Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 820
________________ षट्चको वा चतुश्चक्रस्त्वष्टचक्रयुतः कचित् ॥ २१ ॥ दशभिर्वा द्वादशभिश्चयुक्तः क्वचिन्मतः । दृढयुग्यकलोपेतस्साधिष्ठानं तदासनम् ॥ २२ ॥ पद्मवाजनकम्पादिसंयुक्तं बहुचित्रकम् । ततस्स्तम्भावलियर्योज्या प्रस्तरादिसमन्विता ॥ २३ ॥ देवाय रथनिर्माणे कृते प्रति संवत्सरं तस्मिंश्च रथे देवबिम्बारोपणे च कृते यदि तथा तन्मण्डल भूमो नितरां सुवृष्टयारोग्यादिर्भवेत् । धेन्वादीनां रोगाभावः स्त्रियस्सुपुत्रवत्य इत्याद्यनेकक्षेमपरम्परेत्यागमविदामाशयः आविष्कृतः पुंसां स्त्रीणामनेकधा' इति मूलवाक्येन । तस्मादनेकविधक्षेमाविर्भावनिदानभूतस्य तस्य देवस्यन्दनस्य चतुश्चक्रयोजनं वा षट्चक्रयोजनं वाऽष्टचक्रयोजनं बा चक्रदशकयोजनं वा स्वस्वविभवानुगुणं कारयित्वा तेषाञ्चक्राणां दारुकृतानां नेम्यादिस्था नेष्वयःकीलादियोजनमप्यविशीर्ण कारयेत् । एवं स्वस्वविभववाञ्छानुगुणं कल्पनीयस्य देवरथस्य चक्रस्थापनानन्तरमुपरिभागे रथदेहनिर्माणार्थ तेषां चक्राणां नाभिस्थाने पृथुयुग्याख्यलोहोलूखलदण्डं योजयित्वा तदुपरि चतुर्दिक्षु तिर्यग्रूपदृढदारुखण्डेरधिष्ठानं हस्तषट्कोन्नत्यं पद्मबाजनादिचित्रयुतं वा प्रकल्प्य तदृढाधिष्ठानकल्पनस्य समन्ततो दिक्ष सर्वास्वपि विनायककार्तिकेयवासवब्रह्मविष्णुरामचन्द्रकृष्ण

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834