Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
७९८
आन्दोली प्रभया युक्ता सपक्षा वा विपक्षका । नानोत्सवा वाहादियोग्या देवासनोचिता ॥ २० ॥
रथस्तु क्षेमदो भूमेः पुंसां स्त्रीणामनेकधा ।
|
अथान्दोलिकालक्षणमाह - आन्दोलीति | आन्दोलीवाहनन्तु चतुर्भिरष्टभिर्मानवैर्धार्यं चतुरश्राकारं कचित्कचिद्दीर्घाकारं करूपनीयं दृढफलका संयुतम् । एतादृशान्दोलिकायाः पक्षोत्सववाहनमिति नामान्तरं ज्ञेयम । किञ्चास्यां किलान्दोलिकायामुत्सवबेरासनं मध्यभागे तत्पार्श्वयोरुत्मत्र देवीवेरासनं चायः कीलघटितबन्धनं प्रकल्पयेत् । किञ्चास्या मध्यभागे स्थापितवेरासनस्य पश्चाद्भागे प्रभाकल्पनं वर्तुलरूपं वा मुखभद्ररूपं या दीर्घाकारं सपक्षं वा पक्षहीनं स्थापयेत् । एवंप्रकारेण प्रभाकल्पनन्तु पूर्वोक्तोत्सवबेरस्य तद्देव्याश्च मौलिभागादिष्वत्यन्तशोभावर्धनायेति मतिः । किञ्च पूर्वोक्तरीत्याऽवान्दोलिकानिर्माणे सौवर्णरजतादिकवचबन्धनमवश्यं कार्यमिति नवीनारिशल्पाचार्याः । कचिद्दारुकृतामध्यान्दोलिकां वर्णजालविरचितचित्रादिमनोहरां प्रकल्पयेदिति प्राचीनाः ॥ २० ॥
अथ रथलक्षणमाह रथस्तु क्षेमद इत्यादिना । रथ निर्माणेन किं वा प्रयोजनमिति चेत्तत्फलं व्यनक्ति - भूमेः पुंसामित्यादिना । मानशास्त्रवेदिभिरिशल्पिभिरतिधनव्ययपूर्वकं

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834