Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 781
________________ ७६० ज्योतिस्स्वरूपा ये प्रोक्तास्तद्देव्यो याश्च कीर्तिताः । गरुत्मानन्दिदेवेशो देववाहाश्च ये मताः ॥२॥ देवायुधस्वरूपा ये द्वारपा ये च कीर्तिताः । शास्त्रप्रवर्तका देवा ये चान्ये मुनिपुङ्गवाः ॥ ३॥ शिलादिभिर्द्रव्यजालैरेतेषां रूपकल्पनम् । एवं वासवाग्नियमनिऋतिवरुणपवनधनेशेशानाख्या ये दिक्पाला देवविशेषाः, ये च सूर्यचन्द्र शुक्रकेतुबुधभौमराहु. गुरुशन्याख्या प्रहपतयो देववराः, अन्ये च ये ज्योतिर्मया निर्दिष्टा देवाः विष्वक्सेन मनक सनन्दनाद्या दिव्यसूरयो, याश्च लोकमातरो लक्ष्मीगौरीशारदाछायास्वाहाद्याः एतेषां स्वरूपमपि बेरकल्पनेषु चित्रकल्पनेषु चारोप्य प्रत्यहं अमन्दानन्दप्राप्तये पूजयेयुरित्यर्थः ॥ किञ्च पूर्वोक्तानां हरिहरब्रह्मादिदेवानामायुधांशभूतास्तदिव्यस्थानद्वारपालकरक्षकाश्च ये प्रकीर्तिताः थे चैतेषां देवोत्तमानां भक्तिनिलया वैनतेयनन्दि पावमानिप्रमुखा ये च देववाहनभूताइशेषहंसमयूरादयो, ये च दिव्यचक्षुषश्शास्त्रप्रवर्तकाः गोत्रप्रवर्तका नारदकाश्यपात्रिभृगुकुत्सवसिष्ठगीतमादयो मुनीन्द्रा. स्सर्वेषामेतेषां स्वरूपञ्च बैरकल्पनेषु चित्रकल्पनेषु वारोप्य पूजयेदिति शास्त्रकारोपदेशलक्षणवाक्यार्थो बोध्यः ॥

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834