SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ स्थापयेञ्च महावेद्यां शालायां वा विशेषतः । तद्रव्यं खण्डयेदादौ सूत्ररेखाश्च योजयेत् ॥ १० ॥ अङ्गुलं तालमानं वा किष्कुमानं क्वचिन्नयेत् । हस्तमानं क्वचिनेयं बेरे चित्रे च कर्मणि ॥ ११ ॥ क्रमान्मुखादिरूपन्तु योज्यं सौष्ठववेदिभिः । मुखबाहरुपादादीन्स्फुटरूपं प्रकल्पयेत् ॥ १२ ॥ लम्बसूत्रं पार्श्वमूत्रं तिर्यसूत्रं तथा नयेत् । तत्तदङ्गक्रियाकारी सावधानो रहःस्थले ॥ १३ ॥ वेदिकायां वा, क्रियाशालायां वा, शुद्धे स्थले स्थापयित्वा, तदारभ्य बेरनिर्माणाय यतेरनिति शिल्पिकार्यक्रमश्च बोध्यः । एवं शुभदिने, शुभमुहूर्ने, शुभशकुननिरीक्षणपूर्वकमुत्सवबेरनिर्माणाई ताम्रादिलोहजालाहरणमपि कार्यमिति भावः एव द्रव्याहरणानन्तर पश्चतालषट्तालसप्ततालाष्टतालनवतालदशतालद्वादशतालादिबेरतालप्रमाणज्ञो बेरनिर्माणक्रियाकुशल: शिलालोहकारश्च स्थपती रहःस्थले यवनिकाच्छादिते वनादाहृतं त द्रव्यं स्वक्रियाई यथामानं खण्डशः खण्डयेत् । तदनन्तरं तेषु बरेषु मुखाद्यवयवकल्पनाय लम्बसूत्रं, पार्श्वसूत्रं, तिर्यक्सूत्रञ्च क्रमात्प्रयोज्य तत्र तत्र धातुभी रक्तवर्णै रेखाविन्यासश्च कृत्वा, मुखवक्षोबाहुनाभ्यूरुजवापादादिस्वरूपस्फूर्तये बहुविधैष्टंकविशेषै.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy