Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 800
________________ ७७९ काली करालीमथवा भैरवीं विविधायुधाम् । तत्तत्क्षेत्राधीश्वरीं वा स्थापयेद्विविधासने ॥ ४ ॥ दुर्गा द्वारान्तिके वापि पुरमध्येऽथवा क्वचित् । ग्रामस्य वा बहिर्देशे ग्रामदेवीं च कल्पयेत् ॥ ५ ॥ रक्षाकरी वा जननीमालये स्थापयेत्कचित | जयशालिन्या गौर्याः बेरं वा तादृशासुरखवव्यपदेवबरं वा, तादृशासुरकृतदुष्कार्यं प्रति महाको पवतीभुदायुधां दंष्ट्राकरालवदनां वा देवीं बेररूपिणीं स्थापयेदिति विकल्पः ॥ कि कचिदेवालये भक्तरक्षणार्थमुन्मुखायाश्शान्तस्वरूपाया देव्या बेरं वा स्थापयित्वा तस्य प्रासस्य वा नगरस्य वा दुर्गनगरस्य वा राजधान्या रक्षाकारिण्याः काल्याः कराल्याः भैरव्या वा देव्या बेरं ग्राममध्ये, नगरमध्ये वा कृतालयस्थानेषु स्थापयेत् । अथवा तदिदं पुररक्षकदेवीबेरं पुरद्वारस्य, राजधानीद्वारस्य, दुर्गद्वारस्य च सव्यभागकल्पिते क्षुद्रप्रमाणे देवालये स्थापयेत् । किश्च क्वचित्तत्र तत्र शिवमन्दिरेषु कल्पितानां शिवबेराणामनुकूलमेव देवीबेरं नानायुध भासुरकरपल्लवं प्रकल्पयेत् । पुरुषबेराणां पूर्वोक्तानां येन वा प्रकारेण हस्तचतुष्कहस्ताष्टकहस्तदशकहतद्वादशादिकं कल्पनीयमित्युक्तं, तेनैव प्रकारेणात्रापि देवीबिम्बनिर्माणे हस्तचतुष्कहस्ताष्टकादिसंयोजनं कार्यमिति च क्रमः ।

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834