Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 802
________________ ७८१ स्थापयेन्नाथपार्श्वे वा पृथग्वा मण्डपान्तरे । अथवा तामिमां देवीं पृथग्गर्भगृहे क्वचित् ॥ ९ ॥ स्थापयेत्प्राङ्मुखां प्रायशिल्पी शिल्पविदां वरः । तत्तदेवी लक्षणाढ्यां भक्तानां मङ्गलप्रदाम् ॥ १० ॥ शारदां लोकजननीं पृथग्वा संप्रकल्पयेत् । क्वचित्तु देवगन्धर्वसुन्दरीगणसेविताम् ॥ ११ ॥ क्षेत्राधिनाथासनेषु वा युक्तं सर्वक्षेमकरमिति भावः । एवं स्थापितानां देवीविम्बानां अन्तिकस्थले पचतालषट्नालसप्ततालाष्टतालादिप्रमाणैस्तासां देवीनां परिचर्यासक्तानां देवगन्धर्वकिन्नरादिदिव्यसुन्दरीणां बेरादिकं च पृथक् स्थापनीयमिति प्राचामाशयः । एवं कल्पनन्तु चित्रकार्ये परं युज्यते; न बेरकर्मणीति नवीनाः । किन देवालये कचिदरुन्धत्यनसूयालोपामुद्रादिमहर्षि पत्नी. वेरस्थापन पूजनादिकमपि श्रेयस इति साधवः । अत्र तु विषये औदासीन्यं भजन्त्यागमवेत्तारः ॥ तस्मादेतेषु देवीबेरेषु विष्णुदेवीबेरं प्रधाननाथस्य पार्श्वे स्थापयित्वा स्थलान्तरे पृथक्कल्पिते क्षुद्रप्रमाणालयगर्भगेहे पुनरप्येतद्वेरस्थापनं कार्यम् । एवं क्रमस्तु लक्ष्मीभूमीनीला गोदासीतारुक्मिणीदेवीप्रभृतीनां तत्तत्क्षेत्रनाथदेवीनां बेरनिर्माणाविषयक इति भावः । किञ्चायन्तु क्रमश्शिवदेवीबेरेषु नोपपद्यत इति ॥

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834