Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
एवं पनां पद्महस्तां मुरमर्दनदेविकाम् ॥ ६ ॥ नारायणी वा कल्याणी प्रजारक्षणतत्पराम् । सर्वक्षेमंकरी लक्ष्मी महिषी माधवस्य च ॥ ७॥ नानायन्त्रसमोपेतां नानालङ्कारमण्डिताम् । भद्रपीठस्थितां वापि क्षेत्रपाठस्थितान्तु वा ॥ ८॥
किश्च तादृशहस्तषु स्थापनीयडमरुशूल घण्टाकमलपाशशूलाद्यायुधक्रमस्तु मूर्तिध्यानाख्यशिल्पग्रन्थे बोध्य इति च क्रमः । एवं संक्षेपेण सकलविधशिवदेवीयराणां भेदक्रमः प्रतिपादितो ज्ञेयः ॥
___ अथ विष्णुदेवीबेरभेदक्रममाह - एवं पद्मामित्यादिना। वैकुण्ठनाथस्य वा तेषु तेषु दिव्यक्षेत्रध्ववतीर्णस्य भगवतो नानारूपिणो देवस्य माधवस्य महिषी नारायणी माधवीं कल्याणी वा बेररूपवती तत्र देववेदिकामध्ये गर्भगृहे स्थापयेत् । क्वचित् रामस्य सीतादेवीं, वासुदेवस्य रुक्मिणी सत्याञ्च बेररूपवती स्थापयेत् । अपि चान्यत्र देवालये सर्वेषामपि भक्तानां ज्ञानानन्ददायिनी हयग्रीवदेवमहिषी वा लोकजननी शारदादेवीं वा वररूपवती स्थापयेत ॥
तस्माच्छिवदेवीवराणां विष्णुदेवीबेराणां सर्वेषां शारदादेव्यादिबेराणाश्च स्थापनन्तु प्रायशस्तत्र तत्र भद्रपीठे वा भद्रासन वा सिमासने वा पूर्वोक्तत्रिकोणाद्यासनफलकासु वा

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834