Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 806
________________ ७८५ तत्स्थानं कल्पयेच्छिल्पी तदायुधतलं मतम् ॥ ५ ॥ तत्पुरोभागके द्वारभागे वा स्तम्भभित्तिके । त्वष्टारं शास्त्रकर्तारं विश्वकर्माणमादिमम् ॥ ६ ॥ निर्मापितारं राजानं दीक्षितं वा पुरोधमम् । तस्मादेतादृशबलिपीठध्वजखम्भभक्तमण्डपानां पुरोभागे पश्चाद्भागे कचित्पृष्ठभागे च मण्डपान्तरं क्षुद्रप्रमाणयुतं वा स्थापनीयम् । एतच्च भक्तमण्डपान्तरन्तु पूर्वोक्तदेवभद्रमण्टपसंयुक्तं वा पृथग्वा स्थलविभवानुगुणं प्रकल्पयदित्यर्थः । एवं दिव्य. भक्तानां स्थानस्य पार्शदिस्थलकृते मण्डपान्तरे प्रधानदेवस्य देव्या वा आयुधजालादीनि स्थापयित्वा प्रत्यहं कालत्रयेऽपि पूजयेदि. त्युपदेशः ॥ किश्च सर्वत्र देवालये प्रामकृते वा नगरकृते गर्भगृहस्य पूर्वभागस्थिते पूर्वोक्तास्थानमण्डपे प्रधानस्तंभान्तिके तत्स्तम्भमिलितं वा पृथक् वास्तुशास्त्रप्रणेतारं दिव्यं विश्वकर्माणं घनशिलाबेररूपं साञ्जलिबन्धं स्थापयेदिति शास्त्रकारोऽयं स्वस्यापि बेरस्थापनं देवालये कार्यमित्युक्तवान् । एवं तस्य गर्भगृहस्य मण्डपस्य वा निर्मातारं भौमं त्वष्टार, शिल्पाचार्य, स्थपतीश्वरं वा तत्पुरोभागे स्तम्भान्नरतले स्थापयेत् । अनेनैव प्रकारेण स्थलान्तरे स्तम्भान्तरे वा तस्य देवालयस्य निर्माणार्थ धन 8. B. 99

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834