Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
७८९
तत्कल्पनमिहादिष्टं शास्त्रज्ञैर्मुनिपुङ्गवः । उत्तमः कल्पवृक्षस्तु छायामण्डपसंयुतः ॥ ३ ॥ चतुरनं मण्डलं वा दीर्घाकारमथापि वा ।
एवं विविधरूपप्वपि सर्वत्र वाहन जाले पु मुम्वाद्यवयवानां मेलनदाढ्योत्पादनायाय कीलकील्यापट्टिकाकवचादिभिस्संबन्धनीय इति नियमश्शिल्पिवगैः क्रिया कारिभिर्वोध्य इति क्रमः ॥
किश्चैवं कल्पनीयेषु वाहनेषु तेषु कल्पवृक्षवाहनमेव नितरामुनममिति महर्षीणां शास्त्रकाराणाञ्चाशयः । तस्मात्तादृशदिव्यकल्पवृक्षोऽत्र मानवलोके बरेवावाहितानां हरिहरादिदेवानामुत्सवचंक्रमणाय वृक्ष खण्डर्निर्माप्यः। मन्दारादिवृक्षपञ्चकशाखान्तःकुसुमफलावलिभिः संपूर्णः हस्तषटकाद्युन्नतियुतः कल्पवृक्षः कल्प्यः । किञ्च तस्य वृक्षम्याधोभागे आधारफलका याश्चतुरश्रप्रमाणाया मध्यभागे तस्य वृक्षस्य छायायां तथैव मण्डपो वृक्षखण्डकृतस्तम्भचतुष्कोपेतः अयःकीलबन्धितो निर्मापणीयः । किश्चैतस्य खलु मण्डपस्य मध्यभागे देवीबिम्बसहितदेवबिम्बानां क्वचित्तद्भक्तानां च स्थितिरुत्सवादिसमयेषु कल्पनीयेति भावः । एवं बृहदाकृतीनाभिष्टिकादिभिर्निर्मितानां कल्पवृक्षाणामधोभागे मण्डपमध्यस्थले तदनुगुणोन्नत्यवैशाल्ययुते मूलबेरस्थापनमपि कार्यमिति नवीनानां शिल्पिनामाशयः ॥ ३ ॥

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834