Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 789
________________ ७६८ नानादानानि विप्रेभ्यो वेदज्ञेभ्यो विशेषतः । पुरवीथीप्रवेशश्च सर्वक्षेमकरो भवेत् ॥ २७ ॥ इनि विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलबेरलक्षणकथनं नाम एकोनाशीतितमोऽध्याय ॥ नयनोन्मीलनं नाम बेराणां समदृष्टिविन्यासकरणम । तदानीमेव तेषु बेरेषु तत्तद्देव ना सान्निध्यमुत्पद्यत इति वैदिकः शिल्पसंप्रदायक्रमः। एवं तादृशनयनोन्मीलन समये शिल्पिना, दीक्षितानां, भट्टारकाणां, विशेषण वेदविदां ब्राह्मणोत्तमानां पूजनं गोभूकन्यकादिनानादानानि च कारयेत् । अथास्मिन्दिने सायं वा रात्री पूर्वयामिके वा तानि बेराणि शिबिकान्दोलिकारथादिवाहन मारोप्य, ग्रामवीथीनगरवीथीप्रदाक्षिणमार्गेणोत्सवादिक क्रमात कारयेदिति च संप्रदायः । एवमत्र संसपेण सकलविधवेर. लक्षणक्रमः कथितो बोध्यः ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायो विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलविधबेर लक्षणकथनं नाम एकोनाशीतितमोऽध्यायः॥

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834