Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 804
________________ अथ भक्तबेरस्थापनकमकथनं नाम त्र्यशीतितमोऽध्यायः॥ भक्तबेरस्थापनश्च शुभदं परिकीर्तितम् । देवालयेषु सर्वेषु भक्तानां भक्तिवर्धकम् ॥ १ ॥ वेदिकाधिष्ठितं वापि पृथङ्मण्डपसंयुतम् । पृथक्शालासमोपेतं भक्तानां स्थापनं शुभम् ॥ २॥ गरुडं नन्दिकेशं वा योगिनं वा मुनीन्द्रकम् । ॥यशीतितमोऽध्यायः ॥ एवं सकलविधदेवबेरदेवीबेरमुपपाद्यास्मिन व्यशीतितमेऽध्याये तादृशदेव पादारविन्दभक्तिभाजां भक्तोत्तमानां लक्षणं निरूपयतिभक्तवेरस्थापनश्चेत्यादिना । पूर्वोक्तानां सर्वेषामपि देवानां देवीनां पादारविन्दे भक्तिशालिनो ये दिव्यसूरयो गरुडपावमानिनन्दि सनक सनन्दनादयो देवा महर्षयश्च पुराणग्रन्थेषु प्रतिपादिताः, देवभक्तानां तेषां बेराणि च देवस्य पुरोभागे कचिदेव्याश्च पुरोभागस्थले स्थापयदिति शास्त्रकारोपदेशक्रमः । तस्मादेतेषां भक्तानां बेरस्थापनस्थलन्तु पूर्वोक्तस्य देवगर्भगृहस्यान्त्यद्वारस्य पुरोभागे ध्वजस्तम्भस्थानस्य, बलिपीठस्थानस्य चाम्तस्थले द्विहस्तौनत्यवत्यां चतुरभवेदिकायां वा तदर्थ पृथकल्पितक्षुद्रप्रमाणमण्डपशालाकूटमध्यस्थले वा स्थापयेदिति क्रमो निगदितः ।

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834