रार्थकोविदम् || ७ || क्षुद्रपीठसमायुक्तं जपमालालसद्गलम् । लसद्वेष्टनयुक्तं वा पृथक्कल्पनसंयुतम् । बद्धाञ्जलिपुटं भक्त्या स्थापयेत्क्षेमसिद्धये ॥ ८ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे भक्तवेरस्थापनक्रमकथनं नाम व्यशीतितमोऽध्यायः ॥ कनकादिप्रदायिनो राज्ञो बेरं तस्मिन्देवालये देववेदिकायां वा स्थापितदेवचेराणामागमक्रमतः प्रतिष्ठाकारिणो दीक्षितस्य भट्टाचार्यस्य पुरोहितम्य च क्रमात्माञ्जलिपुटबेराणि च स्थापयेत् ॥ किन कचित्स्थलान्तरे प्राकारान्तरे मण्डपान्तरे प्रदक्षिणपार्श्वमण्डपान्तरे वा विश्वगुरोस्संप्रदायसिद्धान्तस्थापयितुः परिव्राजकस्यापि बेरं बद्धाञ्जलिपुटं स्थापयेत् । एवमत्र स्थापितेषु भक्तबेरेषु विश्वकर्मबेरस्य मौलितले किरीटस्थापनं, राज्ञो मौलितले वेष्टनकल्पनं, भट्टाचार्यादीनां मौलितले शेषपटदुकूलपट्टवस्त्रादिवेष्टनं, कण्ठभागे वक्षोभागे च जपमालिका योजनं कार्यम् । अयन क्रमः परिव्राजकाचार्यबिम्बेषु न योजनीयः । परन्तु तस्य करकमले एकदण्डं त्रिदण्डं वा संयोज्य काषायवस्त्रपरिवेष्ठन कार्यमिति क्रमः ॥

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834