Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
७९४
नागः फणावलियतो मण्डलायितकायकः । फणातपत्रच्छायायां देवपीठं प्रकल्पयेत् ॥ १३ ॥
पाव मानिर्दाशरथिपादपङ्कजधृङ्मतः ।
कल्पनमुशन्ति शिल्पविदः । यथा - किरीट मकुटोपेतो मनुष्यकाय: स्कन्धभागस्थापितदेवबेरस्य
यज्ञोपवीतभासुरपृथुलवक्षस्स्थलः पादाम्बुजधारणोद्युक्तोद्धृतहस्तयुगलां गरुडवाहनकल्पो निमाप्य इति । अयमेकः प्रकारः ॥
प्रकारान्तरेण यथा पक्षिजातिषु यथा वा
वैनतेयः शकुन्तरूपी दृश्यते तथैव शकुन्तरूपेणोपेतो वैनतेय वाहनकल्पः कल्पनीय इति । अत्र प्रथमप्रकारेण कल्पनं नवीनमतानुसारि ; द्वितीयप्रकारेण कल्पनं प्राचीनमतानुसारीति क्रमो बोध्यः । पाण्ड्यचोलादिषु देशेषु सर्वेषु यथाक्रमं स्वस्वदेशीयनिर्माणक्रमः स्वीकार्य इति ॥ १२ ॥
नाग इति ।
अथ शेषवाहनलक्षणमाह मण्डलीकृतस्वदीर्घकायः सप्तभिर्वा नवभिर्वैकादशभिः फणाभिरसंयुतश्शेषवाहनकल्पः करणीयः । तत्र तस्य शेषस्य विस्तृतफणायाश्छत्राकाराया अधोभागे तादृशमण्डलीकृतकायस्योतल एव देवबेरस्थापनासनं स्थाप्यमिति शिरूपसमयः || १३ ॥
अथ हनूमद्वाहननिर्माणक्रममाह - पावमानिरिति ।
――
ASTATING

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834